[बराह्मण] समुत्पन्नाभिधानॊ ऽसमि वाङ माधुर्येण ते ऽनघ मित्रताम अभिपन्नस तवां किं चिद वक्ष्यामि तच छृणु ॥ 1 ॥
गृहस्थ धर्मं विप्रेन्द्र कृत्वा पुत्रगतं तव अहम धर्मं परमकं कुर्यां कॊ हि मार्गॊ भवेद दविज ॥ 2 ॥
अहम आत्मानम आत्मस्थम एक एवात्मनि सथितः कर्तुं काङ्क्षामि नेच्छामि बद्धः साधारणैर गुणैः ॥ 3 ॥
यावद एवानतीतं मे वयः पुत्रफलाश्रितम तावद इच्छामि पाथेयम आदातुं पारलौकिकम ॥ 4 ॥
अस्मिन हि लॊकसंताने परं पारम अभीप्सतः उत्पन्ना मे मतिर अयं कुतॊ धर्ममयः पलवः ॥ 5 ॥
समुह्यमानानि निशम्य लॊके; निर्यात्यमानानि च सात्त्विकानि दृष्ट्वा च धर्मध्वजकेतुमालां; परकीर्यमानाम उपरि परजानाम ॥ 6 ॥
न मे मनॊ रज्यते भॊगकाले; दृष्ट्वा यतीन परार्थयतः परत्र तेनातिथे बुद्धिबलाश्रयेण; धर्मार्थतत्त्वे विनियुङ्क्ष्व मां तवम ॥ 7 ॥
[भीस्म] सॊ ऽतिथिर वचनं तस्य शरुत्वा धर्माभिलासिनः परॊवाच वचनं शलक्ष्णं पराज्ञॊ मधुरया गिरा ॥ 8 ॥
अहम अप्य अत्र मुह्यामि ममाप्य एष मनॊरथः न च संनिश्चयं यामि बहु दवारे तरिविष्टपे ॥ 9 ॥
के चिन मॊक्षं परशंसन्ति के चिद यज्ञफलं दविजाः वान परस्थाश्रमं के चिद गार्हस्थ्यं के चिद आश्रिताः ॥ 10 ॥
राजधर्माश्रयं के चित के चिद आत्मफलाश्रयम गुरु चर्याश्रयं के चित के चिद वाक्यं यम आश्रयम ॥ 11 ॥
मातरं पितरं के चिच छुश्रूसन्तॊ दिवं गताः अहिंसया परे सवर्गं सत्येन च तथा परे ॥ 12 ॥
आहवे ऽभिमुखाः के चिन निहताः सविद दिवं गताः के चिद उञ्छव्रतैः सिद्धाः सवर्गमार्गसमाश्रिताः ॥ 13 ॥
के चिद अध्ययने युक्ता वेद वरतपराः शुभाः बुद्धिमन्तॊ गताः सवर्गं तुष्टात्मानॊ जितेन्द्रियाः ॥ 14 ॥
आर्जवेनापरे युक्ता निहतानार्जवैर जनैः ऋजवॊ नाकपृष्ठे वै शुद्धात्मानः परतिष्ठिताः ॥ 15 ॥
एवं बहुविधैर लॊके धर्मद्वारैर अनावृतैः ममापि मतिर आविग्ना मेघलेखेव वायुना ॥ 16 ॥
शान्तिपर्व · Shanti Parva
अध्याय 342
Reach this point to mark the section finished.
Continue to अध्याय 343