[बराह्मण] अतिभारॊद्यतस्यैव भारापनयनं महत पराश्वास करं वाक्यम इदं मे भवतः शरुतम ॥ 1 ॥
अध्वक्लान्तस्य शयनं सथानक्लान्तस्य चासनम तृषितस्य च पानीयं कषुधार्तस्य च भॊजनम ॥ 2 ॥
ईप्सितस्येव संप्राप्तिर अन्नस्य समये ऽतिथेः एषितस्यात्मनः काले वृद्धस्येव सुतॊ यथा ॥ 3 ॥
मनसा चिन्तितस्येव परीतिस्निग्धस्य दर्शनम परह्लादयति मां वाक्यं भवता यद उदीरितम ॥ 4 ॥
दत्तचक्षुर इवाकाशे पश्यामि विमृशामि च परज्ञान वचनाद यॊ ऽयम उपदेशॊ हि मे कृतः बाधम एवं करिष्यामि यथा मां भासते भवान ॥ 5 ॥
इहेमां रजनीं साधॊ निवसस्व मया सह परभाते यास्यति भवान पर्याश्वस्तः सुखॊषितः असौ हि भगवान सूर्यॊ मन्दरश्मिर अवाङ मुखः ॥ 6 ॥
[भीस्म] ततस तेन कृतातिथ्यः सॊ ऽतिथिः शत्रुसूदन उवास किल तां रात्रिं सह तेन दविजेन वै ॥ 7 ॥
तत तच च धर्मसंयुक्तं तयॊः कथयतॊस तदा वयतीता सा निशा कृत्स्नासुखेन दिवसॊपमा ॥ 8 ॥
ततः परभातसमये सॊ ऽतिथिस तेन पूजितः बराह्मणेन यथाशक्त्या सवकार्यम अभिकाङ्क्षता ॥ 9 ॥
ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः सवजनेन धर्मवित यथॊपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैक निश्चयः ॥ 10 ॥
शान्तिपर्व · Shanti Parva
अध्याय 344
Reach this point to mark the section finished.
Continue to अध्याय 345