[युधिस्थिर] यदा भक्तॊ भगवत आसीद राजा महावसुः किमर्थं स परिभ्रष्टॊ विवेश विवरं भुवः ॥ 1 ॥
[भीस्म] अत्राप्य उदहरन्तीमम इतिहासं पुरातनम ऋषीणां चैव संवादं तरिदशानां च भारत ॥ 2 ॥
अजेन यस्तव्यम इति देवाः पराहुर दविजॊत्तमान स चच छागॊ हय अजॊ जञेयॊ नान्यः पशुर इति सथितिः ॥ 3 ॥
[रसयह] बीजैर यज्ञेषु यस्तव्यम इति वै वैदिकी शरुतिः अज संज्ञानि बीजानि छागं न घनन्तुम अर्हथ ॥ 4 ॥
नैव धर्मः सतां देवा यत्र वध्येत वै पशुः इदं कृतयुगं शरेष्ठं कथं वध्येत वै पशुः ॥ 5 ॥
[भीस्म] तेषां संवदताम एवम ऋषीणां विबुधैः सह मार्गागतॊ नृपश्रेष्ठस तं देशं पराप्तवान वसुः अन्तरिक्षचरः शरीमान समग्रबलवाहनः ॥ 6 ॥
तं दृष्ट्वा सहसायान्तं वसुं ते तव अन्तरिक्षगम ऊचुर दविजातयॊ देवान एष छेत्स्यति संशयम ॥ 7 ॥
यज्वा दानपतिः शरेष्ठः सर्वभूतहितप्रियः कथं सविद अन्यथा बरूयाद वाक्यम एष महान वसुः ॥ 8 ॥
एवं ते संविदं कृत्वा विबुधा ऋषयस तथा अपृच्छन सहसाभ्येत्य वसुं राजानम अन्तिकात ॥ 9 ॥
भॊ राजन केन यस्तव्यम अजेनाहॊ सविदौषधैः एतन नः संशयं छिन्धि परमाणं नॊ भवान मतः ॥ 10 ॥
स तान कृताञ्जलिर भूत्वा परिपप्रच्छ वै वसुः कस्य वः कॊ मतः पक्षॊ बरूत सत्यं समागताः ॥ 11 ॥
[रसयह] धान्यैर यस्तव्यम इत्य एष पक्षॊ ऽसमाकं नराधिप देवानां तु पशुः पक्षॊ मतॊ राजन वदस्व नः ॥ 12 ॥
[भीस्म] देवानां तु मतं जञात्वा वसुना पक्षसंश्रयात छागेनाजेन यस्तव्यम एवम उक्तं वचस तदा ॥ 13 ॥
कुपितास ते ततः सर्वे मुनयः सूर्यवर्चसः ऊचुर वसुं विमानस्थं देव पक्षार्थ वादिनम ॥ 14 ॥
सुरपक्षॊ गृहीतस ते यस्मात तस्माद दिवः पत अद्य परभृति ते राजन आकाशे विहता गतिः अस्मच छापाभिघातेन महीं भित्त्वा परविक्ष्यसि ॥ 15 ॥
ततस तस्मिन मुहूर्ते ऽथ राजॊपरिचरस तदा अधॊ वै संबभूवाशु भूमेर विवर गॊनृपः समृतिस तव एनं न परजहौ तदा नारायणाज्ञया ॥ 16 ॥
देवास तु सहिताः सर्वे वसॊः शापविमॊक्षणम चिन्तयाम आसुर अव्यग्राः सुकृतं हि नृपस्य तत ॥ 17 ॥
अनेनास्मत कृते राज्ञा शापः पराप्तॊ महात्मना अस्य परति परियं कार्यं सहितैर नॊ दिवौकसः ॥ 18 ॥
इति बुद्ध्य्या वयवस्याशु गत्वा निश्चयम ईश्वराः ऊचुस तं हृष्टमनसॊ राजॊपरिचरं तदा ॥ 19 ॥
बरह्मण्य देवं तवं भक्तः सुरासुरगुरुं हरिम कामं स तव तुष्टात्मा कुर्याच छापविमॊक्षणम ॥ 20 ॥
मानना तु दविजातीनां कर्तव्या वै महात्मनाम अवश्यं तपसा तेषां फलितव्यं नृपॊत्तम ॥ 21 ॥
यतस तवं सहसा भरष्ट आकाशान मेदिनी तलम एकं तव अनुग्रहं तुभ्यं दद्मॊ वै नृपसत्तम ॥ 22 ॥
यावत तवं शापदॊषेण कालम आसिष्यसे ऽनघ भूमेर विवर गॊभूत्वा तावन्तं कालम आप्स्यसि यज्ञेषु सुहुतां विप्रैर वसॊर धारां महात्मभिः ॥ 23 ॥
पराप्स्यसे ऽसमद अनुध्यानान मा च तवां गलानिर आस्पृशेत न कषुत्पिपासे राजेन्द्र भूमेश छिद्रे भविष्यतः ॥ 24 ॥
वसॊर धारानुपीतत्वात तेजसाप्यायितेन च स देवॊ ऽसमद वरात परीतॊ बरह्मलॊकं हि नेष्यति ॥ 25 ॥
एवं दत्त्वा वरं राज्ञे सर्वे तत्र दिवौकसः गताः सवभवनं देवा ऋषयश च तपॊधनाः ॥ 26 ॥
चक्रे च सततं पूजां विष्वक्सेनाय भारत जप्यं जगौ च सततं नारायण मुखॊद्गतम ॥ 27 ॥
तत्रापि पञ्चभिर यज्ञैः पञ्च कालान अरिंदम अयजद धरिं सुरपतिं भूमेर विवरगॊ ऽपि सन ॥ 28 ॥
ततॊ ऽसय तुष्टॊ भगवान भक्त्या नारायणॊ हरिः अनन्यभक्तस्य सतस तत्परस्य जितात्मनः ॥ 29 ॥
वरदॊ भगवान विष्णुः समीपस्थं दविजॊत्तमम गरुत्मन्तं महावेगम आबभासे समयन्न इव ॥ 30 ॥
दविजॊत्तम महाभाग गम्यतां वचनान मम संराद राजा वसुर नाम धर्मात्मा मां समाश्रितः ॥ 31 ॥
बराह्मणानां परकॊपेन परविष्टॊ वसुधातलम मानितास ते तु विप्रेन्द्रास तवं तु गच्छ दविजॊत्तम ॥ 32 ॥
भूमेर विवर संगुप्तं गरुदेह ममाज्ञया अधश चरं नृपश्रेष्ठं खेचरं कुरु माचिरम ॥ 33 ॥
गरुत्मान अथ विक्षिप्य पक्षौ मारुतवेगवान विवेश विवरं भूमेर यत्रास्ते वाग्यतॊ वसुः ॥ 34 ॥
तत एनं समुत्क्षिप्य सहसा विनतासुतः उत्पपात नभस तूर्णं तत्र चैनम अमुञ्चत ॥ 35 ॥
तस्मिन मुहूर्ते संजज्ञे राजॊपरिचरः पुनः सशरीरॊ गतश चैव बरह्मलॊकं नृपॊत्तमः ॥ 36 ॥
एवं तेनापि कौन्तेय वाग दॊषाद देवताज्ञया पराप्ता गतिर अयज्वार्हा दविज शापान महात्मना ॥ 37 ॥
केवलं पुरुषस तेन सेवितॊ हरिर ईश्वरः ततः शीघ्रं जहौ शापं बरह्मलॊकम अवाप च ॥ 38 ॥
एतत ते सर्वम आख्यातं ते भूता मानवा यथा नारदॊ ऽपि यथा शवेतं दवीपं स गतवान ऋषिः तत ते सर्वं परवक्ष्यामि शृणुष्वैक मना नृप ॥ 39 ॥
शान्तिपर्व · Shanti Parva
अध्याय 324
Reach this point to mark the section finished.
Continue to अध्याय 325