धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 323

  1. [भीस्म] ततॊ ऽतीते महाकल्पे उत्पन्ने ऽङगिरसः सुते बभूवुर निर्वृता देवा जाते देवपुरॊहिते ॥ 1 ॥

  2. बृहद बरह्म महच चेति शब्दाः पर्याय वाचकाः एभिः समन्वितॊ राजन गुणैर विद्वान बृहस्पतिः ॥ 2 ॥

  3. तस्य शिष्यॊ बभूवाग्र्यॊ राजॊपरिचरॊ वसुः अधीतवांस तदा शास्त्रं सम्यक चित्रशिखन्दिजम ॥ 3 ॥

  4. स राजा भावितः पूर्वं दैवेन विधिना वसुः पालयाम आस पृथिवीं दिवम आखन्दलॊ यथा ॥ 4 ॥

  5. तस्य यज्ञॊ महान आसीद अश्वमेधॊ महात्मनः बृहस्पतिर उपाध्यायस तत्र हॊता बहूव ह ॥ 5 ॥

  6. परजापतिसुताश चात्र सदस्यास तव अभवंस तरयः एकतश च दवितश चैव तरितश चैव महर्षयः ॥ 6 ॥

  7. धनुषाक्षॊ ऽथ रैभ्यश च अर्वावसु परावसू ऋषिर मेधातिथिश चैव तान्द्यश चैव महान ऋषिः ॥ 7 ॥

  8. ऋषिः शक्तिर महाभागस तथा वेद शिराश च यः कपिलश च ऋषिश्रेष्ठः शालिहॊत्र पितामहः ॥ 8 ॥

  9. आद्यः कठस तैत्तिरिश च वैशम्पायन पूर्वजः कण्वॊ ऽथ देवहॊत्रश च एते षॊडश कीर्तिताः संभृताः सर्वसंभारास तस्मिन राजन महाक्रतौ ॥ 9 ॥

  10. न तत्र पशुघातॊ ऽभूत स राजैवं सथितॊ ऽभवत अहिंस्रः शुचिर अक्षुद्रॊ निराशीः कर्म संस्तुतः आरण्यक पदॊद्गीता भागास तत्रॊपकल्पिताः ॥ 10 ॥

  11. परीतस ततॊ ऽसय भगवान देवदेवः पुरातनः साक्षात तं दर्शयाम आस सॊ ऽदृश्यॊ ऽनयेन केन चित ॥ 11 ॥

  12. सवयं भागम उपाघ्राय पुरॊदाशं गृहीतवान अदृश्येन हृतॊ भागॊ देवेन हरि मेधसा ॥ 12 ॥

  13. बृहस्पतिस ततः करुद्धः सरुवम उद्यम्य वेगितः आकाशं घनन सरुवः पातै रॊषाद अश्रूण्य अवर्तयत ॥ 13 ॥

  14. उवाच चॊपरिचरं मया भागॊ ऽयम उद्यतः गराह्यः सवयं हि देवेन मत परत्यक्षं न संशयः ॥ 14 ॥

  15. उद्यता यज्ञभागा हि साक्षात पराप्ताः सुरैर इह किमर्थम इह न पराप्तॊ दर्शनं स हरिर विभुः ॥ 15 ॥

  16. ततः स तं समुद्धूतं भूमिपालॊ महान विभुः परसादयाम आस मुनिं सदस्यास ते च सर्वशः ॥ 16 ॥

  17. ऊचुश चैनम असंभ्रान्ता न रॊषं कर्तुम अर्हसि नैष धर्मः कृतयुगे यस तवं रॊषम अचीकृथाः ॥ 17 ॥

  18. अरॊषणॊ हय असौ देवॊ यस्य भागॊ ऽयम उद्यतः न स शक्यस तवया दरष्टुम अस्माभिर वा बृहस्पते यस्य परसादं कुरुते स वै तं दरष्टुम अर्हति ॥ 18 ॥

  19. [एद्त] वयं हि बरह्मणः पुत्रा मानसाः परिकीर्तिताः गता निःश्रेयसार्थं हि कदा चिद दिशम उत्तराम ॥ 19 ॥

  20. तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम एकपादस्थिताः सम्यक काष्ठ भूताः समाहिताः ॥ 20 ॥

  21. मेरॊर उत्तरभागे तु कषीरॊदस्यानुकूलतः स देशॊ यत्र नस तप्तं तपः परमदारुणम कथं पश्येमहि वयं देवं नारायणं तव इति ॥ 21 ॥

  22. ततॊ वरतस्यावभृथे वाग उवाचाशरीरिणी सुतप्तं वस तपस्विप्राः परसन्नेनान्तर आत्मना ॥ 22 ॥

  23. यूयं जिज्ञासवॊ भक्ताः कथं दरक्ष्यथ तं परभुम कषीरॊदधेर उत्तरतः शवेतद्वीपॊ महाप्रभः ॥ 23 ॥

  24. तत्र नारायण परा मानवाश चन्द्र वर्चसः एकान्तभावॊपगतास ते भक्ताः पुरुषॊत्तमम ॥ 24 ॥

  25. ते सहस्रार्चिषं देवं परविशन्ति सनातनम अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ॥ 25 ॥

  26. एकान्तिनस ते पुरुषाः शवेतद्वीपनिवासिनः गच्छध्वं तत्र मुनयस तत्रात्मा मे परकाशितः ॥ 26 ॥

  27. अथ शरुत्वा वयं सर्वे वाचं ताम अशरीरिणीम यथाख्यातेन मार्गेण तं देशं परतिपेदिरे ॥ 27 ॥

  28. पराप्य शवेतं महाद्वीपं तच चित्तास तद दिदृक्षवः ततॊ नॊ दृष्टिविषयस तदा परतिहतॊ ऽभवत ॥ 28 ॥

  29. न च पश्याम पुरुषं तत तेजॊ हृतदर्शनाः ततॊ नः परादुरभवद विज्ञानं देव यॊगजम ॥ 29 ॥

  30. न किलातप्त तपसा शक्यते दरष्टुम अञ्जसा ततः पुनर वर्षशतं तप्त्वा तात्कालिकं महत ॥ 30 ॥

  31. वरतावसाने सुशुभान नरान ददृशिरे वयम शवेतांश चन्द्रप्रतीकाशान सर्वलक्षणलक्षितान ॥ 31 ॥

  32. नित्याञ्जलि कृतान बरह्म जपतः पराग उदङ मुखान मानसॊ नाम स जपॊ जप्यते तैर महात्मभिः तेनैकाग्र मनस्त्वेन परीतॊ भवति वै हरिः ॥ 32 ॥

  33. या भवेन मुनिशार्दूलभाः सूर्यस्य युगक्षये एकैकस्य परभा तादृक साभवन मानवस्य ह ॥ 33 ॥

  34. तेजॊ निवासः स दवीप इति वै मेनिरे वयम न तत्राभ्यधिकः कश चित सर्वे ते समतेजसः ॥ 34 ॥

  35. अथ सूर्यसहस्रस्य परभां युगपद उत्थिताम सहसा दृष्टवन्तः सम पुनर एव बृहस्पते ॥ 35 ॥

  36. सहिताश चाभ्यधावन्त ततस ते मानवा दरुतम कृताञ्जलिपुता हृष्टा नम इत्य एव वादिनः ॥ 36 ॥

  37. ततॊ ऽभिवदतां तेषाम अश्रौष्म विपुलं धवनिम बलिः किलॊपह्रियते तस्य देवस्य तैर नरैः ॥ 37 ॥

  38. वयं तु तेजसा तस्य सहसाहृत चेतसः न किं चिद अपि पश्यामॊ हृतदृष्टि बलेन्द्रियाः ॥ 38 ॥

  39. एकस तु शब्दॊ ऽविरतः शरुतॊ ऽसमाभिर उदीरितः जितं ते पुन्दरीकाक्ष नमस ते विश्वभावन ॥ 39 ॥

  40. नमस ते ऽसतु हृषीकेश महापुरुष पूर्वज इति शब्दः शरुतॊ ऽसमाभिः शिक्षाक्षर समीरितः ॥ 40 ॥

  41. एतस्मिन्न अन्तरे वायुः सर्वगन्धवहः शुचिः दिव्यान्य उवाह पुष्पानि कर्मण्याश चौषधीस तथा ॥ 41 ॥

  42. तैर इष्टः पञ्च कालज्ञैर हरिर एकान्तिभिर नरैः नूनं तत्रागतॊ देवॊ यथा तैर वाग उदीरिता वयं तव एनं न पश्यामॊ मॊहितास तस्य मायया ॥ 42 ॥

  43. मारुते संनिवृत्ते च बलौ च परतिपादिते चिन्ता वयाकुलितात्मानॊ जाताः समॊ ऽङगिरसां वर ॥ 43 ॥

  44. मानवानां सहस्रेषु तेषु वै शुद्धयॊनिषु अस्मान न कश चिन मनसा चक्षुषा वाप्य अपूजयत ॥ 44 ॥

  45. ते ऽपि सवस्था मुनिगणा एकभावम अनुव्रताः नास्मासु दधिरे भावं बरह्म भावम अनुष्ठिताः ॥ 45 ॥

  46. ततॊ ऽसमान सुपरिश्रान्तांस तपसा चापि कर्शितान उवाच सवस्थं किम अपि भूतं तत्राशरीरकम ॥ 46 ॥

  47. दृष्टा वः पुरुषाः शवेताः सर्वेन्द्रियविवर्जिताः दृष्टॊ भवति देवेश एभिर दृष्टैर दविजॊत्तमाः ॥ 47 ॥

  48. गच्छध्वं मुनयः सर्वे यथागतम इतॊ ऽचिरात न स शक्यॊ अभक्तेन दरष्टुं देवः कथं चन ॥ 48 ॥

  49. कामं कालेन महता एकान्तित्वं समागतैः शक्यॊ दरष्टुं स भगवान परभा मन्दल दुर्दृशः ॥ 49 ॥

  50. महत कार्यं तु कर्तव्यं युष्माभिर दविजसत्तमाः इतः कृतयुगे ऽतीते विपर्यासं गते ऽपि च ॥ 50 ॥

  51. वैवस्वते ऽनतरे विप्राः पराप्ते तरेतायुगे ततः सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ॥ 51 ॥

  52. ततस तद अद्भुतं वाक्यं निशम्यैवं सम सॊमप तस्य परसादात पराप्ताः समॊ देशम ईप्सितम अञ्जसा ॥ 52 ॥

  53. एवं सुतपसा चैव हव्यकव्यैस तथैव च देवॊ ऽसमाभिर न दृष्टः स कथं तवं दरष्टुम अर्हसि नारायणॊ महद भूतं विश्वसृग घव्यकव्य भुक ॥ 53 ॥

  54. [भीस्म] एवम एकत वाक्येन दवित तरित मतेन च अनुनीतः सदस्यैश च बृहस्पतिर उदारधीः समानीय ततॊ यज्ञं दैवतं समपूजयत ॥ 54 ॥

  55. समाप्तयज्ञॊ राजापि परजाः पालितवान वसुः बरह्मशापाद दिवॊ भरष्टः परविवेश महीं ततः ॥ 55 ॥

  56. अन्तर भूमिगतश चैव सततं धर्मवत्सलः नारायण परॊ भूत्वा नारायण पदं जगौ ॥ 56 ॥

  57. तस्यैव च परसादेन पुनर एवॊत्थितस तु सः महीतलाद गतः सथानं बरह्मणः समनन्तरम परां गतिम अनुप्राप्त इति नैष्ठिकम अञ्जसा ॥ 57 ॥

Reach this point to mark the section finished.

Continue to अध्याय 324

Previous: अध्याय 322