धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 334

  1. [वैषम्पायन] शरुत्वैतन नारदॊ वाक्यं नरनारायणेरितम अत्यन्तभक्तिमान देवे एकान्तित्वम उपेयिवान ॥ 1 ॥

  2. परॊष्य वर्षसहस्रं तु नरनारायणाश्रमे शरुत्वा भगवद आख्यानं दृष्ट्वा च हरिम अव्ययम हिमवन्तं जगामाशु यत्रास्य सवक आश्रमः ॥ 2 ॥

  3. ताव अपि खयाततपसौ नरनारायणाव ऋषी तस्मिन्न एवाश्रमे रम्ये तेपतुस तप उत्तमम ॥ 3 ॥

  4. तम अप्य अमितविक्रान्तः पाण्डवानां कुलॊद्वहः पावितात्माद्य संवृत्तः शरुत्वेमाम आदितः कथाम ॥ 4 ॥

  5. नैव तस्य परॊ लॊकॊ नायं पार्थिव सत्तम कर्मणा मनसा वाचा यॊ दविष्याद विष्णुम अव्ययम ॥ 5 ॥

  6. मज्जन्ति पितरस तस्य नरके शाश्वतीः समाः यॊ दविष्याद विबुधश्रेष्ठं देवं नारायणं हरिम ॥ 6 ॥

  7. कथं नाम भवेद दवेष्य आत्मा लॊकस्य कस्य चित आत्मा हि पुरुषव्याघ्र जञेयॊ विष्णुर इति सथितिः ॥ 7 ॥

  8. य एष गुरुर अस्माकम ऋषिर गन्धवती सुतः तेनैतत कथितं तात माहात्म्यं परमात्मनः तस्माच छरुतं मया चेदं कथितं च तवानघ ॥ 8 ॥

  9. कृष्णद्वैपायनं वयासं विद्धि नारायणं परभुम कॊ हय अन्यः पुरुषव्याघ्र महाभारत कृद भवेत धर्मान नानाविधांश चैव कॊ बरूयात तम ऋते परभुम ॥ 9 ॥

  10. वर्ततां ते महायज्ञॊ यथा संकल्पितस तवया संकल्पिताश्वमेधस तवं शरुतधर्मश च तत्त्वतः ॥ 10 ॥

  11. एतत तु महद आख्यानं शरुत्वा पारिक्षितॊ नृपः ततॊ यज्ञसमाप्त्य अर्थं करियाः सर्वाः समारभत ॥ 11 ॥

  12. नारायणीयम आख्यानम एतत ते कथितं मया नारदेन पुरा राजन गुरवे मे निवेदितम ऋषीणां पाण्डवानां च शृण्वतॊः कृष्ण भीस्मयॊः ॥ 12 ॥

  13. स हि परमगुरुर भुवनपतिर; धरणिधरः शम नियमनिधिः शरुतिविनयनिधिर दविज परमहितस; तव भवतु गतिर हरिर अमर हितः ॥ 13 ॥

  14. तपसां निधिः सुमहतां महतॊ; यशसश च भाजनम अरिष्टकहा एकान्तिनां शरणदॊ ऽभयदॊ गतिदॊ ऽसतु वः; स मखभागहरस तरिगुणातिगः ॥ 14 ॥

  15. तरिगुणातिगश चतुर्पञ्चधरः; पूर्तेष्टयॊश च फलभागहरः विदधाति नित्यम अजितॊ ऽतिबलॊ; गतिम आत्मगा सुकृतिनाम ऋषिणाम ॥ 15 ॥

  16. तं लॊकसाक्षिणम अजं पुरुषं; रविवर्णम ईश्वर गतिं बहुशः परनमध्वम एकमतयॊ यतयः; सलिलॊद्भवॊ ऽपि तम ऋषिं परनतः ॥ 16 ॥

  17. स हि लॊकयॊनिर अमृतस्य पदं; सूक्ष्मं पुराणम अचलं परमम तत सांख्ययॊगिभिर उदारधृतं; बुद्ध्या यतात्मभिर विदितं सततम ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 335

Previous: अध्याय 333