[बराह्मण] आश्चर्यं नात्र संदेहः सुप्रीतॊ ऽसमि भुजंगम अन्वर्थॊपगतैर वाक्यैः पन्थानं चास्मि दर्शितः ॥ 1 ॥
सवस्ति ते ऽसतु गमिष्यामि साधॊ भुजग सत्तम समरणीयॊ ऽसमि भवता संप्रेषण नियॊजनैः ॥ 2 ॥
[नाग] अनुक्त्वा मद्गतं कार्यं कवेदानीं परस्थितॊ भवान उच्यतां दविज यत कार्यं यदर्थं तवम इहागतः ॥ 3 ॥
उक्तानुक्ते कृते कार्ये माम आमन्त्र्य दविजर्षभ मया परत्यभ्यनुज्ञातस ततॊ यास्यसि बराह्मण ॥ 4 ॥
न हि मां केवलं दृष्ट्वा तयक्त्वा परनयवान इह गन्तुम अर्हसि विप्रर्षे वृक्षमूलगतॊ यथा ॥ 5 ॥
तवयि चाहं दविजश्रेष्ठ भवान मयि न संशयः लॊकॊ ऽयं भवतः सर्वः का चिन्ता मयि ते ऽनघ ॥ 6 ॥
[बराह्मन] एवम एतन महाप्राज्ञ विज्ञातार्थभुजंगम नातिरिक्तास तवया देवाः सर्वथैव यथातथम ॥ 7 ॥
य एवाहं स एव तवम एवम एतद भुजंगम अहं भवांश च भूतानि सर्वे सर्वत्र गाः सदा ॥ 8 ॥
आसीत तु मे भॊगपते संशयः पुण्यसंचये सॊ ऽहम उञ्छव्रतं साधॊ चरिष्याम्य अर्थदर्शनम ॥ 9 ॥
एष मे निश्चयः साधॊ कृतः कारणवत्तरः आमन्त्रयामि भद्रं ते कृतार्थॊ ऽसमि भुजंगम ॥ 10 ॥
शान्तिपर्व · Shanti Parva
अध्याय 352
Reach this point to mark the section finished.
Continue to अध्याय 353