धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 330

  1. [भगवान] सूर्या चन्द्रमसौ शश्वत केशैर मे अंशुसंज्ञितैः बॊधयंस तापयंश चैव जगद उत्तिष्ठतः पृथक ॥ 1 ॥

  2. बॊधनात तापनाच चैव जगतॊ हर्षणं भवेत अग्नीषॊम कृतैर एभिः कर्मभिः पाण्डुनन्दन हृषीकेशॊ ऽहम ईशानॊ वरदॊ लॊकभावनः ॥ 2 ॥

  3. इदॊपहूत यॊगेन हरे भागं करतुष्व अहम वर्णश च मे हरिश्रेष्ठस तस्माद धरिर अहं समृतः ॥ 3 ॥

  4. धाम सारॊ हि लॊकानाम ऋतं चैव विचारितम ऋतधामा ततॊ विप्रैः सत्यश चाहं परकीर्तितः ॥ 4 ॥

  5. नस्तां च धरणीं पूर्वम अविन्दं वै गुहा गताम गॊविन्द इति मां देवा वाग भिः समभितुष्टुवुः ॥ 5 ॥

  6. शिपिविष्टेति चाख्यायां हीनरॊमा च यॊ भवेत तेनाविष्टं हि यत किं चिच छिपिविष्टं हि तत समृतम ॥ 6 ॥

  7. यास्कॊ माम ऋषिर अव्यग्रॊ नैकयज्ञेषु गीतवान शिपिविष्ट इति हय अस्माद गुह्य नाम धरॊ हय अहम ॥ 7 ॥

  8. सतुत्वा मां शिपिविष्टेति यास्कॊ ऋषिर उदारधीः मत्प्रसादाद अधॊ नस्तं निरुक्तम अभिजग्मिवान ॥ 8 ॥

  9. न हि जातॊ न जाये ऽहं न जनिष्ये कदा चन कषेत्रज्ञः सर्वभूतानां तस्माद अहम अजः समृतः ॥ 9 ॥

  10. नॊक्तपूर्वं मया कषुद्रम अश्लीलं वा कदा चन ऋता बरह्मसुता सा मे सत्या देवी सरस्वती ॥ 10 ॥

  11. सच चासच चैव कौन्तेय मयावेशितम आत्मनि पौष्करे बरह्म सदने सत्यं माम ऋषयॊ विदुः ॥ 11 ॥

  12. सत्त्वान न चयुत पूर्वॊ ऽहं सत्त्वं वै विद्धि मत्कृतम जन्मनीहाभवत सत्त्वं पौर्विकं मे धनञ्जय ॥ 12 ॥

  13. निराशीः कर्म संयुक्तं सात्वतं मां परकल्पय सात्वत जञानदृष्टॊ ऽहं सात्वतः सात्वतां पतिः ॥ 13 ॥

  14. कृषामि मेदिनीं पार्थ भूत्वा कार्ष्णायसॊ महान कृष्णॊ वर्णश च मे यस्मात तस्मात कृष्णॊ ऽहम अर्जुन ॥ 14 ॥

  15. मया संश्लेषिता भूमिर अद्भिर वयॊम च वायुना वायुश च तेजसा सार्धं वैकुन्थत्वं ततॊ मम ॥ 15 ॥

  16. निर्वानं परमं सौख्यं धर्मॊ ऽसौ पर उच्यते तस्मान न चयुत पूर्वॊ ऽहम अच्युतस तेन कर्मणा ॥ 16 ॥

  17. पृथिवी नभसी चॊभे विश्रुते विश्वलौकिके तयॊः संधारणार्थं हि माम अधॊक्षजम अञ्जसा ॥ 17 ॥

  18. निरुक्तं वेद विदुषॊ ये च शब्दार्थ चिन्तकाः ते मां गायन्ति पराग्वंशे अधॊक्षज इति सथितिः ॥ 18 ॥

  19. शब्द एकमतैर एष वयाहृतः परमर्षिभिः नान्यॊ हय अधॊक्षजॊ लॊके ऋते नारायणं परभुम ॥ 19 ॥

  20. घृतं ममार्चिषॊ लॊके जन्तूनां पराण धारणम घृतार्चिर अहम अव्यग्रैर वेदज्ञैः परिकीर्तितः ॥ 20 ॥

  21. तरयॊ हि धातवः खयाताः कर्मजा इति च समृताः पित्तं शलेष्मा च वायुश च एष संघात उच्यते ॥ 21 ॥

  22. एतैश च धार्यते जन्तुर एतैः कषीणैश च कषीयते आयुर्वेदविदस तस्मात तरिधातुं मां परचक्षते ॥ 22 ॥

  23. वृषॊ हि भगवान धर्मः खयातॊ लॊकेषु भारत नैघन्तुक पदाख्यातं विद्धि मां वृषम उत्तमम ॥ 23 ॥

  24. कपिर वराहः शरेष्ठश च धर्मश च वृष उच्यते तस्माद वृषाकपिं पराह कश्यपॊ मां परजापतिः ॥ 24 ॥

  25. न चादिं न मध्यं तथा नैव चान्तं; कदा चिद विदन्ते सुराश चासुराश च अनाद्यॊ हय अमध्यस तथा चाप्य अनन्तः; परगीतॊ ऽहम ईशॊ विभुर लॊकसाक्षी ॥ 25 ॥

  26. शुचीनि शरवणीयानि शृणॊमीह धनंजय न च पापानि गृह्णामि ततॊ ऽहं वै शुचिश्रवः ॥ 26 ॥

  27. एकशृङ्गः पुरा भूत्वा वराहॊ दिव्यदर्शनः इमाम उद्धृतवान भूमिम एकशृङ्गस ततॊ हय अहम ॥ 27 ॥

  28. तथैवासं तरिककुदॊ वाराहं रूपम आस्थितः तरिककुत तेन विख्यातः शरीरस्य तु मापनात ॥ 28 ॥

  29. विरिञ्च इति यः परॊक्तः कपिल जञानचिन्तकैः स परजापतिर एवाहं चेतनात सर्वलॊककृत ॥ 29 ॥

  30. विद्या सहायवन्तं माम आदित्यस्थं सनातनम कपिलं पराहुर आचार्याः सांख्या निश्चित निश्चयाः ॥ 30 ॥

  31. हिरण्यगर्भॊ दयुतिमान एष यश छन्दसि सतुतः यॊगैः संपूज्यते नित्यं स एवाहं विभुः समृतः ॥ 31 ॥

  32. एकविंशतिशाखं च ऋग्वेदं मां परचक्षते सहस्रसाखं यत साम ये वै वेद विदॊ जनाः गायन्त्य आरण्यके विप्रा मद्भक्तास ते ऽपि दुर्लभाः ॥ 32 ॥

  33. सः पञ्चाशतम अस्तौ च सप्तत्रिंशतम इत्य उत यस्मिञ शाखा यजुर्वेदे सॊ ऽहम आध्वर्यवे समृतः ॥ 33 ॥

  34. पञ्च कल्पम अथर्वाणं कृत्याभिः परिबृंहितम कल्पयन्ति हि मां विप्रा अथर्वाणविदस तथा ॥ 34 ॥

  35. शाखा भेदाश च ये के चिद याश च शाखासु गीतयः सवरवर्णसमुच्चाराः सर्वांस तान विद्धि मत्कृतान ॥ 35 ॥

  36. यत तद धयशिरः पार्थ समुदेति वरप्रदम सॊ ऽहम एवॊत्तरे भागे करमाक्षर विभागवित ॥ 36 ॥

  37. रामादेशित मार्गेण मत्प्रसादान महात्मना पाञ्चालेन करमः पराप्तस तस्माद भूतात सनातनात बाभ्रव्य गॊत्रः स बभौ परथमः करमपारगः ॥ 37 ॥

  38. नारायणाद वरं लब्ध्वा पराप्य यॊगम अनुत्तमम करमं परनीय शिक्षां च परनयित्वा स गालवः ॥ 38 ॥

  39. कन्दलीकॊ ऽथ राजा च बरह्मदत्तः परतापवान जाती मरणजं दुःखं समृत्वा समृत्वा पुनः पुनः सप्तजातिषु मुख्यत्वाद यॊगानां संपदं गतः ॥ 39 ॥

  40. पुराहम आत्मजः पार्थ परथितः कारणान्तरे धर्मस्य कुरुशार्दूल ततॊ ऽहं धर्मजः समृतः ॥ 40 ॥

  41. नरनारायणौ पूर्वं तपस तेपतुर अव्ययम धर्मयानं समारूढौ पर्वते गन्धमादने ॥ 41 ॥

  42. तत कालसमयं चैव दक्षयज्ञॊ बभूव ह न चैवाकल्पयद भागं दक्षॊ रुद्रस्य भारत ॥ 42 ॥

  43. ततॊ दधीचि वचनाद दक्षयज्ञम अपाहरत ससर्ज शूलं करॊधेन परज्वलन्तं मुहुर मुहुः ॥ 43 ॥

  44. तच छूलं भस्मसात कृत्वा दक्षयज्ञं सविस्तरम आवयॊः सहसागच्छद बदर्य आश्रमम अन्तिकात वेगेन महता पार्थ पतन नारायणॊरसि ॥ 44 ॥

  45. ततः सवतेजसाविष्टाः केशा नारायणस्य ह बभूवुर मुञ्ज वर्णास तु ततॊ ऽहं मुञ्ज केशवान ॥ 45 ॥

  46. तच च शूलं विनिर्धूतं हुंकारेण महात्मना जगाम शंकर करं नारायण समाहतम ॥ 46 ॥

  47. अथ रुद्र उपाधावत ताव ऋषी तपसान्वितौ तत एनं समुद्धूतं कन्थे जग्राह पानिना नारायणः स विश्वात्मा तेनास्य शिति कन्थता ॥ 47 ॥

  48. अथ रुद्र विघातार्थम इषीकां जगृहे नरः मन्त्रैश च संयुयॊजाशु सॊ ऽभवत परशुर महान ॥ 48 ॥

  49. कषिप्तश च सहसा रुद्रे खन्दनं पराप्तवांस तदा ततॊ ऽहं खन्द परशुः समृतः परशु खन्दनात ॥ 49 ॥

  50. [अर्जुन] अस्मिन उद्धे तु वार्ष्णेय तरैलॊक्यमथने तदा जयं कः पराप्तवांस तत्र शंसैतन मे जनार्दन ॥ 50 ॥

  51. [षरीभगवान] तयॊः संलग्नयॊर युद्धे रुद्र नारायणात्मनॊः उद्विग्नाः सहसा कृत्स्ना लॊकाः सर्वे ऽभवंस तदा ॥ 51 ॥

  52. नागृह्णात पावकः शुभ्रं मखेषु सुहुतं हविः वेदा न परतिभान्ति सम ऋषीणां भावितात्मनाम ॥ 52 ॥

  53. देवान रजस तमश चैव समाविविशतुस तदा वसुधा संचकम्पे ऽथ नभश च विपफाल ह ॥ 53 ॥

  54. निष्प्रभानि च तेजांसि बरह्मा चैवासनाच चयुतः अगाच छॊषं समुद्रश च हिमवांश च वयशीर्यत ॥ 54 ॥

  55. तस्मिन्न एवं समुत्पन्ने निमित्ते पाण्डुनन्दन बरह्मा वृतॊ देवगणैर ऋषिभिश च महात्मभिः आजगामाशु तं देशं यत्र युद्धम अवर्तत ॥ 55 ॥

  56. साञ्जलि परग्रहॊ भूत्वा चतुर्वक्त्रॊ निरुक्तगः उवाच वचनं रुद्रं लॊकानाम अस्तु वै शिवम नयस्यायुधानि विश्वेश जगतॊ हितकाम्यया ॥ 56 ॥

  57. यद अक्षरम अथाव्यक्तम ईशं लॊकस्य भावनम कूतस्थं कर्तृ निर्द्वन्द्वम अकर्तेति च यं विदुः ॥ 57 ॥

  58. वयक्तभावगतस्यास्य एका मूर्तिर इयं शिवा नरॊ नारायणश चैव जातौ धर्मकुलॊद्वहौ ॥ 58 ॥

  59. तपसा महता युक्तौ देव शरेष्ठौ महाव्रतौ अहं परसादजस तस्य कस्मिंश चित कारणान्तरे तवं चैव करॊधजस तात पूर्वसर्गे सनातनः ॥ 59 ॥

  60. मया च सार्धं वरदं विबुधैश च महर्षिभिः परसादयाम आस ततॊ देवं नारायणं परभुम ॥ 60 ॥

  61. बरह्मणा तव एवम उक्तस तु रुद्रः करॊधाग्निम उत्सृजन परसादयाम आस ततॊ देवं नारयणं परभुम शरणं च जगामाद्यं वरेण्यं वरदं हरिम ॥ 61 ॥

  62. ततॊ ऽथ वरदॊ देवॊ जितक्रॊधॊ जितेन्द्रियः परीतिमान अभवत तत्र रुद्रेण सह संगतः ॥ 62 ॥

  63. ऋषिभिर बरह्मणा चैव विबुधैश च सुपूजितः उवाच देवम ईशानम ईशः स जगतॊ हरिः ॥ 63 ॥

  64. यस तवां वेत्ति स मां वेत्ति यस तवाम अनु स माम अनु नावयॊर अन्तरं किं चिन मा ते भूद बुद्धिर अन्यथा ॥ 64 ॥

  65. अद्य परभृति शरीवत्सः शूलाङ्कॊ ऽयं भवत्व अयम मम पान्य अङ्कितश चापि शरीकन्थस तवं भविष्यसि ॥ 65 ॥

  66. एवं लक्षणम उत्पाद्य परस्परकृतं तदा सख्यं चैवातुलं कृत्वा रुद्रेण सहिताव ऋषी तपस तेपतुर अव्यग्रौ विसृज्य तरिदिवौकसः ॥ 66 ॥

  67. एष ते कथितः पार्थ नारायण जयॊ मृधे नामानि चैव गुह्यानि निरुक्तानि च भारत ऋषिभिः कथितानीह यानि संकीर्तितानि ते ॥ 67 ॥

  68. एवं बहुविधै रूपैश चरामीह वसुंधरम बरह्मलॊकं च कौन्तेय गॊलॊकं च सनातनम मया तवं रक्षितॊ युद्धे महान्तं पराप्तवाञ जयम ॥ 68 ॥

  69. यस तु ते सॊ ऽगरतॊ याति युद्धे संप्रत्युपस्थिते तं विद्धि रुद्रं कौन्तेय देवदेवं कपर्दिनम ॥ 69 ॥

  70. कालः स एव कथितः करॊधजेति मया तव निहतांस तेन वै पूर्वं हतवान असि वै रिपून ॥ 70 ॥

  71. अप्रमेयप्रभावं तं देवदेवम उमापतिम नमस्व देवं परयतॊ विश्वेशं हरम अव्ययम ॥ 71 ॥

Reach this point to mark the section finished.

Continue to अध्याय 331

Previous: अध्याय 329