[जनमेजय] बहवः पुरुषा बरह्मन्न उताहॊ एक एव तु कॊ हय अत्र पुरुषः शरेष्ठः कॊ वा यॊनिर इहॊच्यते ॥ 1 ॥
[वैषम्पायन] बहवः पुरुषा लॊके सांख्ययॊगविचारिणाम नैतद इच्छन्ति पुरुषम एकं कुरुकुलॊद्वह ॥ 2 ॥
बहूनां पुरुषाणां च यथैका यॊनिर उच्यते तथा तं पुरुषं विश्वं वयाख्यास्यामि गुणाधिकम ॥ 3 ॥
नमस्कृत्वा तु गुरवे वयासायामित तेजसे तपॊ युक्ताय दान्ताय वन्द्याय परमर्षये ॥ 4 ॥
इदं पुरुषसूक्तं हि सर्ववेदेषु पार्थिव ऋतं सत्यं च विख्यातम ऋषिसिंहेन चिन्तितम ॥ 5 ॥
उत्सर्गेणापवादेन ऋषिभिः कपिलादिभिः अध्यात्मचिन्ताम आश्रित्य शास्त्राण्य उक्तानि भारत ॥ 6 ॥
समासतस तु यद वयासः पुरुषैकत्वम उक्तवान तत ते ऽहं संप्रवक्ष्यामि परसादाद अमितौजसः ॥ 7 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बरह्मणा सह संवादं तर्यम्बकस्य विशां पते ॥ 8 ॥
कषीरॊदस्य समुद्रस्य मध्ये हातक सप्रभः वैजयन्त इति खयातः पर्वत परवरॊ नृप ॥ 9 ॥
तत्राध्यात्म गतिं देव एकाकी परविचिन्तयन वैराज सदने नित्यं वैजयन्तं निषेवते ॥ 10 ॥
अथ तत्रासतस तस्य चतुर्वक्त्रस्य धीमतः ललात परभवः पुत्रः शिव आगाद यदृच्छया आकाशेनैव यॊगीशः पुरा तरिनयनः परभुः ॥ 11 ॥
ततः खान निपपाताशु धरणीधरमूर्धनि अग्रतश चाभवत परीतॊ ववन्दे चापि पादयॊः ॥ 12 ॥
तं पादयॊर निपतितं दृष्ट्वा सव्येन पानिना उत्थापयाम आस तदा परभुर एकः परजापतिः ॥ 13 ॥
उवाच चैनं भगवांश चिरस्यागतम आत्मजम सवागतं ते महाबाहॊ दिष्ट्या पराप्तॊ ऽसि मे ऽनतिकम ॥ 14 ॥
कच चित ते कुशलं पुत्र सवाध्यायतपसॊः सदा नित्यम उग्रतपास तवं हि ततः पृच्छामि ते पुनः ॥ 15 ॥
[रुद्र] तवत्प्रसादेन भगवन सवाध्यायतपसॊर मम कुशलं चाव्ययं चैव सर्वस्य जगतस तथा ॥ 16 ॥
चिरदृष्टॊ हि भगवान वैराज सदने मया ततॊ ऽहं पर्वतं पराप्तस तव इमं तवत पादसेवितम ॥ 17 ॥
कौतूहलं चापि हि मे एकान्तगमनेन ते नैतत कारणम अल्पं हि भविष्यति पितामह ॥ 18 ॥
किं नु तत सदनं शरेष्ठं कषुत्पिपासा विवर्जितम सुरासुरैर अध्युषितम ऋषिभिश चामितप्रभैः ॥ 19 ॥
गन्धर्वैर अप्सरॊभिश च सततं संनिषेवितम उत्सृज्येमं गिरिवरम एकाकी पराप्तवान असि ॥ 20 ॥
[बरह्म] वैजयन्तॊ गिरिवरः सततं सेव्यते मया अत्रैकाग्रेण मनसा पुरुषश चिन्त्यते विरात ॥ 21 ॥
[रुद्र] बहवः पुरुषा बरह्मंस तवया सृष्टाः सवयम्भुवा सृज्यन्ते चापरे बरह्मन स चैकः पुरुषॊ विरात ॥ 22 ॥
कॊ हय असौ चिन्त्यते बरह्मंस तवया वै पुरुषॊत्तमः एतन मे संशयं बरूहि महत कौतूहलं हि मे ॥ 23 ॥
[बरह्मा] बहवः पुरुषाः पुत्र ये तवया समुदाहृताः एवम एतद अतिक्रान्तं दरष्टव्यं नैतम इत्य अपि आधारं तु परवक्ष्यामि एकस्य पुरुषस्य ते ॥ 24 ॥
बहूनां पुरुषाणां स यथैका यॊनिर उच्यते तथा तं पुरुषं विश्वं परमं सुमहत्तमम निर्गुणं निर्गुणा भूत्वा परविशन्ति सनातनम ॥ 25 ॥
शान्तिपर्व · Shanti Parva
अध्याय 338
Reach this point to mark the section finished.
Continue to अध्याय 339