धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 347

  1. [भीस्म] अथ काले बहुतिथे पूर्णे पराप्तॊ भुजंगमः दत्ताभ्यनुज्ञः सवं वेश्म कृतकर्मा विवस्वतः ॥ 1 ॥

  2. तं भार्यासमभिक्रामत पादशौचादिभिर गुणैः उपपन्नां च तां साध्वीं पन्नगः पर्यपृच्छत ॥ 2 ॥

  3. अपि तवम असि कल्यानि देवतातिथिपूजने पूर्वम उक्तेन विधिना युक्ता युक्तेन मत्समम ॥ 3 ॥

  4. न खल्व अस्याकृतार्थेन सत्री बुद्ध्या मार्दवी कृता मद्वियॊगेन सुश्रॊणि वियुक्ता धर्मसेतुना ॥ 4 ॥

  5. [नागभार्या] शिष्याणां गुरु शुश्रूसा विप्राणां वेद पारणम भृत्यानां सवामिवचनं राज्ञां लॊकानुपालनम ॥ 5 ॥

  6. सर्वभूतपरित्राणं कषत्रधर्म इहॊच्यते वैश्यानां यज्ञसंवृत्तिर आतिथेय समन्विता ॥ 6 ॥

  7. विप्र कषत्रिय वैश्यानां शुश्रूसा शूद्र कर्म तत गृहस्थ धर्मॊ नागेन्द्र सर्वभूतहितैषिता ॥ 7 ॥

  8. नियताहारता नित्यं वरतचर्या यथाक्रमम धर्मॊ हि धर्मसंबन्धाद इन्द्रियाणां विशेषणम ॥ 8 ॥

  9. अहं कस्य कुतॊ वाहं कः कॊ मे ह भवेद इति परयॊजन मतिर नित्यम एवं मॊक्षाश्रमी भवेत ॥ 9 ॥

  10. पतिव्रतात्वं भार्यायाः परमॊ धर्म उच्यते तपॊपदेशान नागेन्द्र तच च तत्त्वेन वेद्मि वै ॥ 10 ॥

  11. साहं धर्मं विजानन्ती धर्मनित्ये तवयि सथिते सत्पथं कथम उत्सृज्य यास्यामि विषमे पथि ॥ 11 ॥

  12. देवतानां महाभाग धर्मचर्या न हीयते अतिथीनां च सत्कारे नित्ययुक्तास्म्य अतन्द्रिता ॥ 12 ॥

  13. सप्तास्त दिवसास तव अद्य विप्रस्येहागतस्य वै स च कार्यं न मे खयातिदर्शनं तव काङ्क्षति ॥ 13 ॥

  14. गॊमत्यास तव एष पुलिने तवद्दर्शनसमुत्सुकः आसीनॊ ऽऽवर्तयन बरह्म बराह्मणः संशितव्रतः ॥ 14 ॥

  15. अहं तव अनेन नागेन्द्र सामपूर्वं समाहिता परस्थाप्यॊ मत्सकाशं स संप्राप्तॊ भुजगॊत्तमः ॥ 15 ॥

  16. एतच छरुत्वा महाप्राज्ञ तत्र गन्तुं तवम अर्हसि दातुम अर्हसि वा तस्य दर्शनं दर्शनश्रवः ॥ 16 ॥

Reach this point to mark the section finished.

Continue to अध्याय 348

Previous: अध्याय 346