[जनमेजय] बरह्मन सुमहद आख्यानं भवता परिकीर्तितम यच छरुत्वा मुनयः सर्वे विस्मयं परमं गताः ॥ 1 ॥
इदं शतसहस्राद धि भारताख्यान विस्तरात आमथ्य मतिमन्थेन जञानॊदधिम अनुत्तमम ॥ 2 ॥
नव नीतं यथा दध्नॊ मलयाच चन्दनं यथा आरण्यकं च वेदेभ्य ओषधिभ्यॊ ऽमृतं यथा ॥ 3 ॥
समुद्धृतम इदं बरह्मन कथामृतम अनुत्तमम तपॊ निधे तवयॊक्तं हि नारायण कथाश्रयम ॥ 4 ॥
स हीशॊ भगवान देवः सर्वभूतात्मभावनः अहॊ नारायणं तेजॊ दुर्दर्शं दविजसत्तम ॥ 5 ॥
यत्राविशन्ति कल्पान्ते सर्वे बरह्मादयः सुराः ऋषयश च सगन्धर्वा यच च किं चिच चराचरम न ततॊ ऽसति परं मन्ये पावनं दिवि चेह च ॥ 6 ॥
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम न तथा फलदं चापि नारायण कथा यथा ॥ 7 ॥
सर्वथा पाविताः समेह शरुत्वेमाम आदितः कथाम हरेर विश्वेश्वरस्येह सर्वपापप्रनाशनीम ॥ 8 ॥
न चित्रं कृतवांस तत्र यद आर्यॊ मे धनंजयः वासुदेवसहायॊ यः पराप्तवाञ जयम उत्तमम ॥ 9 ॥
न चास्य किं चिद अप्राप्यं मन्ये लॊकेष्व अपि तरिषु तरिलॊक्य नाथॊ विष्णुः स यस्यासीत साह्यकृत सखा ॥ 10 ॥
धन्याश च सर्व एवासन बरह्मंस ते मम पूर्वकाः हिताय शरेयसे चैव येषाम आसीज जनार्दनः ॥ 11 ॥
तपसापि न दृश्यॊ हि भगवाँल लॊकपूजितः यं दृष्टवन्तं ते साक्षाच छरीवत्साङ्क विभूसनम ॥ 12 ॥
तेभ्यॊ धन्यतरश चैव नारदः परमेष्ठिजः न चाल्पतेजसम ऋषिं वेद्मि नारदम अव्ययम शवेतद्वीपं समासाद्य येन दृष्टः सवयं हरिः ॥ 13 ॥
देवप्रसादानुगतं वयक्तं तत तस्य दर्शनम यद दृष्टवांस तदा देवम अनिरुद्ध तनौ सथितम ॥ 14 ॥
बदरीम आश्रमं यत तु नारदः पराद्रवत पुनः नरनारायणौ दरष्टुं किं नु तत कारणं मुने ॥ 15 ॥
शवेतद्वीपान निवृत्तश च नारदः परमेष्ठिजः बदरीम आश्रमं पराप्य समागम्य च ताव ऋषी ॥ 16 ॥
कियन्तं कालम अवसत काः कथाः पृष्टवांश च सः शवेतद्वीपाद उपावृत्ते तस्मिन वा सुमहात्मनि ॥ 17 ॥
किम अब्रूतां महात्मानौ नरनारायणाव ऋषी तद एतन मे यथातत्त्वं सर्वम आख्यातुम अर्हसि ॥ 18 ॥
[वैषम्पायन] नमॊ भगवते तस्मै वयासायामित तेजसे यस्य परसादाद वक्ष्यामि नारायण कथाम इमाम ॥ 19 ॥
पराप्य शवेतं महाद्वीपं दृष्टवान हरिम अव्ययम निवृत्तॊ नारदॊ राजंस तरसा मेरुम आगमत हृदयेनॊद्वहन भारं यद उक्तं परमात्मना ॥ 20 ॥
पश्चाद अस्याभवद राजन्न आत्मनः साध्वसं महत यद गत्वा दूरम अध्वानं कषेमी पुनर इहागतः ॥ 21 ॥
ततॊ मेरॊः परचक्राम पर्वतं गन्धमादनम निपपात च खात तूर्णं विशालां बदरीम अनु ॥ 22 ॥
ततः स ददृशे देवौ पुराणाव ऋषिसत्तमौ तपश चरन्तौ सुमहद आत्मनिष्ठौ महाव्रतौ ॥ 23 ॥
तेजसाभ्यधिकौ सूर्यात सर्वलॊकविरॊचनात शरीवत्स लक्षणौ पूज्यौ जता मन्दल धारिणौ ॥ 24 ॥
जालपादभुजौ तौ तु पादयॊश चक्रलक्षणौ वयूधॊरस्कौ दीर्घभुजौ तथा मुष्क चतुष्किनौ ॥ 25 ॥
षष्टिदन्ताव अष्ट दंष्ट्रौ मेघौघसदृशस्वनौ सवास्यौ पृथु ललातौ च सुहनू सुभ्रु नासिकौ ॥ 26 ॥
आतपत्रेण सदृशे शिरसी देवयॊस तयॊः एवं लक्षणसंपन्नौ महापुरुष संज्ञितौ ॥ 27 ॥
तौ दृष्ट्वा नारदॊ हृष्टस ताभ्यां च परतिपूजितः सवागतेनाभिभास्याथ पृष्टश चानामयं तदा ॥ 28 ॥
बभूवान्तर्गतम अतिनिरीक्ष्य पुरुषॊत्तमौ सदॊ गतास तत्र ये वै सर्वभूतनमस्कृताः ॥ 29 ॥
शवेतदीपे मया दृष्टास तादृशाव ऋषिसत्तमौ इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणम उपॊपविविशे तत्र पीथे कुश मये शुभे ॥ 30 ॥
ततस तौ तपसां वासौ यशसां तेजसाम अपि ऋषी शम दमॊपेतौ कृत्वा पूर्वाह्निकं विधिम ॥ 31 ॥
पश्चान नारदम अव्यग्रौ पाद्यार्घ्याभ्यां परपूज्य च पीथयॊश चॊपविष्टौ तौ कृतातिथ्याह्निकौ नृप ॥ 32 ॥
तेषु तत्रॊपविष्टेषु स देशॊ ऽभिव्यराजत आज्याहुति महाज्वालैर यज्ञवातॊ ऽगनिभिर यथा ॥ 33 ॥
अथ नारायणस तत्र नारदं वाक्यम अब्रवीत सुखॊपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम ॥ 34 ॥
अपीदानीं स भगवान परमात्मा सनातनः शवेतदीपे तवया दृष्ट आवयॊः परकृतिः परा ॥ 35 ॥
[नारद] दृष्टॊ मे पुरुषः शरीमान विश्वरूपधरॊ ऽवययः सर्वे हि लॊकास तत्र सथास तथा देवाः सहर्षिभिः अद्यापि चैनं पश्यामि युवां पश्यन सनातनौ ॥ 36 ॥
यैर लक्षणैर उपेतः स हरिर अव्यक्तरूपधृक तैर लक्षणैर उपेतौ हि वयक्तरूपधरौ युवाम ॥ 37 ॥
दृष्टौ मया युवां तत्र तस्य देवस्य पार्श्वतः इह चैवागतॊ ऽसम्य अद्य विसृष्टः परमात्मना ॥ 38 ॥
कॊ हि नाम भवेत तस्य तेजसा यशसा शरिया सदृशस तरिषु लॊकेषु ऋते धर्मात्मजौ युवाम ॥ 39 ॥
तेन मे कथितं पूर्वं नाम कषेत्रज्ञसंज्ञितम परादुर्भावाश च कथिता भविष्यन्ति हि ये यथा ॥ 40 ॥
तत्र ये पुरुषाः शवेताः पञ्चेन्द्रिय विवर्जिताः रतिबुद्धाश च ते सर्वे भक्ताश च पुरुषॊत्तमम ॥ 41 ॥
ते ऽरचयन्ति सदा देवं तैः सार्धं रमते च सः परिय भक्तॊ हि भगवान परमात्मा दविज परियः ॥ 42 ॥
रमते सॊ ऽरच्यमानॊ हि सदा भागवत परियः विश्वभुक सर्वगॊ देवॊ बान्धवॊ भक्त वत्सलः स कर्ता कारणं चैव कार्यं चातिबल दयुतिः ॥ 43 ॥
तपसा यॊज्य सॊ ऽऽतमानं शवेतद्वीपात परं हि यत तेज इत्य अभिविख्यातं सवयं भासावभासितम ॥ 44 ॥
शान्तिः सा तरिषु लॊकेषु सिद्धानां भावितात्मनाम एतया शुभया बुद्ध्या नैष्ठिकं वरतम आस्थितः ॥ 45 ॥
न तत्र सूर्यस तपति न सॊमॊ ऽभिविराजते न वायुर वाति देवेशे तपश चरति दुश्चरम ॥ 46 ॥
वेदीम अस्ततलॊत्सेधां भूमाव आस्थाय विश्वभुक एकपादस्थितॊ देव ऊर्ध्वबाहुर उदङ मुखः साङ्गान आवर्तयन वेदांस तपस तेपे सुदुश्चरम ॥ 47 ॥
यद बरह्मा ऋषयश चैव सवयं पशुपतिश च यत शेषाश च विबुधश्रेष्ठा दैत्यदानवराक्षसाः ॥ 48 ॥
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्षयश च ये हव्यं कव्यं च सततं विधिपूर्वं परयुञ्जते कृत्स्नं तत तस्य देवस्य चरणाव उपतिष्ठति ॥ 49 ॥
याः करियाः संप्रयुक्तास तु एकान्तगतबुद्धिभिः ताः सर्वाः शिरसा देवः परतिगृह्णाति वै सवयम ॥ 50 ॥
न तस्यान्यः परियतरः परतिबुद्धैर महात्मभिः विद्यते तरिषु लॊकेषु ततॊ ऽसम्य ऐकान्तिकं गतः इह चैवागतस तेन विसृष्टः परमात्मना ॥ 51 ॥
एवं मे भगवान देवः सवयम आख्यातवान हरिः आसिष्ये तत्परॊ भूत्वा युवाभ्यां सह नित्यशः ॥ 52 ॥
शान्तिपर्व · Shanti Parva
अध्याय 331
Reach this point to mark the section finished.
Continue to अध्याय 332