धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 320

  1. [भी] इत्य एवम उक्त्वा वचनं बरह्मर्षिः सुमहातपः परातिष्ठत शुकः सिद्धिं हित्वा लॊकांश चतुर्विधान ॥ 1 ॥

  2. तमॊ हय अस्तविधं हित्वा जहौ पञ्च विधं रजः ततः सत्त्वं जहौ धीमांस तद अद्भुतम इवाभवत ॥ 2 ॥

  3. ततस तस्मिन पदे नित्ये निर्गुणे लिङ्गवर्जिते बरह्मणि परत्यतिष्ठत स विधूमॊ ऽगनिर इव जवलन ॥ 3 ॥

  4. उल्का पाता दिशां दाहा भूमिकम्पास तथैव च परादुर्भूताः कषणे तस्मिंस तद अद्भुतम इवाभवत ॥ 4 ॥

  5. दरुमाः शाखाश च मुमुचुः शिखराणि च पर्वताः निर्घातशब्दैश च गिरिर हिमवान दीर्यतीव ह ॥ 5 ॥

  6. न बभासे सहस्रांशुर न जज्वाल च पावकः हरदाश च सरितश चैव चुक्षुभुः सागरास तथा ॥ 6 ॥

  7. ववर्ष वासवस तॊयं रसवच च सुगन्धि च ववौ समीरणश चापि दिव्यगन्धवहः शुचिः ॥ 7 ॥

  8. स शृङ्गे ऽपरतिमे दिव्ये हिमवन मेरुसंभवे संश्लिष्टे शवेतपीते दवे रुक्त रूप्यमये शुभे ॥ 8 ॥

  9. शतयॊजनविस्तारे तिर्यग ऊर्ध्वं च भारत उदीचीं दिशम आश्रित्य रुचिरे संददर्श ह ॥ 9 ॥

  10. सॊ ऽविशङ्केन मनसा तथैवाभ्यपतच छुकः ततः पर्वतशृङ्गे दवे सहसैव दविधाकृते अदृश्येतां महाराज तद अद्भुतम इवाभवत ॥ 10 ॥

  11. ततः पर्वतशृङ्गाभ्यां सहसैव विनिःसृतः न च परतिजघानास्य स गतिं पर्वतॊत्तमः ॥ 11 ॥

  12. ततॊ महान अभूच छब्दॊ दिवि सर्वदिवौकसाम गन्धर्वाणाम ऋषीणां च ये च शैलनिवासिनः ॥ 12 ॥

  13. दृष्ट्वा शुकम अतिक्रान्तं पर्वतं च दविधाकृतम साधु साध्व इति तत्रासीन नादः सर्वत्र भारत ॥ 13 ॥

  14. स पूज्यमानॊ देवैश च गन्धर्वैर ऋषिभिस तथा यक्षराक्षस संघैश च विद्याधरगणैस तथा ॥ 14 ॥

  15. दिव्यैः पुष्पैः समाकीर्णम अन्तरिक्षं समन्ततः आसीत किल महाराज शुकाभिपतने तदा ॥ 15 ॥

  16. ततॊ मन्दाकिनीं रम्याम उपरिष्टाद अभिव्रजन शुकॊ ददर्श धर्मात्मा पुष्पित दरुमकाननाम ॥ 16 ॥

  17. तस्यां करीदन्त्य अभिरताः सनान्ति चैवाप्सरॊ गणाः शून्याकारं निराकाराः शुकं दृष्ट्वा विवाससः ॥ 17 ॥

  18. तं परक्रमन्तम आज्ञाय पिता सनेहसमन्वितः उत्तमां गतिम आस्थाय पृष्ठतॊ ऽनुससार ह ॥ 18 ॥

  19. शुकस तु मारुताद ऊर्ध्वं गतिं कृत्वान्तरिक्षगाम दर्शयित्वा परभावं सवं सर्वभूतॊ ऽभवत तदा ॥ 19 ॥

  20. महायॊगगतिं तव अग्र्यां वयासॊत्थाय महातपः निमेषान्तरमात्रेण शुकाभिपतनं ययौ ॥ 20 ॥

  21. स ददर्श दविधाकृत्वा पर्वताग्रं शुकं गतम शशंसुर ऋषयस तस्मै कर्म पुत्रस्य तत तदा ॥ 21 ॥

  22. ततः शुकेति दीर्घेण शैक्षेणाक्रन्दितस तदा सवयं पित्रा सवरेणॊच्चैस तरीँल लॊकान अनुनाद्य वै ॥ 22 ॥

  23. शुकः सर्वगतॊ भूत्वा सर्वात्मा सर्वतॊ मुखः परत्यभासत धर्मात्मा भॊः शब्देनानुनादयन ॥ 23 ॥

  24. तत एकाक्षरं नादं भॊ इत्य एव समीरयन परत्याहरञ जगत सर्वम उच्चैः सथावरजङ्गमम ॥ 24 ॥

  25. ततः परभृति चाद्यापि शब्दान उच्चारितान पृथक गिरिगह्वर पृष्ठेषु वयाजहार शुकं परति ॥ 25 ॥

  26. अन्तर्हितः परभावं तु दर्शयित्वा शुकस तदा गुणान संत्यज्य शब्दादीन पदम अध्यगमत परम ॥ 26 ॥

  27. महिमानं तु तं दृष्ट्वा पुत्रस्यामित तेजसः निषसाद गिरिप्रस्थे पुत्रम एवानुचिन्तयन ॥ 27 ॥

  28. ततॊ मन्दाकिनी तीरे करीदन्तॊ ऽपसरसां गणाः आसाद्य तम ऋषिं सर्वाः संभ्रान्ता गतचेतसः ॥ 28 ॥

  29. जले निलिल्यिरे काश चित काश चिद गुल्मान परपेदिरे वसनान्य आददुः काश चिद दृष्ट्वा तं मुनिसत्तमम ॥ 29 ॥

  30. तां मुक्ततां तु विज्ञाय मुनिः पुत्रस्य वै तदा सक्तताम आत्मनश चैव परीतॊ ऽभूद वरीदितश च ह ॥ 30 ॥

  31. तं देवगन्धर्ववृतॊ महर्षिगणपूजितः पिनाक हस्तॊ भवगान अभ्यागच्छत शंकरः ॥ 31 ॥

  32. तम उवाच महादेवः सान्त्वपूर्वम इदं वचः पुत्रशॊकाभिसंतप्तं कृष्णद्वैपायनं तदा ॥ 32 ॥

  33. अग्नेर भूमेर अपां वायॊर अन्तरिक्षस्य चैव ह वीर्येण सदृशः पुत्रस तवया मत्तः पुरा वृतः ॥ 33 ॥

  34. स तथा लक्षणॊ जातस तपसा तव संभृतः मम चैव परभावेन बरह्मतेजॊमयः शुचिः ॥ 34 ॥

  35. स गतिं परमां पराप्तॊ दुष्प्रापाम अजितेन्द्रियैः दैवतैर अपि विप्रर्षे तं तवं किम अनुशॊचसि ॥ 35 ॥

  36. यावत सथास्यन्ति गिरयॊ यावत सथास्यन्ति सागराः तावत तवाक्षया कीर्तिः सपुत्रस्य भविष्यति ॥ 36 ॥

  37. छायां सवपुत्र सदृशीं सर्वतॊ ऽनपगां सदा दरक्ष्यसे तवं च लॊके ऽसमिन मत्प्रसादान महामुने ॥ 37 ॥

  38. सॊ ऽनुनीतॊ भगवता सवयं रुद्रेण भारत छाया पश्यन समावृत्तः स मुनिः परया मुदा ॥ 38 ॥

  39. इति जन्म गतिश चैव शुकस्य भरतर्षभ विस्तरेण मयाख्यातं यन मां तवं परिपृच्छसि ॥ 39 ॥

  40. एतद आचस्त मे राजन देवर्षिर नारदः पुरा वयासश चैव महायॊगी संजल्पेषु पदे पदे ॥ 40 ॥

  41. इतिहासम इमं पुण्यं मॊक्षधर्मार्थसंहितम धारयेद यः शम परः स गच्छेत परमां गतिम ॥ 41 ॥

Reach this point to mark the section finished.

Continue to अध्याय 321

Previous: अध्याय 319