धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 337

  1. [जनमेजय] सांख्यं यॊगं पञ्चरात्रं वेदारण्यकम एव च जञानान्य एतानि बरह्मर्षे लॊकेषु परचरन्ति ह ॥ 1 ॥

  2. किम एतान्य एकनिष्ठानि पृथङ निष्ठानि वा मुने परब्रूहि वै मया पृष्टः परवृत्तिं च यथाक्रमम ॥ 2 ॥

  3. [वैषम्पायन] जज्ञे बहुज्ञं परम अत्य उदारं; यं दवीपमध्ये सुतम आत्मवन्तम पराशराद गन्धवती महर्षिं; तस्मै नमॊ ऽजञानतमॊ नुदाय ॥ 3 ॥

  4. पितामहाद यं परवदन्ति षष्ठं; महर्षिम आर्षेय विभूति युक्तम नारायणस्यांशजम एकपुत्रं; दवैपायनं वेद महानिधानम ॥ 4 ॥

  5. तम आदि कालेषु महाविभूतिर; नारायणॊ बरह्म महानिधानम ससर्ज पुत्रार्थम उदारतेजा; वयासं महात्मानम अजः पुराणः ॥ 5 ॥

  6. [जनमेजय] तवयैव कथितः पूर्वं संभवॊ दविजसत्तम वसिथस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ॥ 6 ॥

  7. पराशरस्य दायादः कृष्णद्वैपायनॊ मुनिः भूयॊ नारायण सुतं तवम एवैनं परभाससे ॥ 7 ॥

  8. किम अतः पूर्वजं जन्म वयासस्यामित तेजसः कथयस्वॊत्तम मते जन्म नारायणॊद्भवम ॥ 8 ॥

  9. [वैषम्पायन] वेदार्थान वेत्तुकामस्य धर्मिष्ठस्य तपॊ निधेः गुरॊर मे जञाननिष्ठस्य हिमवत्पाद आसतः ॥ 9 ॥

  10. कृत्वा भारतम आख्यानं तपः शरान्तस्य धीमतः शुश्रूसां तत्परा राजन कृतवन्तॊ वयं तदा ॥ 10 ॥

  11. सुमन्तुर जैमिनिश चैव पैलश च सुदृध वरतः अहं चतुर्थः शिष्यॊ वै शुकॊ वयासात्मजस तथा ॥ 11 ॥

  12. एभिः परिवृतॊ वयासः शिष्यैः पञ्चभिर उत्तमैः शुशुभे हिमवत्पादे भूतैर भूतपतिर यथा ॥ 12 ॥

  13. वेदान आवर्तयन साङ्गान भारतार्थांश च सर्वशः तम एकमनसं दान्तं युक्ता वयम उपास्महे ॥ 13 ॥

  14. कथान्तरे ऽथ कस्मिंश चित पृष्टॊ ऽसमाभिर दविजॊत्तमः वेदार्थान भारतार्थांश च जन्म नारायणात तथा ॥ 14 ॥

  15. स पूर्वम उक्त्वा वेदार्थान भारतार्थांश च तत्त्ववित नारायणाद इदं जन्म वयाहर्तुम उपचक्रमे ॥ 15 ॥

  16. शृणुध्वम आख्यान वरम एतद आर्षेयम उत्तमम आदि कालॊद्भवं विप्रास तपसाधिगतं मया ॥ 16 ॥

  17. पराप्ते परजा विसर्गे वै सप्तमे पद्मसंभवे नारायणॊ महायॊगी शुभाशुभविवर्जितः ॥ 17 ॥

  18. ससृजे नाभितः पुत्रं बरह्माणम अमितप्रभम ततः स परादुरभवद अथैनं वाक्यम अब्रवीत ॥ 18 ॥

  19. मम तवं नाभितॊ जातः परजा सर्ग करः परभुः सृज परजास तवं विविधा बरह्मन सजद पण्डिताः ॥ 19 ॥

  20. स एव म उक्तॊ विमुखश चिन्ता वयाकुलमानसः परनम्य वरदं देवम उवाच हरिम ईश्वरम ॥ 20 ॥

  21. का शक्तिर मम देवेश परजाः सरष्टुं नमॊ ऽसतु ते अप्रज्ञावान अहं देव विधत्स्व यद अनन्तरम ॥ 21 ॥

  22. स एव म उक्तॊ भगवान भूत्वाथान्तर हितस ततः चिन्तयाम आस देवेशॊ बुद्धिं बुद्धिमतां वरः ॥ 22 ॥

  23. सवरूपिणी ततॊ बुद्धिर उपतस्थे हरिं परभुम यॊगेन चैनां निर्यॊगः सवयं नियुयुजे तदा ॥ 23 ॥

  24. स ताम ऐश्वर्ययॊगस्थां बुद्धिं शक्तिमतीं सतीम उवाच वचनं देवॊ बुद्धिं वै परभुर अव्ययः ॥ 24 ॥

  25. बरह्माणं परविशस्वेति लॊकसृष्ट्य अर्थसिद्धये ततस तम ईश्वरादिष्टा बुद्धिः कषिप्रं विवेश सा ॥ 25 ॥

  26. अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः भूयश चैनं वचः पराह सृजेमा विविधाः परजाः ॥ 26 ॥

  27. एवम उक्त्वा स भगवांस तत्रैवान्तरधीयत पराप चैव मुहुर तेन सवस्थानं देव संज्ञितम ॥ 27 ॥

  28. तां चैव परकृतिं पराप्य एकीभावगतॊ ऽभवत अथास्य बुद्धिर अभवत पुनर अन्या तदा किल ॥ 28 ॥

  29. सृष्टा इमाः परजाः सर्वा बरह्मणा परमेष्ठिना दैत्यदानवगन्धर्वरक्षॊगणसमाकुलाः जाता हीयं वसुमती भाराक्रान्ता तपस्विनी ॥ 29 ॥

  30. बहवॊ बलिनः पृथ्व्यां दैत्यदानवराक्षसाः भविष्यन्ति तपॊ युक्ता वरान पराप्स्यन्ति चॊत्तमान ॥ 30 ॥

  31. अवश्यम एव तैः सर्वैर वरदानेन दर्पितैः बाधितव्याः सुरगणा ऋषयश च तपॊधनाः तत्र नयाय्यम इदं कर्तुं भारावतरणं मया ॥ 31 ॥

  32. अथ नाना समुद्भूतैर वसुधायां यथाक्रमम निग्रहेण च पापानां साधूनां परग्रहेण च ॥ 32 ॥

  33. इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम मया हय एषा हि धरियते पातालस्थेन भॊगिना ॥ 33 ॥

  34. मया धृता धारयति जगद धि सचराचरम तस्मात पृथ्व्याः परित्राणं करिष्ये संभवं गतः ॥ 34 ॥

  35. एवं स चिन्तयित्वा तु भगवान मधुसूदनः रूपाण्य अनेकान्य असृजत परादुर्भावभवाय सः ॥ 35 ॥

  36. वाराहं नारसिंहं च वामनं मानुषं तथा एभिर मया निहन्तव्या दुर्विनीताः सुरारयः ॥ 36 ॥

  37. अथ भूयॊ जगत सरष्टा भॊः शब्देनानुनादयन सरस्वतीम उच्चचार तत्र सारस्वतॊ ऽभवत ॥ 37 ॥

  38. अपान्तरतमा नाम सुतॊ वाक संभवॊ विभॊः भूतभव्य भविष्यज्ञः सत्यवादी दृध वरतः ॥ 38 ॥

  39. तम उवाच नतं मूर्ध्ना देवानाम आदिर अव्ययः वेदाख्याने शरुतिः कार्या तवया मतिमतां वर तस्मात कुरु यथाज्ञप्तं मयैतद वचनं मुने ॥ 39 ॥

  40. तेन भिन्नास तदा वेदा मनॊः सवायम्भुवे ऽनतरे ततस तुतॊष भगवान हरिस तेनास्य कर्मणा तपसा च सुतप्तेन यमेन नियमेन च ॥ 40 ॥

  41. [षरीभगवान] मन्वन्तरेषु पुत्र तवम एवं लॊकप्रवर्तकः भविष्यस्य अचलॊ बरह्मन्न अप्रधृष्यश च नित्यशः ॥ 41 ॥

  42. पुनस तिष्ये च संप्राप्ते कुरवॊ नाम भारताः भविष्यन्ति महात्मानॊ राजानः परथिता भुवि ॥ 42 ॥

  43. तेषां तवत्तः परसूतानां कुलभेदॊ भविष्यति परस्परविनाशार्थं तवाम ऋते दविजसत्तम ॥ 43 ॥

  44. तत्राप्य अनेकधा वेदान भेत्स्यसे तपसान्वितः कृष्णे युगे च संप्राप्ते कृष्ण वर्णॊ भविष्यसि ॥ 44 ॥

  45. धर्माणां विविधानां च कर्ता जञानकरस तथा भविष्यसि तपॊ युक्तॊ न च रागाद विमॊक्ष्यसे ॥ 45 ॥

  46. वीतरागश च पुत्रस ते परमात्मा भविष्यति महेश्वर परसादेन नैतद वचनम अन्यथा ॥ 46 ॥

  47. यं मानसं वै परवदन्ति पुत्रं; पितामहस्यॊत्तम बुद्धियुक्तम वसिथम अग्र्यं तपसॊ निधानं; यश चापि सूर्यं वयतिरिच्य भाति ॥ 47 ॥

  48. तस्यान्वये चापि ततॊ महर्षिः; पराशरॊ नाम महाप्रभावः पिता स ते वेद निधिर वरिष्ठॊ; महातपा वै तपसॊ निवासः कानीन गर्भः पितृकन्यकायां; तस्माद ऋषेस तवं भविता च पुत्रः ॥ 48 ॥

  49. भूतभव्य भविष्याणां छिन्नसर्वार्थ संशयः ये हय अतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः ॥ 49 ॥

  50. तांश च सर्वान मयॊद्दिष्टान दरक्ष्यसे तपसान्वितः पुनर दरक्ष्यसि चानेक सहस्रयुगपर्ययान ॥ 50 ॥

  51. अनादि निधनं लॊके चक्रहस्तं च मां मुने अनुध्यानान मम मुने नैतद वचनम अन्यथा ॥ 51 ॥

  52. शनैश्चरः सूर्यपुत्रॊ भविष्यति मनुर महान तस्मिन मन्वन्तरे चैव सप्तर्षिगणपूर्वकः तवम एव भविता वत्स मत्प्रसादान न संशयः ॥ 52 ॥

  53. [वयास] एवं सारस्वतम ऋषिम अपान्तरतमं तदा उक्त्वा वचनम ईशानः साधयस्वेत्य अथाब्रवीत ॥ 53 ॥

  54. सॊ ऽहं तस्य परसादेन देवस्य हरि मेधसः अपान्तरतमा नाम ततॊ जातॊ ऽऽजञया हरेः पुनश च जातॊ विख्यातॊ वसिष्ठ कुलनन्दनः ॥ 54 ॥

  55. तद एतत कथितं जन्म मया पूर्वकम आत्मनः नारायण परसादेन तथा नारायणांशजम ॥ 55 ॥

  56. मया हि सुमहत तप्तं तपः परमदारुणम पुरा मतिमतां शरेष्ठाः परमेण समाधिना ॥ 56 ॥

  57. एतद वः कथितं सर्वं यन मां पृच्छथ पुत्रकाः पूर्वजन्म भविष्यं च भक्तानां सनेहतॊ मया ॥ 57 ॥

  58. [वैषम्पायन] एष ते कथितः पूर्वं संभवॊ ऽसमद गुरॊर नृप वयासस्याक्लिष्ट मनसॊ यथा पृष्टः पुनः शृणु ॥ 58 ॥

  59. सांख्यं यॊगं पञ्चरात्रं वेदाः पाशुपतं तथा जञानान्य एतानि राजर्षे विद्धि नाना मतानि वै ॥ 59 ॥

  60. सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते हिरण्यगर्भॊ यॊगस्य वेत्ता नान्यः पुरातनः ॥ 60 ॥

  61. अपान्तरतमाश चैव वेदाचार्यः स उच्यते पराचीन गर्भं तम ऋषिं परवदन्तीह के चन ॥ 61 ॥

  62. उमापतिर भूतपतिः शरीकन्थॊ बरह्मणः सुतः उक्तवान इदम अव्यग्रॊ जञानं पाशुपतं शिवः ॥ 62 ॥

  63. पञ्चरात्रस्य कृत्स्नस्य वेत्ता तु भगवान सवयम सर्वेषु च नृपश्रेष्ठ जञानेष्व एतेषु दृश्यते ॥ 63 ॥

  64. यथागमं यथा जञानं निष्ठा नारायणः परभुः न चैनम एवं जानन्ति तमॊ भूता विशां पते ॥ 64 ॥

  65. तम एव शास्त्रकर्तारं परवदन्ति मनीषिणः निष्ठां नारायणम ऋषिं नान्यॊ ऽसतीति च वादिनः ॥ 65 ॥

  66. निःसंशयेषु सर्वेषु नित्यं वसति वै हरिः ससंशयान हेतुबलान नाध्यावसति माधवः ॥ 66 ॥

  67. पञ्चरात्रविदॊ ये तु यथाक्रमपरा नृप एकान्तभावॊपगतास ते हरिं परविशन्ति वै ॥ 67 ॥

  68. सांख्यं च यॊगं च सनातने दवे; वेदाश च सर्वे निखिलेन राजन सर्वैः समस्तैर ऋषिभिर निरुक्तॊ; नारायणॊ विश्वम इदं पुराणम ॥ 68 ॥

  69. शुभाशुभं कर्म समीरितं यत; परवर्तते सर्वलॊकेषु किं चित तस्माद ऋषेस तद भवतीति विद्याद; दिव्य अन्तरिक्षे भुवि चाप्सु चापि ॥ 69 ॥

Reach this point to mark the section finished.

Continue to अध्याय 338

Previous: अध्याय 336