[अतिथि] उपदेशं तु ते विप्र करिष्ये ऽहं यथागमम पुरुणा मे यथाख्यातम अर्थतस तच च मे शृणु ॥ 1 ॥
यत्र पूर्वाभिसर्गेण धर्मचक्रं परवर्तितम नैमिषे गॊमतीतीरे तत्र नागाह्वयं पुरम ॥ 2 ॥
समग्रैस तरिदशैस तत्र इष्टम आसीद दविजर्षभ यत्रेन्द्रातिक्रमं चक्रे मान्धाता राजसत्तमः ॥ 3 ॥
कृताधिवासॊ धर्मात्मा तत्र चक्षुः शरवा महा पद्मनाभॊ महाभागः पद्म इत्य एव विश्रुतः ॥ 4 ॥
स वाचा कर्मणा चैव मनसा च दविजर्षभ परसादयति भूतानि तरिविधे वर्त्मनि सथितः ॥ 5 ॥
साम्ना दानेन भेदेन दन्देनेति चतुर्विधम विषमस्थं जनं सवं च चक्षुर धयानेन रक्षति ॥ 6 ॥
तम अभिक्रम्य विधिना परस्तुम अर्हसि कान्स्कितम स ते परमकं धर्मन मिथ्या दर्शयिष्यति ॥ 7 ॥
स हि सर्वातिथिर नागॊ बुद्धिशास्त्रविशारदः गुणैर अनवमैर युक्तः समस्तैर आभिकामिकैः ॥ 8 ॥
परकृत्या नित्यसलिलॊ नित्यम अध्ययने रतः तपॊ दमाभ्यां संयुक्तॊ वृत्तेनानवरेण च ॥ 9 ॥
यज्वा दानरुचिः कषान्तॊ वृत्ते च परमे सथितः सत्यवाग अनसूयुश च शीलवान अभिसंश्रितः ॥ 10 ॥
शेषान्न भॊक्ता वचनानुकूलॊ; हितार्जवॊत्कृष्ट कृताकृतज्ञः अवैरकृद भूतहिते नियुक्तॊ; गङ्गाह्रदाम्भॊ ऽभिजनॊपपन्नः ॥ 11 ॥
शान्तिपर्व · Shanti Parva
अध्याय 343
Reach this point to mark the section finished.
Continue to अध्याय 344