धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 333

  1. [वैषम्पायन] कस्य चित तव अथ कालस्य नारदः परमेष्ठिजः दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम ॥ 1 ॥

  2. ततस तं वचनं पराह जयेष्ठॊ धर्मात्मजः परभुः क इज्यते दविजश्रेष्ठ दैवे पित्र्ये च कल्पिते ॥ 2 ॥

  3. तवया मतिमतां शरेष्ठ तन मे शंस यथागमम किम एतत करियते कर्मफलं चास्य किम इष्यते ॥ 3 ॥

  4. [नारद] तवयैतत कथितं पूर्वं दैवं कर्तव्यम इत्य अपि दैवतं च परॊ यज्ञः परमात्मा सनातनः ॥ 4 ॥

  5. ततस तद्भावितॊ नित्यं यजे वैकुन्थम अव्ययम तस्माच च परसृतः पूर्वं बरह्मा लॊकपितामहः ॥ 5 ॥

  6. मम वै पितरं परीतः परमेष्ठ्य अप्य अजीजनत अहं संकल्पजस तस्य पुत्रः परथमकल्पितः ॥ 6 ॥

  7. यजाम्य अहं पितॄन साधॊ नारायण विधौ कृते एवं स एव भगवान पिता माता पितामहः इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः ॥ 7 ॥

  8. शरुतिश चाप्य अपरा देवपुत्रान हि पितरॊ ऽयजन वेदश्रुतिः परनस्ता च पुनर अध्यापिता सुतैः ततस ते मन्त्रदाः पुत्राः पितृत्वम उपपेदिरे ॥ 8 ॥

  9. नूनं पुरैतद विदितं युवयॊर भावितात्मनॊः पुत्राश च पितरश चैव परस्परम अपूजयन ॥ 9 ॥

  10. तरीन पिण्डान नयस्य वै पृथ्व्यां पूर्वं दत्त्वा कुशान इति कथं तु पिण्ड संज्ञां ते पितरॊ लेभिरे पुरा ॥ 10 ॥

  11. [नरनारायनौ] इमां हि धरणीं पूर्वं नस्तां सागरमेखलाम गॊविन्द उज्जहाराशु वाराहं रूपम आश्रितः ॥ 11 ॥

  12. सथापयित्वा तु धरणीं सवे सथाने पुरुषॊत्तमः जलकर्दम लिप्ताङ्गॊ लॊककार्यार्थम उद्यतः ॥ 12 ॥

  13. पराप्ते चाह्निक काले स मध्यंदिन गते रवौ दंस्त्रा विलग्नान मृत पिण्डान विधूय सहसा परभुः सथापयाम आस वै पृथ्व्यां कुशान आस्तीर्य नारद ॥ 13 ॥

  14. स तेष्व आत्मानम उद्दिश्य पित्र्यं चक्रे यथाविधि संकल्पयित्वा तरीन पिण्डान सवेनैव विधिना परभुः ॥ 14 ॥

  15. आत्मगात्रॊष्म संभूतैः सनेहगर्भैस तिलैर अपि परॊक्ष्यापवर्गं देवेशः पराङ्मुखः कृतवान सवयम ॥ 15 ॥

  16. मर्यादा सथापनार्थं च ततॊ वचनम उक्तवान अहं हि पितरः सरष्टुम उद्यतॊ लॊककृत सवयम ॥ 16 ॥

  17. तस्य चिन्तयतः सद्यः पितृकार्यविधिं परम दंस्त्राभ्यां परविनिर्धूता ममैते दक्षिणां दिशम आश्रिता धरणीं पिण्डास तस्मात पितर एव ते ॥ 17 ॥

  18. तरयॊ मूर्ति विहीना वै पिण्ड मूर्ति धरास तव इमे भवन्तु पितरॊ लॊके मया सृष्टाः सनातनाः ॥ 18 ॥

  19. पिता पितामहश चैव तथैव परपितामहः अहम एवात्र विज्ञेयस तरिषु पिण्डेषु संस्थितः ॥ 19 ॥

  20. नास्ति मत्तॊ ऽधिकः कश चित कॊ वाभ्यर्च्यॊ मया सवयम कॊ वा मम पिता लॊके अहम एव पितामहः ॥ 20 ॥

  21. पितामह पिता चैव अहम एवात्र कारणम इत्य एवम उक्त्वा वचनं देवदेवॊ वृषाकपिः ॥ 21 ॥

  22. वराहपर्वते विप्र दत्त्वा पिण्डान सविस्तरान आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः ॥ 22 ॥

  23. एतदर्थं शुभमते पितरः पिण्ड संज्ञिताः लभन्ते सततं पूजां वृषाकपि वचॊ यथा ॥ 23 ॥

  24. ये यजन्ति पितॄन देवान गुरूंश चैवातिथींस तथा गाश चैव दविजमुख्यांश च पृथिवीं मातरं तथा कर्मणा मनसा वाचा विष्णुम एव यजन्ति ते ॥ 24 ॥

  25. अन्तर्गतः स भगवान सर्वसत्त्वशरीरगः समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयॊः महान महात्मा सर्वात्मा नारायण इति शरुतः ॥ 25 ॥

Reach this point to mark the section finished.

Continue to अध्याय 334

Previous: अध्याय 332