धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 348

  1. [नाग] अथ बराह्मणरूपेण कं तं समनुपश्यसि मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते ॥ 1 ॥

  2. कॊ हि मां मानुषः शक्तॊ दरष्टुकामॊ यशस्विनि संदर्शन रुचिर वाक्यम आज्ञा पूर्वं वदिष्यति ॥ 2 ॥

  3. सुरासुरगणानां च देवर्षीणां च भामिनि ननु नागा महावीर्याः सौरसेयास तरस्विनः ॥ 3 ॥

  4. वन्दनीयाश च वरदा वयम अप्य अनुयायिनः मनुष्याणां विशेषेण धनाध्यक्षा इति शरुतिः ॥ 4 ॥

  5. [नागभार्या] आर्जवेनाभिजानामि नासौ देवॊ ऽनिलाशन एकं तव अस्य विजानामि भक्तिमान अतिरॊषणः ॥ 5 ॥

  6. स हि कार्यान्तराकाङ्क्षी जलेप्सुः सतॊककॊ यथा वर्षं वर्षप्रियः पक्षी दर्शनं तव काङ्क्षति ॥ 6 ॥

  7. न हि तवा दैवतं किं चिद विविग्नं परतिपालयेत तुल्ये हय अभिजने जातॊ न कश चित पर्युपासते ॥ 7 ॥

  8. तद रॊषं सहजं तयक्त्वा तवम एनं दरष्टुम अर्हसि आशा छेदेन तस्याद्य नात्मानं दग्धुम अर्हसि ॥ 8 ॥

  9. आशया तव अभिपन्नानाम अकृत्वाश्रु परमार्जनम राजा वा राजपुत्रॊ वा भरूण हत्यैव युज्यते ॥ 9 ॥

  10. मौनाज जञानफलावाप्तिर दानेन च यशॊ महत वाग्मित्वं सत्यवाच्क्येन परत्र च महीयते ॥ 10 ॥

  11. भूमिप्रदानेन गतिं लभत्य आश्रमसंमिताम नस्तस्यार्थस्य संप्राप्तिं कृत्वा फलम उपाश्नुते ॥ 11 ॥

  12. अभिप्रेताम असंक्लिष्टां कृत्वाकामवतीं करियाम न याति निरयं कश चिद इति धर्मविदॊ विदुः ॥ 12 ॥

  13. [नाग] अभिमानेन मानॊ मे जातिदॊषेण वै महान रॊषः संकल्पजः साध्वि दग्धॊ वाचाग्निना तवया ॥ 13 ॥

  14. न च रॊषाद अहं साध्वि पश्येयम अधिकं तमः यस्य वक्तव्यतां यान्ति विशेषेण भुजंगमाः ॥ 14 ॥

  15. दॊषस्य हि वशंगत्वा दशग्रीवः परतापवान तथा शक्र परतिस्पर्धी हतॊ रामेण संयुगे ॥ 15 ॥

  16. अन्तःपुर गतं वत्सं शरुत्वा रामेण निर्हृतम धर्षणाद रॊषसंविग्नाः कार्तवीर्य सुता हताः ॥ 16 ॥

  17. जामदग्न्येन रामेण सहस्रनयनॊपमः संयुगे निहतॊ रॊषात कार्तवीर्यॊ महाबलः ॥ 17 ॥

  18. तद एष तपसां शत्रुः शरेयसश च निपातनः निगृहीतॊ मया रॊषः शरुत्वैव वचनं तव ॥ 18 ॥

  19. आत्मानं च विशेषेण परशंसाम्य अनपायिनि यस्य मे तवं विशालाक्षि भार्या सर्वगुणान्विता ॥ 19 ॥

  20. एष तत्रैव गच्छामि यत्र तिष्ठत्य असौ दविजः सर्वथा चॊक्तवान वाक्यं नाकृतार्थः परयास्यति ॥ 20 ॥

Reach this point to mark the section finished.

Continue to अध्याय 349

Previous: अध्याय 347