धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 353

  1. [भीस्म] स चामन्त्र्यॊरग शरेष्ठं बराह्मणः कृतनिश्चयः दीक्षाकान्स्की तदा राजंश चयवनं भार्गवं शरितः ॥ 1 ॥

  2. स तेन कृतसंस्कारॊ धर्मम एवॊपतस्थिवान तथैव च कथाम एतां राजन कथितवांस तदा ॥ 2 ॥

  3. भार्गवेणापि राजेन्द्र जनकस्य निवेशने कथैषा कथिता पुण्या नारदाय महात्मने ॥ 3 ॥

  4. नारदेनापि राजेन्द्र देवेन्द्रस्य निवेशने कथिता भरतश्रेष्ठ पृष्टेनाक्लिष्ट कर्मणा ॥ 4 ॥

  5. देवराजेन च पुरा कथैषा कथिता शुभा समस्तेभ्यः परशस्तेभ्यॊ वसुभ्यॊ वसुधाधिप ॥ 5 ॥

  6. यदा च मम रामेण युद्धम आसीत सुदारुणम वसुभिश च तदा राजन कथेयं कथिता मम ॥ 6 ॥

  7. पृच्छमानाय तत्त्वेन मया तुभ्यं विशां पते कथेयं कथिता पुण्या धर्म्या धर्मभृतां वर ॥ 7 ॥

  8. तद एष परमॊ धर्मॊ यन मां पृच्छसि भारत असन्न धीरनाकान्स्की धर्मार्थकरणे नृप ॥ 8 ॥

  9. स च किल कृतनिश्चयॊ दविजाग्र्यॊ; भुजग पतिप्रतिदेशितार्थ कृत्यः यम नियमसमाहितॊ वनान्तं; परिगणितॊञ्छ शिलाशनः परविष्टः ॥ 9 ॥

Reach this point to mark the section finished.

Continue to अध्याय 1

Previous: अध्याय 352