[भीस्म] आसीत किल कुरुश्रेष्ठ महापद्मे पुरॊत्तमे गङ्गाया दक्षिणे तीरे कश चिद विप्रः समाहितः ॥ 1 ॥
सौम्यः सॊमान्वये वेदे गताध्वा छिन्नसंशयः धर्मनित्यॊ जितक्रॊधॊ नित्यतृप्तॊ जितेन्द्रियः ॥ 2 ॥
अहिंसा निरतॊ नित्यं सत्यः सज जनसंमतः नयायप्राप्तेन वित्तेन सवेन शीलेन चान्वितः ॥ 3 ॥
जञातिसंबन्धिवपुले मित्रापाश्रय संमते कुले महति विख्याते विशिष्टां वृत्तिम आस्थितः ॥ 4 ॥
सपुत्रान बहुलान दृष्ट्वा विपुले कर्मणि सथितः कुलधर्माश्रितॊ राजन धर्मचर्या परॊ ऽभवत ॥ 5 ॥
ततः स धर्मं वेदॊक्तं यथाशास्त्रॊक्तम एव च शिष्टाचीर्णं च धर्मं च तरिविधं चिन्त्य चेतसा ॥ 6 ॥
किं नु मे सयाच छुभं कृत्वा किं कषमं किं परायनम इत्य एवं खिद्यते नित्यं न च याति विनिश्चयम ॥ 7 ॥
तस्यैवं खिद्यमानस्य धर्मं परमम आस्थितः कदा चिद अतिथिः पराप्तॊ बराह्मणः सुसमाहितः ॥ 8 ॥
स तस्मै सत्क्रियां चक्रे करिया युक्तेन हेतुना विश्रान्तं चैनम आसीनम इदं वचनम अब्रवीत ॥ 9 ॥
शान्तिपर्व · Shanti Parva
अध्याय 341
Reach this point to mark the section finished.
Continue to अध्याय 342