[जनमेजय] शरुतं भगवतस तस्य माहात्म्यं परमात्मनः जन्म धर्मगृहे चैव नरनारायणात्मकम महावराह सृष्टा च पिण्डॊत्पत्तिः पुरातनी ॥ 1 ॥
परवृत्तौ च निवृत्तौ च यॊ यथा परिकल्पितः स तथा नः शरुतॊ बरह्मन कथ्यमानस तवयानघ ॥ 2 ॥
यच च तत कथितं पूर्वं तवया हयशिरॊ महत हव्यकव्य भुजॊ विष्णॊर उदक पूर्वे महॊदधौ तच च दृष्टं भगवता बरह्मणा परमेष्ठिना ॥ 3 ॥
किं तद उत्पादितं पूर्वं हरिणा लॊकधारिणा रूपं परभावमहताम अपूर्वं धीमतां वर ॥ 4 ॥
दृष्ट्वा हि विबुधश्रेष्ठम अपूर्वम अमितौजसम तद अश्वशिरसं पुण्यं बरह्मा किम अकरॊन मुने ॥ 5 ॥
एतन नः संशयं बरह्मन पुराणज्ञानसंभवम कथयस्वॊत्तम मते महापुरुष निर्मितम पाविताः सम तवया बरह्मन पुण्यां कथयतां कथाम ॥ 6 ॥
[वैषम्पायन] कथयिष्यामि ते सर्वं पुराणं वेद संमितम जगौ तद भगवान वयासॊ राज्ञॊ धर्मसुतस्य वै ॥ 7 ॥
शरुत्वाश्वशिरसॊ मूर्तिं देवस्य हरि मेधसः उत्पन्न संशयॊ राजा तम एव समचॊदयत ॥ 8 ॥
[युधिस्थिर] यत तद दर्शितवान बरह्मा देवं हयशिरॊ धरम किमर्थं तत समभवद वपुर देवॊपकल्पितम ॥ 9 ॥
[वयास] यत किं चिद इह लॊके वै देहबद्धं विशां पते सर्वं पञ्चभिर आविष्टं भूतैर ईश्वर बुद्धिजैः ॥ 10 ॥
ईश्वरॊ हि जगत सरष्टा परभुर नारायणॊ विरात भूतान्तर आत्मा वरदः सगुणॊ निर्गुणॊ ऽपि च भूतप्रलयम अव्यक्तं शृणुष्व नृपसत्तम ॥ 11 ॥
धरण्याम अथ लीनायाम अप्सु चैकार्णवे पुरा जयॊतिर भूते जले चापि लीने जयॊतिषि चानिले ॥ 12 ॥
वायौ चाकाशसंलीने आकाशे च मनॊऽनुगे वयक्ते मनसि संलीने वयक्ते चाव्यक्ततां गते ॥ 13 ॥
अव्यक्ते पुरुषं याते पुंसि सर्वगते ऽपि च तम एवाभवत सर्वं न पराज्ञायत किं चन ॥ 14 ॥
तमसॊ बरह्म संभूतं तमॊ मूलम ऋतात्मकम तद विश्वभावसंज्ञान्तं पौरुषीं तनुम आस्थितम ॥ 15 ॥
सॊ ऽनिरुद्ध इति परॊक्तस तत परधानं परचक्षते तद अव्यक्तम इति जञेयं तरिगुणं नृपसत्तम ॥ 16 ॥
विद्या सहायवान देवॊ विष्वक्सेनॊ हरिः परभुः अप्स्व एव शयनं चक्रे निद्रा यॊगम उपागतः जगतश चिन्तयन सृष्टिं चित्रा बहुगुणॊद्भवाम ॥ 17 ॥
तस्य चिन्तयतः सृष्टिं महान आत्मगुणः समृतः अहंकारस ततॊ जातॊ बरह्मा शुभचतुर्मुखः हिरण्यगर्भॊ भगवान सर्वलॊकपितामहः ॥ 18 ॥
पद्मे ऽनिरुद्धात संभूतस तदा पद्मनिभेक्षणः सहस्रपत्रे दयुतिमान उपविष्टः सनातनः ॥ 19 ॥
ददृशे ऽदभुतसंकाशे लॊकान आपॊ मयान परभुः सत्त्वस्थः परमेष्ठी स ततॊ भूतगणान सृजत ॥ 20 ॥
पूर्वम एव च पद्मस्य पत्रे सूर्यांसु सप्रभे नारायण कृतौ बिन्दुव अपाम आस्तां गुणॊत्तरौ ॥ 21 ॥
ताव अपश्यत स भगवान अनादि निधनॊ ऽचयुतः एकस तत्राभवद बिन्दुर मध्व आभॊ रुचिरप्रभः ॥ 22 ॥
स तामसॊ मधुर जातस तदा नारायणाज्ञया कथिनस तव अपरॊ बिन्दुः कैतभॊ राजसस तु सः ॥ 23 ॥
ताव अभ्यधावतां शरेष्ठौ तमॊ रज गुणान्वितौ बलबन्तौ गदाहस्तौ पद्मनालानुसारिणौ ॥ 24 ॥
ददृशाते ऽरविन्दस्थं बरह्माणम अमितप्रभम सृजन्तं परथमं वेदांश चतुरश चारु विग्रहान ॥ 25 ॥
ततॊ विग्रहवन्तौ तौ वेदान दृष्ट्वासुरॊत्तमौ सहसा जगृहतुर वेदान बरह्मणः पश्यतस तदा ॥ 26 ॥
अथ तौ दानव शरेष्ठौ वेदान गृह्य सनातनान रसां विविशतुस तूर्णम उदक पूर्वे महॊदधौ ॥ 27 ॥
ततॊ हृतेषु वेदेषु बरह्मा कश्मलम आविशत ततॊ वचनम ईशानं पराह वेदैर विनाकृतः ॥ 28 ॥
वेदा मे परमं चक्षुर वेदा मे परमं बलम वेदा मे परमं धाम वेदा मे बरह्म चॊत्तमम ॥ 29 ॥
मम वेदा हृताः सर्वे दानवाभ्यां बलाद इतः अन्धकारा हि मे लॊका जाता वेदैर विनाकृताः वेदान ऋते हि किं कुर्यां लॊकान वै सरष्टुम उद्यतः ॥ 30 ॥
अहॊ बत महद दुःखं वेद नाशनजं मम पराप्तं दुनॊति हृदयं तीव्रशॊकाय रन्धयन ॥ 31 ॥
कॊ हि शॊकार्णवे मग्नं माम इतॊ ऽदय समुद्धरेत वेदांस तान आनयेन नस्तान कस्य चाहं परियॊ भवे ॥ 32 ॥
इत्य एवं भासमानस्य बरह्मणॊ नृपसत्तम हरेः सतॊत्रार्थम उद्भूता बुद्धिर बुद्धिमतां वर ततॊ जगौ परं जप्यं साञ्जलि परग्रहः परभुः ॥ 33 ॥
नमस ते बरह्म हृदयनमस ते मम पूर्वज लॊकाद य भुवन शरेष्ठ सांख्ययॊगनिधे विभॊ ॥ 34 ॥
वयक्ताव्यक्त कराचिन्त्य कषेमं पन्थानम आस्थित विश्वभुक सर्वभूतानाम अन्तरात्मन्न अयॊनिज ॥ 35 ॥
अहं परसादजस तुभ्यं लॊकधाम्ने सवयम्भुवे तवत्तॊ मे मानसं जन्म परथमं दविज पूजितम ॥ 36 ॥
चाक्षुषं वै दवितीयं मे जन्म चासीत पुरातनम तवत्प्रसादाच च मे जन्म तृतीयं वाचिकं महत ॥ 37 ॥
तवत्तः शरवणजं चापि चतुर्थं जन्म मे विभॊ नासिक्यं चापि मे जन्म तवत्तः पञ्चमम उच्यते ॥ 38 ॥
अन्दजं चापि मे जन्म तवत्तः सस्थं विनिर्मितम इदं च सप्तमं जन्म पद्मजं मे ऽमितप्रभ ॥ 39 ॥
सर्गे सर्गे हय अहं पुत्रस तव तरिगुण वर्जितः परथितः पुन्दरीकाक्ष परधानगुणकल्पितः ॥ 40 ॥
तवम ईश्वर सवभावश च सवयम्भूः पुरुषॊत्तमः तवया विनिर्मितॊ ऽहं वै वेद चक्षुर वयॊतिगः ॥ 41 ॥
ते मे वेदा हृताश चक्षुर अन्धॊ जातॊ ऽसमि जागृहि ददस्व चक्षुषी मह्यं परियॊ ऽहं ते परियॊ ऽसि मे ॥ 42 ॥
एवं सतुतः स भगवान पुरुषः सर्वतॊ मुखः जहौ निद्राम अथ तदा वेद कार्यार्थम उद्यतः ऐश्वरेण परयॊगेण दवितीयां तनुम आस्थितः ॥ 43 ॥
सुनासिकेन कायेन भूत्वा चन्द्रप्रभस तदा कृत्वा हयशिरः शुभ्रं वेदानाम आलयं परभुः ॥ 44 ॥
तस्य मूर्धा समभवद दयैः सनक्षत्र तारका केशाश चास्याभवन दीर्घा रवेर अंशुसमप्रभाः ॥ 45 ॥
कर्णावकाश पाताले ललातं भूतधारिणी गङ्गा सरस्वती पुण्या भरुवाव आस्तां महानदी ॥ 46 ॥
चक्षुषी सॊमसूर्यौ ते नासा संध्या पुनः समृता ओंकारस तव अथ संस्कारॊ विद्युज्जिह्वा च निर्मिता ॥ 47 ॥
दन्ताश च पितरॊ राजन सॊमपा इति विश्रुताः गॊलॊकॊ बरह्मलॊकश च ओष्ठाव आस्तां महात्मनः गरीवा चास्याभवद राजन कालरात्रिर गुणॊत्तरा ॥ 48 ॥
एतद धयशिरः कृत्वा नाना मूर्तिभिर आवृतम अन्तर्दधे स विश्वेशॊ विवेश च रसां परभुः ॥ 49 ॥
रसां पुनः परविष्टश च यॊगं परमम आस्थितः शैक्षं सवरं समास्थाय ओम इति परसृजत सवरम ॥ 50 ॥
सस्वरः सानुनादी च सर्वगः सनिग्ध एव च बभूवान्तर्मही भूतः सर्वभूतगुणॊदितः ॥ 51 ॥
ततस ताव असुरौ कृत्वा वेदान समयबन्धनान रसातले विनिक्षिप्य यतः शब्दस ततॊ दरुतौ ॥ 52 ॥
एतस्मिन्न अन्तरे राजन देवॊ हयशिरॊधरः जग्राह वेदान अखिलान रसातल गतान हरिः परादाच च बरह्मणे भूयस ततः सवां परकृतिं गतः ॥ 53 ॥
सथापयित्वा हयशिरश उदक पूर्वे महॊदधौ वेदानाम आलयश चापि बभूवाश्वशिरास ततः ॥ 54 ॥
अथ किं चिद अपश्यन्तौ दानवौ मधु कैतभौ पुनर आजग्मतुस तत्र वेगितौ पस्यतां च तौ यत्र वेदा विनिक्षिप्तास तत सथानं शून्यम एव च ॥ 55 ॥
तत उत्तमम आस्थाय वेगं बलवतां वरौ पुनर उत्तस्थतुः शीघ्रं रसानाम आलयात तदा ददृशाते च पुरुषं तम एवादि करं परभुम ॥ 56 ॥
शवेतं चन्द्र विशुद्धाभम अनिरुद्ध तनौ सथितम भूयॊ ऽपय अमितविक्रान्तं निद्रा यॊगम उपागतम ॥ 57 ॥
आत्मप्रमाण रचिते अपाम उपरि कल्पिते शयने नागभॊगाद्ये जवालामालासमावृते ॥ 58 ॥
निष्कल्मसेन सत्त्वेन संपन्नं रुचिरप्रभम तं दृष्ट्वा दानवेन्द्रौ तौ महाहासम अमुञ्चताम ॥ 59 ॥
ऊचतुश च समाविष्टौ रजसा तमसा च तौ अयं स पुरुषः शवेतः शेते निद्राम उपागतः ॥ 60 ॥
अनेन नूनं वेदानां कृतम आहरणं रसात कस्यैष कॊ नु खल्व एष किं च सवपिति भॊगवान ॥ 61 ॥
इत्य उच्चारित वाक्यौ तौ बॊधयाम आसतुर हरिम युद्धार्थिनौ तु विज्ञाय विबुद्धः पुरुषॊत्तमः ॥ 62 ॥
निरीक्ष्य चासुरेन्द्रौ तौ ततॊ युद्धे मनॊ दधे अथ युद्धं समभवत तयॊर नारायणस्य च ॥ 63 ॥
रजस तमॊ विष्ट तनू ताव उभौ मधु कैतभौ बरह्मणॊपचितिं कुर्वञ जघान मधुसूदनः ॥ 64 ॥
ततस तयॊर वधेनाशु वेदापहरणेन च शॊकापनयनं चक्रे बरह्मणः पुरुषॊत्तमः ॥ 65 ॥
ततः परिवृतॊ बरह्मा हतारिर वेद सत्कृतः निर्ममे स तदा लॊकान कृत्स्नान सथावरजङ्गमान ॥ 66 ॥
दत्त्वा पितामहायाग्र्यां बुद्धिं लॊकविसर्गिकीम तत्रैवान्तर्दधे देवॊ यत एवागतॊ हरिः ॥ 67 ॥
तौ दानवौ हरिर हत्वा कृत्वा हयशिरस तनुम पुनः परवृत्ति धर्मार्थं ताम एव विदधे तनुम ॥ 68 ॥
एवम एष महाभागॊ बभूवाश्वशिरा हरिः पौराणम एतद आख्यातं रूपं वरदम ऐश्वरम ॥ 69 ॥
यॊ हय एतद बराह्मणॊ नित्यं शृणुयाद धारयेत वा न तस्याध्ययनं नाशम उपगच्छेत कदा चन ॥ 70 ॥
आराध्य तपसॊग्रेण देवं हर शिरॊधरम पञ्चालेन करमः पराप्तॊ रामेण पथि देशिते ॥ 71 ॥
एतद धयशिरॊ राजन्न आख्यानं तव कीर्तितम पुराणं वेद समितं यन मां तवं परिपृच्छसि ॥ 72 ॥
यां याम इच्छेत तनुं देवः कर्तुं कार्यविधौ कव चित तां तां कुर्याद विकुर्वाणः सवयम आत्मानम आत्मना ॥ 73 ॥
एष वेद निधिः शरीमान एष वै तपसॊ निधिः एष यॊगश च सांख्यं च बरह्म चाग्र्यं हरिर विभुः ॥ 74 ॥
नारायण परा वेदा यज्ञा नारायणात्मकाः तपॊ नारायण परं नारायण परा गतिः ॥ 75 ॥
नारायण परं सत्यम ऋतं नारायणात्मकम नारायण परॊ धर्मः पुनर आवृत्ति दुर्लभः ॥ 76 ॥
परवृत्ति लक्षणश चैव धर्मॊ नारायणात्मकः नारायणात्मकॊ गन्धॊ भूमौ शरेष्ठतमः समृतः ॥ 77 ॥
अपां चैव गुणॊ राजन रसॊ नारायणात्मकः जयॊतिषां च गुणॊ रूपं समृतं नारायणात्मकम ॥ 78 ॥
नारायणात्मकश चापि सपर्शॊ वायुगुणः समृतः नारायणात्मकश चापि शब्द आकाशसंभवः ॥ 79 ॥
मनश चापि ततॊ भूतम अव्यक्तगुण लक्षणम नारायण परः कालॊ जयॊतिषाम अयनं च यत ॥ 80 ॥
नारायण परा कीर्तिः शरीश च लक्ष्मीश च देवताः नारायण परं सांख्यं यॊगॊ नारायणात्मकः ॥ 81 ॥
कारणं पुरुषॊ येषां परधानं चापि कारणम सवभावश चैव कर्माणि दैवं येषां च कारणम ॥ 82 ॥
पञ्च कारणसंख्यातॊ निष्ठा सर्वत्र वै हरिः तत्त्वं जिज्ञासमानानां हेतुभिः सर्वतॊ मुखैः ॥ 83 ॥
तत्त्वम एकॊ मया यॊगी हरिर नारायणः परभुः सब्रह्मकानां लॊकानाम ऋषीणां च महात्मनाम ॥ 84 ॥
सांख्यानां यॊगिनां चापि यतीनाम आत्मवेदिनाम मनीसितं विजानाति केशवॊ न तु तस्य ते ॥ 85 ॥
ये के चित सर्वलॊकेषु दैवं पित्र्यं च कुर्वते दानानि च परयच्छन्ति तप्यन्ति च तपॊ महत ॥ 86 ॥
सर्वेषाम आश्रयॊ विष्णुर ऐश्वरं विधिम आस्थितः सर्वभूतकृतावासॊ वासुदेवेति चॊच्यते ॥ 87 ॥
अयं हि नित्यः परमॊ महर्षिर; महाविभूतिर गुणवान निर्गुणाख्यः गुणैश च संयॊगम उपैति शीघ्रं; कालॊ यथर्ताव ऋतुसंप्रयुक्तः ॥ 88 ॥
नैवास्य विन्दन्ति गतिं महात्मनॊ; न चागतिं कश चिद इहानुपस्यति जञानात्मकाः संयमिनॊ महर्षयः; पश्यन्ति नित्यं पुरुषं गुणाधिकम ॥ 89 ॥
शान्तिपर्व · Shanti Parva
अध्याय 335
Reach this point to mark the section finished.
Continue to अध्याय 336