[बराह्मण] विवस्वतॊ गच्छति पर्ययेण; वॊढुं भवांस तं रथम एकचक्रम आश्चर्यभूतं यदि तत्र किं चिद; दृष्टं तवया शंसितुम अर्हसि तवम ॥ 1 ॥
[नाग] यस्य रश्मिसहस्रेषु शाखास्व इव विहंगमाः वसन्त्य आश्रित्य मुनयः संसिद्धा दैवतैः सह ॥ 2 ॥
यतॊ वायुर विनिःसृत्य सूर्यरश्म्य आश्रितॊ महान विजृम्भत्य अम्बरे विप्र किम आश्चर्यतरं ततः ॥ 3 ॥
शुक्रॊ नामासितः पारॊ यस्य वारिधरॊ ऽमबरे तॊयं सृजति वर्षासु किम आश्चर्यम अतः परम ॥ 4 ॥
यॊ ऽसतमासांस तु शुचिना किरणेनॊज्झितं पयः पर्यादत्ते पुनः काले किम आश्चर्यम अतः परम ॥ 5 ॥
यस्य तेजॊ विशेषेषु नित्यम आत्मा परतिष्ठितः यतॊ बीजं मही चेयं धार्यते सचराचरम ॥ 6 ॥
यत्र देवॊ महाबाहुः शाश्वतः परमॊ ऽकषरः अनादि निधनॊ विप्र किम आश्चर्यम अतः परम ॥ 7 ॥
आश्चर्याणाम इवाश्चर्यम इदम एकं तु मे शृणु विमले यन मया दृष्टम अम्बरे सूर्यसंश्रयात ॥ 8 ॥
पुरा मध्याह्न समये लॊकांस तपति भास्करे परत्य आदित्यप्रतीकाशः सर्वतः परत्यदृश्यत ॥ 9 ॥
स लॊकांस तेजसा सर्वान सवभासा निर्विभासयन आदित्याभीमुखॊ ऽभयेति गगनं पातयन्न इव ॥ 10 ॥
हुताहुतिर इव जयॊतिर वयाप्य तेजॊ मरीचिभिः अनिर्देश्येन रूपेण दवितीय इव भास्करः ॥ 11 ॥
तस्याभिगमन पराप्तौ हस्तॊ दत्तॊ विवस्वता तेनापि दक्षिणॊ हस्तॊ दत्तः परत्यर्चनार्थिना ॥ 12 ॥
ततॊ भित्त्वैव गगनं परविष्टॊ रविमन्दलम एकीभूतं च तत तेजः कषणेनादित्यतां गतम ॥ 13 ॥
तत्र नः शंसयॊ जातस तयॊस तेजः समागमे अनयॊः कॊ भवेत सूर्यॊ रथस्थॊ यॊ ऽयम आगतः ॥ 14 ॥
ते वयं जातसंदेहाः पर्यपृच्छामहे रविम क एष दिवम आक्रम्य गतः सूर्य इवापरः ॥ 15 ॥
शान्तिपर्व · Shanti Parva
अध्याय 350
Reach this point to mark the section finished.
Continue to अध्याय 351