[भीस्म] स एवम उक्तॊ दविपदां वरिष्ठॊ; नारायणेनॊत्तम पूरुषेन जगाद वाक्यं दविपदां वरिष्ठं; नारायणं लॊकहिताधिवासम ॥ 1 ॥
यदर्थम आत्मप्रभवेह जन्म; तवॊत्तमं धर्मगृहे चतुर्धा तत साध्यतां लॊकहितार्थम अद्य; गच्छामि दरष्टुं परकृतिं तवाद्याम ॥ 2 ॥
वेदाः सवधीता मम लॊकनाथ; तप्तं तपॊ नानृतम उक्तपूर्वम पूजां गुरूणां सततं करॊमि; परस्य गुह्यं न च भिन्नपूर्वम ॥ 3 ॥
गुप्तानि चत्वारि यथागमं मे; शत्रौ च मित्रे च समॊ ऽसमि नित्यम तं चादि देवं सततं परपन्न; एकान्तभावेन वृणॊम्य अजस्रम एभिर विशेषैः परिशुद्धसत्त्वः; कस्मान न पश्येयम अनन्तम ईशम ॥ 4 ॥
तत पारमेष्ठ्यस्य वचॊ निशम्य; नारायणः सात्वत धर्मगॊप्ता गच्छेति तं नारदम उक्तवान स; संपूजयित्वात्म विधिक्रियाभिः ॥ 5 ॥
ततॊ विसृष्टः परमेष्ठिपुत्रः; सॊ ऽभयर्चयित्वा तम ऋषिं पुराणम खम उत्पपातॊत्तम वेगयुक्तस; ततॊ ऽधि मेरौ सहसा निलिल्ये ॥ 6 ॥
तत्रावतस्थे च मुनिर मुहूर्तम; एकान्तम आसाद्य गिरेः स शृङ्गे आलॊकयन उत्तरपश्चिमेन; ददर्श चात्य अद्भुतरूपयुक्तम ॥ 7 ॥
कषीरॊदधेर उत्तरतॊ हि दवीपः; शवेतः स नाम्ना परथितॊ विशालः मेरॊः सहस्रैः स हि यॊजनानां; दवात्रिंशतॊर्ध्वं कविभिर निरुक्तः ॥ 8 ॥
अतीन्द्रियाश चानशनाश च तत्र; निष्पन्द हीनाः सुसुगन्धिनश च शवेताः पुमांसॊ गतसर्वपापाश; चक्षुर मुषः पापकृतां नराणाम ॥ 9 ॥
वज्रास्थि कायाः सममानॊन्माना; दिव्यान्वय रूपाः शुभसारॊपेताः छत्त्राकृति शीर्षा मेघौघनिनादाः; सत पुष्कर चतुष्का राजीवशतपादाः ॥ 10 ॥
सस्त्या दन्तैर युक्ताः शुक्लैर अस्ताभिर दंस्त्राभिर ये जिह्वाभिर ये विष्वग वक्त्रं लेलिह्यन्ते सूर्यप्रख्यम ॥ 11 ॥
भक्त्या देवं विश्वॊत्पन्नं; यस्मात सर्वे लॊकाः सूताः वेदा धर्मा मुनयः शान्ता; देवाः सर्वे तस्य विसर्गाः ॥ 12 ॥
[य] अतीन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः कथं ते पुरुषा जाताः का तेषां गतिर उत्तमा ॥ 13 ॥
ये विमुक्ता भवन्तीह नरा भरतसत्तम तेषां लक्षणम एतद धि यच छवेतद्वीपवासिनाम ॥ 14 ॥
तस्मान मे संशयं छिन्धि परं कौतूहलं हि मे तवं हि सर्वकथारामस तवां चैवॊपश्रिता वयम ॥ 15 ॥
[भीस्म] विस्तीर्णैषा कथा राजञ शरुता मे पितृसंनिधौ सैषा तव हि वक्तव्या कथा सारॊ हि स समृतः ॥ 16 ॥
राजॊपरिचरॊ नाम बभूवाधिपतिर भुवः आखन्दल सखः खयातॊ भक्तॊ नारायणं हरिम ॥ 17 ॥
धार्मिकॊ नित्यभक्तश च पितॄन नित्यम अतन्द्रितः साम्राज्यं तेन संप्राप्तं नारायण वरात पुरा ॥ 18 ॥
सात्वतं विधिम आस्थाय पराक सूर्यमुख निःसृतम पूजयाम आस देवेशं तच छेषेण पितामहान ॥ 19 ॥
पितृशेषेण विप्रांश च संविभज्याश्रितांश च सः शेषान्न भुक सत्यपरः सर्वभूतेष्व अहिंसकः सर्वभावेन भक्तः स देवदेवं जनार्दनम ॥ 20 ॥
तस्य नारायणे भक्तिं वहतॊ ऽमित्रकर्शन एकशय्यासनं शक्रॊ दत्तवान देवरात सवयम ॥ 21 ॥
आत्मा राज्यं धनं चैव कलत्रं वाहनानि च एतद भगवते सर्वम इति तत परेक्षितं सदा ॥ 22 ॥
काम्यनैमित्तिकाजस्रं यज्ञियाः परमक्रियाः सर्वाः सात्वतम आस्थाय विधिं चक्रे समाहितः ॥ 23 ॥
पञ्चरात्र विदॊ मुख्यास तस्य गेहे महात्मनः परायनं भगवत परॊक्तं भुञ्जते चाग्र भॊजनम ॥ 24 ॥
तस्य परशासतॊ राज्यं धर्मेणामित्र घातिनः नानृता वाक समभवन मनॊ दुष्टं न चाभवत न च कायेन कृतवान स पापं परम अन्व अपि ॥ 25 ॥
ये हि ते मुनयॊ खयाताः सप्त चित्रशिखन्दिनः तैर एकमतिभिर भूत्वा यत परॊक्तं शास्त्रम उत्तमम ॥ 26 ॥
मरीचिर अत्र्यङ्गिरसौ पुलस्त्यः पुलहः करतुः वसिष्ठश च महातेजा एते चित्रशिखन्दिनः ॥ 27 ॥
सप्त परकृतयॊ हय एतास तथा सवायम्भुवॊ ऽसतमः एताभिर धार्यते लॊकस ताभ्यः शास्त्रं विनिःसृतम ॥ 28 ॥
एकाग्रमनसॊ दान्ता मुनयः संयमे रताः इदं शरेय इदं बरह्म इदं हितम अनुत्तमम लॊकान संचिन्त्य मनसा ततः शास्त्रं परचक्रिरे ॥ 29 ॥
तत्र धर्मार्थकामा हि मॊक्षः पश्चाच च कीर्तितः मर्यादा विविधाश चैव दिवि भूमौ च संस्थिताः ॥ 30 ॥
आराध्य तपसा देवं हरिं नारायणं परभुम दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह ॥ 31 ॥
नारायणानुशास्ता हि तदा देवी सरस्वती विवेश तान ऋषीन सर्वाँल लॊकानां हितकाम्यया ॥ 32 ॥
ततः परवर्तिता सम्यक तपस्विद्भिर दविजातिभिः शब्दे चार्थे च हेतौ च एषा परथमसर्गजा ॥ 33 ॥
आदाव एव हि तच छास्त्रम ओंकार सवरभूषितम ऋषिभिर भावितं तत्र यत्र कारुणिकॊ हय असौ ॥ 34 ॥
ततः परसन्नॊ भगवान अनिर्दिष्ट शरीरगः ऋषीन उवाच तान सर्वान अदृश्यः पुरुषॊत्तमः ॥ 35 ॥
कृतं शतसहस्रं हि शलॊकानाम इदम उत्तमम लॊकतन्त्रस्य कृत्स्नस्य यस्माद धर्मः परवर्तते ॥ 36 ॥
परवृत्तौ च निवृत्तौ च यॊनिर एतद भविष्यति ऋग यजुः सामभिर जुष्टम अथर्वाङ्गिरसैस तथा ॥ 37 ॥
तथा परमाणं हि मया कृतॊ बरह्मा परसादजः रुद्रश च करॊधजॊ विप्रा यूयं परकृतयस तथा ॥ 38 ॥
सूर्या चन्द्रमसौ वायुर भूमिर आपॊ ऽगनिर एव च सर्वे च नक्षत्रगणा यच च भूताभिशब्दितम ॥ 39 ॥
अधिकारेषु वर्तन्ते यथा सवं बरह्मवादिनः सर्वे परमाणं हि यथातथैतच छास्त्रम उत्तमम ॥ 40 ॥
भविष्यति परमाणं वय एतन मद अनुशासनम अस्मात परवक्ष्यते धर्मान मनुः सवायम्भुवः सवयम ॥ 41 ॥
उशना बृहस्पतिश चैव यदॊत्पन्नौ भविष्यतः तदा परवक्ष्यतः शास्त्रं युष्मन मतिभिर उद्धृतम ॥ 42 ॥
सवायम्भुवेषु धर्मेषु शास्त्रे चॊशनसा कृते बृहस्पतिमते चैव लॊकेषु परविचारिते ॥ 43 ॥
युष्मत कृतम इदं शास्त्रं परजा पालॊ वसुस ततः बृहस्पतिसकाशाद वै पराप्स्यते दविजसत्तमाः ॥ 44 ॥
स हि मद्भावितॊ राजा मद्भक्तश च भविष्यति तेन शास्त्रेण लॊकेषु करिया सर्वा करिष्यति ॥ 45 ॥
एतद धि सर्वशास्त्राणां शास्त्रम उत्तमसंज्ञितम एतदर्थ्यं च धर्म्यं च यशस्यं चैतद उत्तमम ॥ 46 ॥
अस्य परवर्तनाच चैव परजावन्तॊ भविष्यथ स च राजा शरिया युक्तॊ भविष्यति महान वसुः ॥ 47 ॥
संस्थिते च नृपे तस्मिञ शास्त्रम एतत सनातनम अन्तर धास्यति तत सत्यम एतद वः कथितं मया ॥ 48 ॥
एतावद उक्त्वा वचनम अदृश्यः पुरुषॊत्तमः विसृज्य तान ऋषीन सर्वान काम अपि परस्थितॊ दिशम ॥ 49 ॥
ततस ते लॊकपितरः सर्वलॊकार्थ चिन्तकाः परावर्तयन्त तच छास्त्रं धर्मयॊनिं सनातनम ॥ 50 ॥
उत्पन्ने ऽङगिरसे चैव युगे परथमकल्पिते साङ्गॊपनिषदं शास्त्रं सथापयित्वा बृहस्पतौ ॥ 51 ॥
जग्मुर यथेप्सितं देशं तपसे कृतनिश्चयाः धारणात सर्वलॊकानां सर्वधर्मप्रवर्तकाः ॥ 52 ॥
शान्तिपर्व · Shanti Parva
अध्याय 322
Reach this point to mark the section finished.
Continue to अध्याय 323