[बरह्मा] शृणु पुत्र यथा हय एष पुरुषः शाश्वतॊ ऽवययः अक्षयश चाप्रमेयश च सर्वगश च निरुच्यते ॥ 1 ॥
न स शक्यस तवया दरष्टुं मयान्यैर वापि सत्तम सगुणॊ निर्गुणॊ विश्वॊ जञानदृश्यॊ हय असौ समृतः ॥ 2 ॥
अशरीरः शरीरेषु सर्वेषु निवसत्य असौ वसन्न अपि शरीरेषु न स लिप्यति कर्मभिः ॥ 3 ॥
ममान्तर आत्मा तव च ये चान्ये देहसंज्ञिताः सर्वेषां साक्षिभूतॊ ऽसौ न गराह्यः केन चित कव चित ॥ 4 ॥
विश्वमूर्धा विश्वभुजॊ विश्वपादाक्षि नासिकः एकश चरति कषेत्रेषु सवैरचारी यथासुखम ॥ 5 ॥
कषेत्राणि हि शरीराणि बीजानि च शुभाशुभे तानि वेत्ति स यॊगात्मा ततः कषेत्रज्ञ उच्यते ॥ 6 ॥
नागतिर न गतिस तस्य जञेया भूतेन केन चित सांख्येन विधिना चैव यॊगेन च यथाक्रमम ॥ 7 ॥
चिन्तयामि गतिं चास्य न गतिं वेद्मि चॊत्तमाम यथा जञानं तु वक्ष्यामि पुरुषं तं सनातनम ॥ 8 ॥
तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः समृतः महापुरुष शब्दं स बिभर्त्य एकः सनातनः ॥ 9 ॥
एकॊ हुताशॊ बहुधा समिध्यते; एकः सूर्यस तपसां यॊनिर एका एकॊ वायुर बहुधा वाति लॊके; महॊदधिश चाम्भसां यॊनिर एकः पुरुषश चैकॊ निर्गुणॊ विश्वरूपस; तं निर्गुणं पुरुषं चाविशन्ति ॥ 10 ॥
हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम उभे सत्यानृते तयक्त्वा एवं भवति निर्गुणः ॥ 11 ॥
अचिन्त्यं चापि तं जञात्वा भावसूक्ष्मं चतुष्टयम विचरेद यॊ यतिर यत्तः स गच्छेत पुरुषं परभुम ॥ 12 ॥
एवं हि परमात्मानं के चिद इच्छन्ति पण्डिताः एकात्मानं तथात्मानम अपरे ऽधयात्मचिन्तकाः ॥ 13 ॥
तत्र यः परमात्मा हि स नित्यं निर्गुणः समृतः स हि नारायणॊ जञेयः सर्वात्मा पुरुषॊ हि सः न लिप्यते फलैश चापि पद्मपत्रम इवाम्भसा ॥ 14 ॥
कर्मात्मा तव अपरॊ यॊ ऽसौ मॊक्षबन्धैः स युज्यते ससप्तदशकेनापि राशिना युज्यते हि सः एवं बहुविधः परॊक्तः पुरुषस ते यथाक्रमम ॥ 15 ॥
यत तत कृत्स्नं लॊकतन्त्रस्य धाम; वेद्यं परं बॊधनीयं सबॊधृ मन्ता मन्तव्यं पराशिता पराशितव्यं; घराता घरेयं सपर्शिता सपर्शनीयम ॥ 16 ॥
दरष्टा दरष्टव्यं शराविता शरावणीयं; जञाता जञेयं सगुणं निर्गुणं च यद वै परॊक्तं गुणसाम्यं परधानं; नित्यं चैतच छाश्वतं चाव्ययं च ॥ 17 ॥
यद वै सूते धातुर आद्यं निधानं; तद वै विप्राः परवदन्ते ऽनिरुद्धम यद वै लॊके वैदिकं कर्म साधु; आशीर युक्तं तद धि तस्यॊपभॊज्यम ॥ 18 ॥
देवाः सर्वे मुनयः साधु दान्तास; तं पराग यज्ञैर यज्ञभागं यजन्ते अहं बरह्मा आद्य ईशः परजानां; तस्माज जातस तवं च मत्तः परसूतः मत्तॊ जगज जङ्गमं सथावरं च; सर्वे वेदाः सरहस्या हि पुत्र ॥ 19 ॥
चतुर्विभक्तः पुरुषः स करीदति यथेच्छति एवं स एव भगवाञ जञानेन परतिबॊधितः ॥ 20 ॥
एतत ते कथितं पुत्र यथावद अनुपृच्छतः सांख्यज्ञाने तथा यॊगे यथावद अनुवर्णितम ॥ 21 ॥
शान्तिपर्व · Shanti Parva
अध्याय 339
Reach this point to mark the section finished.
Continue to अध्याय 340