धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 340

  1. [य] धर्माः पितामहेनॊक्ता मॊक्षधर्माश्रिताः शुभाः धर्मम आश्रमिणां शरेष्ठं वक्तुम अर्हति मे भवान ॥ 1 ॥

  2. [भीस्म] सर्वत्र विहितॊ धर्मः सवर्ग्यः सत्यफलॊदयः बहु दवारस्य धर्मस्य नेहास्ति विफला करिया ॥ 2 ॥

  3. यस्मिन यस्मिंस तु विषये यॊ यॊ याति विनिश्चयम स तम एवाभिजानाति नान्यं भरतसत्तम ॥ 3 ॥

  4. अपि च तवं नरव्याघ्र शरॊतुम अर्हसि मे कथाम पुरा शक्रस्य कथितां नारदेन सुरर्षिणा ॥ 4 ॥

  5. सुरर्षिर नारदॊ राजन सिद्धस तरैलॊक्यसंमतः पर्येति करमशॊ लॊकान वायुर अव्याहतॊ यथा ॥ 5 ॥

  6. स कदा चिन महेष्वास देवराजालयं गतः सत्कृतश च महेन्द्रेण परत्यासन्न गतॊ ऽभवत ॥ 6 ॥

  7. तं कृतक्षणम आसीनं पर्यपृच्छच छची पतिः बरह्मर्षे किं चिद आश्चर्यम अस्ति दृष्टं तवयानघ ॥ 7 ॥

  8. यथा तवम अपि विप्रर्षे तरैलॊक्यं सचराचरम जातकौतूहलॊ नित्यं सिद्धश चरसि साक्षिवत ॥ 8 ॥

  9. न हय अस्त्य अविदितं लॊके देवर्षे तव किं चन शरुतं वाप्य अनुभूतं वा दृष्टं वा कथयस्व मे ॥ 9 ॥

  10. तस्मै राजन सुरेन्द्राय नारदॊ वदतां वरः आसीनायॊपपन्नाय परॊक्तवान विपुलां कथाम ॥ 10 ॥

  11. यथा येन च कल्पेन स तस्मै दविजसत्तमः कथां कथितवान पृष्ठस तथा तवम अपि मे शृणु ॥ 11 ॥

Reach this point to mark the section finished.

Continue to अध्याय 341

Previous: अध्याय 339