धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 349

  1. [भीस्म] स पन्नगपतिस तत्र परययौ बराह्मणं परति तम एव मनसा धयायन कार्यवत्तां विचारयन ॥ 1 ॥

  2. तम अभिक्रम्य नागेन्द्रॊ मतिमान स नरेश्वरः परॊवाच मधुरं वाक्यं परकृत्या धर्मवत्सलः ॥ 2 ॥

  3. भॊ भॊ कषाम्याभिभासे तवां न रॊषं कर्तुम अर्हसि इह तवम अभिसंप्राप्तः कस्यार्थे किं परयॊजनम ॥ 3 ॥

  4. आभिमुख्याद अभिक्रम्य सनेहात पृच्छामि ते दविज विविक्ते गॊमतीतीरे किं वा तवं पर्युपाससे ॥ 4 ॥

  5. [बराह्मन] धर्मारण्यं हि मां विद्धि नागं दरष्टुम इहागतम पद्मनाभं दविजश्रेष्ठं तत्र मे कार्यम आहितम ॥ 5 ॥

  6. तस्य चाहम असांनिध्यं शरुतवान अस्मि तं गतम सवजनं तं परतीक्षामि पर्जन्यम इव कर्षकः ॥ 6 ॥

  7. तस्य चाक्लेश करणं सवस्ति कारसमाहितम वर्तयाम्य अयुतं बरह्मयॊगयुक्तॊ निरामयः ॥ 7 ॥

  8. [नाग] अहॊ कल्यान वृत्तस तवं साधु सज जनवत्सलः शरवाध्यस तवं महाभाग परं सनेहेन पश्यसि ॥ 8 ॥

  9. अहं स नागविप्रर्षे यथा मां विन्दते भवान आज्ञापय यथा सवैरं किं करॊमि परियं तव ॥ 9 ॥

  10. भवन्तं सवजनाद अस्मि संप्राप्तं शरुतवान इह अतस तवां सवयम एवाहं दरष्टुम अभ्यागतॊ दविज ॥ 10 ॥

  11. संप्राप्तश च भवान अद्य कृतार्थः परतियास्यति विस्रब्धॊ मां दविजश्रेष्ठ विषये यॊक्तुम अर्हसि ॥ 11 ॥

  12. वयं हि भवता सर्वे गुणक्रीता विशेषतः यस तवम आत्महितं तयक्त्वा माम एवेहानुरुध्यसे ॥ 12 ॥

  13. [बराह्मन] आगतॊ ऽहं महाभाग तव दर्शनलालसः कं चिद अर्थम अनर्थज्ञः परस्तु कामॊ भुजंगम ॥ 13 ॥

  14. अहम आत्मानम आत्मस्थॊ मार्गमाणॊ ऽऽतमनॊ हितम वासार्थिनं महाप्राज्ञ बलवन्तम उपास्मि ह ॥ 14 ॥

  15. परकाशितस तवं सवगुणैर यशॊ गर्भगभस्तिभिः शशाङ्ककरसंस्पर्शैर हृद्यैर आत्मप्रकाशितैः ॥ 15 ॥

  16. तस्य मे परश्नम उत्पन्नं छिन्धि तवम अनिलाशन पश्चात कार्यं वदिष्यामि शरॊतुम अर्हति मे भवान ॥ 16 ॥

Reach this point to mark the section finished.

Continue to अध्याय 350

Previous: अध्याय 348