धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 336

  1. अहॊ हय एकान्तिनः सर्वान परीणाति भगवान हरिः विधिप्रयुक्तां पूजां च गृह्णाति भगवान सवयम ॥ 1 ॥

  2. ये तु दग्धेन्धना लॊके पुण्यपापविवर्जिताः तेषां तवयाभिनिर्दिष्टा पारम्पर्यागता गतिः ॥ 2 ॥

  3. चतुर्थ्यां चैव ते गत्यां गच्छन्ति पुरुषॊत्तमम एकान्तिनस तु पुरुषा गच्छन्ति परमं पदम ॥ 3 ॥

  4. नूनम एकान्तधर्मॊ ऽयं शरेष्ठॊ नारायण परियः अगत्वा गतयस तिस्रॊ यद गच्छन्त्य अव्ययं हरिम ॥ 4 ॥

  5. सहॊपनिषदान वेदान ये विप्राः सम्यग आस्थिताः पथन्ति विधिम आस्थाय ये चापि यति धर्मिणः ॥ 5 ॥

  6. तेभ्यॊ विशिष्टां जानामि गतिम एकान्तिनां नृणाम केनैष धर्मः कथितॊ देवेन ऋषिणापि वा ॥ 6 ॥

  7. एकान्तिनां च का चर्या कदा चॊत्पादिता विभॊ एतन मे संशयं छिन्धि परं कौतूहलं हि मे ॥ 7 ॥

  8. [वैषम्पायन] समुपॊधेष्व अनीकेषु कुरु पाण्डवयॊर मृधे अर्जुने विमनस्के च गीता भगवता सवयम ॥ 8 ॥

  9. आगतिश च गतिश चैव पूर्वं ते कथिता मया गहनॊ हय एष धर्मॊ वै दुर्विज्ञेयॊ ऽकृतात्मभिः ॥ 9 ॥

  10. संमितः सामवेदेन पुरैवादि युगे कृतः धार्यते सवयम ईशेन राजन नारायणेन ह ॥ 10 ॥

  11. एतम अर्थं महाराज पृष्ठः पार्थेन नारदः ऋषिमध्ये महाभागः शृण्वतॊः कृष्ण भीस्मयॊः ॥ 11 ॥

  12. गुरुणा च ममाप्य एष कथितॊ नृपसत्तम यथा तु कथितस तत्र नारदेन तथा शृणु ॥ 12 ॥

  13. यदासीन मानसं जन्म नारायण मुखॊद्गतम बरह्मणः पृथिवीपाल तदा नारायणः सवयम तेन धर्मेण कृतवान दैवं पित्र्यं च भारत ॥ 13 ॥

  14. फेनपा ऋषयश चैव तं धर्मं परतिपेदिरे वैखानसाः फेनपेभ्यॊ धर्मम एतं परपेदिरे वैखानसेभ्यः सॊमस तु ततः सॊ ऽनतर्दधे पुनः ॥ 14 ॥

  15. यदासीच चाक्षुषं जन्म दवितीयं बरह्मणॊ नृप तदा पितामहात सॊमाद एतं धर्मम अजानत नारायणात्मकं राजन रुद्राय परददौ च सः ॥ 15 ॥

  16. ततॊ यॊगस्थितॊ रुद्रः पुरा कृतयुगे नृप वालखिल्यान ऋषीन सर्वान धर्मम एतम अपाथयत अन्तर्दधे ततॊ भूयस तस्य देवस्य मायया ॥ 16 ॥

  17. तृतीयं बरह्मणॊ जन्म यदासीद वाचिकं महत तत्रैष धर्मः संभूतः सवयं नारायणान नृप ॥ 17 ॥

  18. सुपर्णॊ नाम तम ऋषिः पराप्तवान पुरुषॊत्तमात तपसा वै सुतप्तेन दमेन नियमेन च ॥ 18 ॥

  19. तरिः परिक्रान्तवान एतत सुपर्णॊ धर्मम उत्तमम यस्मात तस्माद वरतं हय एतत तरिसौपर्णम इहॊच्यते ॥ 19 ॥

  20. ऋग्वेदपाठपठितं वरतम एतद धि दुश्चरम सुपर्णाच चाप्य अधिगतॊ धर्म एष सनातनः ॥ 20 ॥

  21. वायुना दविपदां शरेष्ठ परथितॊ जगद आयुषा वायॊः सकाशात पराप्तश च ऋषिभिर विघसाशिभिः ॥ 21 ॥

  22. तेभ्यॊ महॊदधिश चैनं पराप्तवान धर्मम उत्तमम ततः सॊ ऽनतर्दधे भूयॊ नारायण समाहितः ॥ 22 ॥

  23. यदा भूयः शरवणजा सृष्टिर आसीन महात्मनः बरह्मणः पुरुषव्याघ्र तत्र कीर्तयतः शृणु ॥ 23 ॥

  24. जगत सरष्टुमना देवॊ हरिर नारायणः सवयम चिन्तयाम आस पुरुषं जगत सर्ग करं परभुः ॥ 24 ॥

  25. अथ चिन्तयतस तस्य कर्णाभ्यां पुरुषः सृतः परजा सर्ग करॊ बरह्मा तम उवाच जगत्पतिः ॥ 25 ॥

  26. सृज परजाः पुत्र सर्वा मुखतः पादतस तथा शरेयस तव विधास्यामि बलं तेजश च सुव्रत ॥ 26 ॥

  27. धर्मं च मत्तगृह्णीश्व सात्वतं नाम नामतः तेन सर्वं कृतयुगं सथापयस्व यथाविधि ॥ 27 ॥

  28. ततॊ बरह्मा नमश चक्रे देवाय हरि मेधसे धर्मं चाग्र्यं स जग्राह सरहस्यं ससंग्रहम आरण्यकेन सहितं नारायण मुखॊद्गतम ॥ 28 ॥

  29. उपदिश्य ततॊ धर्मं बरह्मणे ऽमिततेजसे तं कार्तयुगधर्माणं निराशीः कर्मसंज्ञितम जगाम तमसः पारं यत्राव्यक्तं वयवस्थितम ॥ 29 ॥

  30. ततॊ ऽथ वरदॊ देवॊ बरह्मलॊकपितामहः असृजत स तदा लॊकान कृष्ट्नान सथावरजङ्गमान ॥ 30 ॥

  31. ततः परावर्तत तदा आदौ कृतयुगं शुभम ततॊ हि सात्वतॊ धर्मव्याप्य लॊकान अवस्थितः ॥ 31 ॥

  32. तेनैवाद्येन धर्मेण बरह्मा लॊकविसर्ग कृत पूजयाम आस देवेशं हरिं नारायणं परभुम ॥ 32 ॥

  33. धर्मप्रतिष्ठा हेतॊश च मनुं सवारॊचिषं ततः अध्यापयाम आस तदा लॊकानां हितकाम्यया ॥ 33 ॥

  34. ततः सवारॊचिषः पुत्रं सवयं शङ्खपदं नृप अध्यापयत पुराव्यग्रः सर्वलॊकपतिर विभुः ॥ 34 ॥

  35. ततः शङ्खपदश चापि पुत्रम आत्मजम औरसम दिशापालं सुधर्माणम अध्यापयत भारत ततः सॊ ऽनतर्दधे भूयः पराप्ते तरेतायुगे पुनः ॥ 35 ॥

  36. नासिक्य जन्मनि पुरा बरह्मणः पार्थिवॊत्तमम धर्मम एतं सवयं देवॊ हरिर नारायणः परभुः उज्जगारारविन्दाक्षॊ बरह्मणः पश्यतस तदा ॥ 36 ॥

  37. सनत्कुमारॊ भगवांस ततः पराधीतवान नृप सनत्कुमाराद अपि च वीरणॊ वै परजापतिः कृतादौ कुरुशार्दूल धर्मम एतम अधीतवान ॥ 37 ॥

  38. वीरणश चाप्य अधीत्यैनं रौच्याय मनवे ददौ रौच्यः पुत्राय शुद्धाय सुव्रताय सुमेधसे ॥ 38 ॥

  39. कुक्षि नाम्ने ऽथ परददौ दिशां पालाय धर्मिणे ततः सॊ ऽनतर्दधे भूयॊ नारायण मुखॊद्गतः ॥ 39 ॥

  40. अन्दजे जन्मनि पुनर बरह्मणे हरि यॊनये एष धर्मः समुद्भूतॊ नारायण मुखात पुनः ॥ 40 ॥

  41. गृहीतॊ बरह्मणा राजन परयुक्तश च यथाविधि अध्यापिताश च मुनयॊ नाम्ना बर्हिषदॊ नृप ॥ 41 ॥

  42. बर्हिषद्भ्यश च संक्रान्तः सामवेदान्तगं दविजम जयेष्ठं नाम्नाभिविख्यातं जयेष्ठ साम वरतॊ हरिः ॥ 42 ॥

  43. जयेष्ठाच चाप्य अनुसंक्रान्तॊ राजानम अविकम्पनम अन्तर्दधे ततॊ राजन एष धर्मः परभॊर हरेः ॥ 43 ॥

  44. यद इदं सप्तमं जन्म पद्मजं बरह्मणॊ नृप तत्रैष धर्मः कथितः सवयं नारायणेन हि ॥ 44 ॥

  45. पितामहाय शुद्धाय युगादौ लॊकधारिणे पितामहश च दक्षाय धर्मम एतं पुरा ददौ ॥ 45 ॥

  46. ततॊ जयेष्ठे तु दौहित्रे परादाद दक्षॊ नृपॊत्तम आदित्ये सवितुर जयेष्ठे विवस्वाञ जगृहे ततः ॥ 46 ॥

  47. तरेतायुगादौ च पुनर विवस्वान मनवे ददौ मनुश च लॊकभूत्य अर्थं सुतायेक्ष्वाकवे ददौ ॥ 47 ॥

  48. इक्ष्वाकुणा च कथितॊ वयाप्य लॊकान अवस्थितः गमिष्यति कषयान्ते च पुनर नारायणं नृप ॥ 48 ॥

  49. वरतिनां चापि यॊ धर्मः स ते पूर्वं नृपॊत्तम कथितॊ हरि गीतासु समासविधि कल्पितः ॥ 49 ॥

  50. नारदेन तु संप्राप्तः सरहस्यः ससंग्रहः एष धर्मॊ जगन्नाथात साक्षान नारायणान नृप ॥ 50 ॥

  51. एवम एष महान धर्म आद्यॊ राजन सनातनः दुर्विज्ञेयॊ दुष्करश च सात्वतैर धार्यते सदा ॥ 51 ॥

  52. धर्मज्ञानेन चैतेन सुप्रयुक्तेन कर्मणा अहिंसा धर्मयुक्तेन परीयते हरिर ईश्वरः ॥ 52 ॥

  53. एकव्यूह विभागॊ वा कव चिद दविव्यूह संज्ञितः तरिव्यूहश चापि संख्यातश चतुर्व्यूहश च दृश्यते ॥ 53 ॥

  54. हरिर एव हि कषेत्रज्ञॊ निर्ममॊ निष्कलस तथा जीवश च सर्वभूतेषु पञ्च भूतगुणातिगः ॥ 54 ॥

  55. मनश च परथितं राजन पञ्चेन्द्रिय समीरणम एष लॊकनिधिर धीमान एष लॊकविसर्ग कृत ॥ 55 ॥

  56. अकर्ता चैव कर्ता च कार्यं कारणम एव च यथेच्छति तथा राजन करीदते पुरुषॊ ऽवययः ॥ 56 ॥

  57. एष एकान्ति धर्मस ते कीर्तितॊ नृपसत्तम मया गुरु परसादेन दुर्विज्ञेयॊ ऽकृतात्मभिः एकान्तिनॊ हि पुरुषा दुर्लभा बहवॊ नृप ॥ 57 ॥

  58. यद्य एकान्तिभिर आकीर्णं जगत सयात कुरुनन्दन अहिंसकैर आत्मविद्भिः सर्वभूतहिते रतैः भवेत कृतयुगप्राप्तिर आशीः कर्म विवर्जितैः ॥ 58 ॥

  59. एवं स भगवान वयासॊ गुरुर मम विशां पते कथयाम आस धर्मज्ञॊ धर्मराज्ञे दविजॊत्तमः ॥ 59 ॥

  60. ऋषीणां संनिधौ राजञ शृण्वतॊः कृष्ण भीस्मयॊः तस्याप्य अकथयत पूर्वं नारदः सुमहातपः ॥ 60 ॥

  61. देवं परमकं बरह्म शवेतं चन्द्राभम अच्युतम यत्र चैकान्तिनॊ यान्ति नारायण परायनाः ॥ 61 ॥

  62. [जनमेजय] एवं बहुविधं धर्मं परतिबुद्धैर निषेवितम न कुर्वन्ति कथं विप्रा अन्ये नाना वरते सथिताः ॥ 62 ॥

  63. [वैषम्पायन] तिस्रः परकृतयॊ राजन देहबन्धेषु निर्मिताः सात्त्विकी राजसी चैव तामसी चेति भारत ॥ 63 ॥

  64. देहबन्धेषु पुरुषः शरेष्ठः कुरुकुलॊद्वह सात्त्विकः पुरुषव्याघ्र भवेन मॊक्षार्थ निश्चितः ॥ 64 ॥

  65. अत्रापि स विजानाति पुरुषं बरह्म वर्तिनम नारायण परॊ मॊक्षस ततॊ वै सात्त्विकः समृतः ॥ 65 ॥

  66. मनीसितं च पराप्नॊति चिन्तयन पुरुषॊत्तमम एकान्तभक्तिः सततं नारायण परायनः ॥ 66 ॥

  67. मनीसिनॊ हि ये के चिद यतयॊ मॊक्षकाङ्क्षिणः तेषां वै छिन्नतृष्णानां यॊगक्षेम वहॊ हरिः ॥ 67 ॥

  68. जायमानं हि पुरुषं यं पश्येन मधुसूदनः सात्त्विकस तु स विज्ञेयॊ भवेन मॊक्षे च निश्चितः ॥ 68 ॥

  69. सांख्ययॊगेन तुल्यॊ हि धर्म एकान्तसेवितः नारायणात्मके मॊक्षे ततॊ यान्ति परां गतिम ॥ 69 ॥

  70. नारायणेन दृष्टश च परतिबुद्धॊ भवेत पुमान एवम आत्मेच्छया राजन परतिबुद्धॊ न जायते ॥ 70 ॥

  71. राजसी तामसी चैव वयामिश्रे परकृतीस्मृते तद आत्मकं हि पुरुषं जायमानं विशां पते परवृत्ति लक्षणैर युक्तं नावेक्षति हरिः सवयम ॥ 71 ॥

  72. पश्यत्य एनं जायमानं बरह्मा लॊकपितामहः रजसा तमसा चैव मानुषं समभिप्लुतम ॥ 72 ॥

  73. कामं देवाश च ऋषयः सत्त्वस्था नृपसत्तम हीनाः सत्त्वेन सूक्ष्मेण ततॊ वैकारिकाः समृताः ॥ 73 ॥

  74. [जनमेजय] कथं वैकारिकॊ गच्छेत पुरुषः पुरुषॊत्तमम ॥ 74 ॥

  75. [वैषम्पायन] सुसूक्ष्म सत्त्वसंयुक्तं संयुक्क्तं तरिभिर अक्षरैः पुरुषः पुरुषं गच्छेन निष्क्रियः पञ्चविंशकम ॥ 75 ॥

  76. एवम एकं सांक्य यॊगं वेदारण्यकम एव च परस्पराङ्गान्य एतानि पञ्चरात्रं च कथ्यते एष एकान्तिनां धर्मॊ नारायण परात्मकः ॥ 76 ॥

  77. यथा समुद्रात परसृता जलौघास; तम एव राजन पुनर आविशन्ति इमे तथा जञानमहाजलौघा; नारायणं वै पुनर आविशन्ति ॥ 77 ॥

  78. एष ते कथितॊ धर्मः सात्वतॊ यदुबान्धव कुरुष्वैनं यथान्यायं यदि शक्नॊषि भारत ॥ 78 ॥

  79. एवं हि सुमहाभागॊ नारदॊ गुरवे मम शवेतानां यतिनाम आह एकान्तगतिम अव्ययाम ॥ 79 ॥

  80. वयासश चाकथयत परीत्या धर्मपुत्राय धीमते स एवायं मया तुभ्यम आख्यातः परसृतॊ गुरॊः ॥ 80 ॥

  81. इत्थं हि दुश्चरॊ धर्म एष पार्थिव सत्तम यथैव तवं तथैवान्ये न भजन्ति विमॊहिताः ॥ 81 ॥

  82. कृष्ण एव हि लॊकानां भावनॊ मॊहनस तथा संहार कारकश चैव कारणं च विशां पते ॥ 82 ॥

Reach this point to mark the section finished.

Continue to अध्याय 337

Previous: अध्याय 335