[युधिस्ठिर] हताः पुत्राश च पौत्राश च भरातरः पितरस तथा शवशुरा गुरवश चैव मातुलाः सपितामहाः ॥ 1 ॥
कषत्रियाश च महात्मानः संबन्धिसुहृदस तथा वयस्या जञातयश चैव भरातरश च पितामह ॥ 2 ॥
बहवश च मनुष्येन्द्रा नानादेशसमागताः घातिता राज्यलुब्धेन मयैकेन पितामह ॥ 3 ॥
तांस तादृशान अहं हत्वा धर्मनित्यान महीक्षितः असकृत सॊमपान वीरान किं पराप्स्यामि तपॊधन ॥ 4 ॥
दह्याम्य अनिशम अद्याहं चिन्तयानः पुनः पुनः हीनां पार्थिव सिंहैस तैः शरीमद्भिः पृथिवीम इमाम ॥ 5 ॥
दृष्ट्वा जञातिवधं घॊरं हतांश च शतशः परान कॊटिशश च नरान अन्यान परितप्ये पितामह ॥ 6 ॥
का नु तासां वरस्त्रीणाम अवस्थाद्य भविष्यति विहीनानां सवतनयैः पतिभिर भरातृभिस तथा ॥ 7 ॥
अस्मान अन्तकरान घॊरान पाण्डवान वृष्णिसंहितान आक्रॊशन्त्यः कृशा दीना निपतन्त्यश च भूतले ॥ 8 ॥
अपश्यन्त्यः पितॄन भरातॄन पतीन पुत्रांश च यॊषितः तयक्त्वा पराणान परियान सर्वा गमिष्यन्ति यमक्षयम ॥ 9 ॥
वत्सलत्वाद दविजश्रेष्ठ तत्र मे नास्ति संशयः वयक्तं सौक्ष्म्याच च धर्मस्य पराप्स्यामः सत्रीवधं वयम ॥ 10 ॥
ते वयं सुहृदॊ हत्वा कृत्वा पापम अनन्तकम नरके निपतिष्यामॊ हय अधःशिरस एव च ॥ 11 ॥
शरीराणि विमॊक्ष्यामस तपसॊग्रेण सत्तम आश्रमांश च विशेषांस तवं ममाचक्ष्व पितामह ॥ 12 ॥
शान्तिपर्व · Shanti Parva
अध्याय 33
Reach this point to mark the section finished.
Continue to अध्याय 34