धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 345

  1. [भीस्म] स वनानि विचित्राणि तीर्थानि च सरांसि च अभिगच्छन करमेण सम कं चिन मुनिम उपस्थितः ॥ 1 ॥

  2. तं स तेन यथॊद्दिष्टं नागं विप्रेण बराह्मणः पर्यपृच्छद यथान्यायं शरुत्वैव च जगाम सः ॥ 2 ॥

  3. सॊ ऽभिगम्य यथाख्यातं नागायतनम अर्थवित परॊक्तवान अहम अस्मीति भॊः शब्दालंकृतं वचः ॥ 3 ॥

  4. ततस तस्य वचः शरुत्वा रूपिणी धर्मवत्सला दर्शयाम आस तं विप्रं नागपत्नी पतिव्रता ॥ 4 ॥

  5. सा तस्मै विधिवत पूजां चक्रे धर्मपरायना सवागतेनागतं कृत्वा किं करॊमीति चाब्रवीत ॥ 5 ॥

  6. [बराह्मन] विश्रान्तॊ ऽभयर्चितश चास्मि भवत्या शलक्ष्णया गिरा दरष्टुम इच्छामि भवति तं देवं नागम उत्तमम ॥ 6 ॥

  7. एतद धि परमं कार्यम एतन मे फलम ईप्सितम अनेनार्थेन चास्म्य अद्य संप्राप्तः पन्नगालयम ॥ 7 ॥

  8. [नागभार्या] आर्य सूर्यरथं वॊढुं गतॊ ऽसौ मासचारिकः सप्तास्तभिर दिनैर विप्र दर्शयिष्यत्य असंशयम ॥ 8 ॥

  9. एतद विदितम आर्यस्य विवास करणं मम भर्तुर भवतु किं चान्यत करियतां तद वदस्व मे ॥ 9 ॥

  10. [बराह्मन] अनेन निश्चयेनाहं साध्वि संप्राप्तवान इह परतीक्षन्न आगमं देवि वत्स्याम्य अस्मिन महावने ॥ 10 ॥

  11. संप्राप्तस्यैव चाव्यग्रम आवेद्यॊ ऽहम इहागतः ममाभिगमनं पराप्तॊ वाच्यश च वचनं तवया ॥ 11 ॥

  12. अहम अप्य अत्र वत्स्यामि गॊमत्याः पुलिने शुभे कालं परिमिताहारॊ यथॊक्तं परिपालयन ॥ 12 ॥

  13. [भीस्म] ततः स विप्रस तां नागीं समाधाय पुनः पुनः तद एव पुलिनं नद्याः परययौ बराह्मणर्षभः ॥ 13 ॥

Reach this point to mark the section finished.

Continue to अध्याय 346

Previous: अध्याय 344