[य] गृहस्थॊ बरह्मचारी वा वानप्रस्थॊ ऽथ भिक्षुकः य इच्छेत सिद्धिम आस्थातुं देवतां कां यजेत सः ॥ 1 ॥
कुतॊ हय अस्य धरुवः सवर्गः कुतॊ निःश्रेयसं परम विधिना केन जुहुयाद दैवं पित्र्यं तथैव च ॥ 2 ॥
मुक्तश च कां गतिं गच्छेन मॊक्षश चैव किम आत्मकः सवर्गतश चैव किं कुर्याद येन न चयवते दिवः ॥ 3 ॥
देवतानां च कॊ देवः पितॄणां च तथा पिता तस्मात परतरं यच च तन मे बरूहि पितामह ॥ 4 ॥
[भीस्म] गूढं मां परश्नवित परश्नं पृच्छसे तवम इहानघ न हय एष तर्कया शक्यॊ वक्तुं वर्षशतैर अपि ॥ 5 ॥
ऋते देवप्रसादाद वा राजञ जञानागमेन वा गहनं हय एतद आख्यानं वयाख्यातव्यं तवारि हन ॥ 6 ॥
अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम नारदस्य च संवादम ऋषेर नारायणस्य च ॥ 7 ॥
नारायणॊ हि विश्वात्मा चतुर्मूर्तिः सनातनः धर्मात्मजः संबभूव पितैवं मे ऽभयभासत ॥ 8 ॥
कृते युगे महाराज पुरा सवायम्भुवे ऽनतरे नरॊ नारायणश चैव हरिः कृष्णस तथैव च ॥ 9 ॥
तेभ्यॊ नारायण नरौ तपस तेपतुर अव्ययौ बदर्य आश्रमम आसाद्य शकते कनका मये ॥ 10 ॥
अस्तचक्रं हि तद यानं भूतयुक्तं मनॊरमम तत्राद्यौ लॊकनाथौ तौ कृशौ धमनि संततौ ॥ 11 ॥
तपसा तेजसा चैव दुर्निरीक्षौ सुरैर अपि यस्य परसादं कुर्वाते स देवौ दरष्टुम अर्हति ॥ 12 ॥
नूनं तयॊर अनुमते हृदि हृच्छय चॊदितः महामेरॊर गिरेः शृङ्गात परच्युतॊ गन्धमादनम ॥ 13 ॥
नारदः सुमहद भूतं लॊकान सर्वान अचीचरत तं देशम अगमद राजन बदर्य आश्रमम आशुगः ॥ 14 ॥
तयॊर आह्निक वेलायां तस्य कौतूहलं तव अभूत इदं तद आस्पदं कृत्स्नं यस्मिँल लॊकाः परतिष्ठिताः ॥ 15 ॥
सद एवासुरगन्धर्वाः सर्षिकिंनर लेलिहाः एका मूर्तिर इयं पूर्वं जाता भूयश चतुर्विधा ॥ 16 ॥
धर्मस्य कुलसंतानॊ महान एभिर विवर्धितः अहॊ हय अनुग्रहीतॊ ऽदय धर्म एभिः सुरैर इह नरनारायणाभ्यां च कृष्णेन हरिणा तथा ॥ 17 ॥
तत्र कृष्णॊ हरिश चैव कस्मिंश चित कारणान्तरे सथितौ धर्मॊत्तरौ हय एतौ तथा तपसि धिष्ठितौ ॥ 18 ॥
एतौ हि परमं धाम कानयॊर आह्निक करिया पितरौ सर्वभूतानां दैवतं च यशस्विनौ कां देवतां तु यजतः पितॄन वा कान महामती ॥ 19 ॥
इति संचिन्त्य मनसा भक्त्या नारायणस्य ह सहसा परादुरभवत समीपे देवयॊस तदा ॥ 20 ॥
कृते दैवे च पित्र्ये च ततस ताभ्यां निरीक्षितः पूजितश चैव विधिना यथा परॊक्तेन शास्त्रतः ॥ 21 ॥
तं दृष्ट्वा महद आश्चर्यम अपूर्वं विधिविस्तरम उपॊपविष्टः सुप्रीतॊ नारदॊ भवगान ऋषिः ॥ 22 ॥
नारायणं संनिरीक्ष्य परसन्नेनान्तर आत्मना नमस्कृत्वा महादेवम इदं वचनम अब्रवीत ॥ 23 ॥
वेदेषु सपुराणेषु साङ्गॊपाङ्गेषु गीयसे तवम अजः शाश्वतॊ धाता मतॊ ऽमृतम अनुत्तमम परतिष्ठितं भूतभव्यं तवयि सर्वम इदं जगत ॥ 24 ॥
चत्वारॊ हय आश्रमा देव सर्वे गार्हस्थ्य मूलकाः यजन्ते तवाम अहर अहर नाना मूर्ति समास्थितम ॥ 25 ॥
पिता माता च सर्वस्य जगतः शाश्वतॊ गुरुः कं तव अद्य यजसे देवं पितरं कं न विद्महे ॥ 26 ॥
[भगवान] अवाच्यम एतद वक्तव्यम आत्मगुह्यं सनातनम तव भक्तिमतॊ बरह्मन वक्ष्यामि तु यथातथम ॥ 27 ॥
यत तत सूक्ष्मम अविज्ञेयम अव्यक्तम अचलं धरुवम इन्द्रियैर इन्द्रियार्थैश च सर्वभूतैश च वर्जितम ॥ 28 ॥
स हय अन्तरात्मा भूतानां कषेत्रज्ञश चेति कथ्यते तरिगुण वयतिरिक्तॊ ऽसौ पुरुषश चेति कल्पितः तस्माद अव्यक्तम उत्पन्नं तरिगुणं दविजसत्तम ॥ 29 ॥
अव्यक्ता वयक्तभावस्था या सा परकृतिर अव्यया तां यॊनिम आवयॊर विद्धि यॊ ऽसौ सदसद आत्मकः आवाभ्यां पूज्यते ऽसौ हि दैवे पित्र्ये च कल्पिते ॥ 30 ॥
नास्ति तस्मात परॊ ऽनयॊ हि पिता देवॊ ऽथ वा दविजः आत्मा हि नौ स विज्ञेयस ततस तं पूजयावहे ॥ 31 ॥
तेनैषा परथिता बरह्मन मर्यादा लॊकभाविनी दैवं पित्र्यं च कर्तव्यम इति तस्यानुशासनम ॥ 32 ॥
बरह्मा सथानुर मनुर दक्षॊ भृगुर धर्मस तपॊ दमः मरीचिर अङ्गिरात्रिश च पुलस्त्यः पुलहः करतुः ॥ 33 ॥
वसिष्ठः परमेष्ठी च विवस्वान सॊम एव च कर्दमश चापि यः परॊक्तः करॊधॊ विक्रीत एव च ॥ 34 ॥
एकविंशतिर उत्पन्नास ते परजापतयः समृताः तस्य देवस्य मर्यादां पूजयन्ति सनातनीम ॥ 35 ॥
दैवं पित्र्यं च सततं तस्य विज्ञाय तत्त्वतः आत्मप्राप्तानि च ततॊ जानन्ति दविजसत्तमाः ॥ 36 ॥
सवर्गस्था अपि ये के चित तं नमस्यन्ति देहिनः ते तत्प्रसादाद गच्छन्ति तेनादिष्ट फलां गतिम ॥ 37 ॥
ये हीनाः सप्त दशभिर गुणैः कर्मभिर एव च कलाः पञ्चदश तयक्त्वा ते मुक्ता इति निश्चयः ॥ 38 ॥
मुक्तानां तु गतिर बरह्मन कषेत्रज्ञ इति कल्पितः स हि सर्वगतश चैव निर्गुणश चैव कथ्यते ॥ 39 ॥
दृश्यते जञानयॊगेन आवां च परसृतौ ततः एवं जञात्वा तम आत्मानं पूजयावः सनातनम ॥ 40 ॥
तं वेदाश चाश्रमाश चैव नाना तनु समास्थिताः भक्त्या संपूजयन्त्य आद्यं गतिं चैषां ददाति सः ॥ 41 ॥
ये तु तद्भाविता लॊके एकान्तित्वं समास्थिताः एतद अभ्यधिकं तेषां यत ते तं परविशन्त्य उत ॥ 42 ॥
इति गुह्य समुद्देशस तव नारद कीर्तितः भक्त्या परेम्ना च विप्रर्षे अस्मद भक्त्या च ते शरुतः ॥ 43 ॥
शान्तिपर्व · Shanti Parva
अध्याय 321
Reach this point to mark the section finished.
Continue to अध्याय 322