[भी] गिरिपृष्ठं समारुह्य सुतॊ वयासस्य भारत समे देशे विविक्ते च निःशलाक उपाविशत ॥ 1 ॥
धारयाम आस चात्मानं यथाशास्त्रं महामुनिः पादात परभृति गात्रेषु करमेण करमयॊगवित ॥ 2 ॥
ततः स पराङ्मुखॊ विद्वान आदित्ये नचिरॊदिते पानि पादं समाधाय विनीतवद उपाविशत ॥ 3 ॥
न तत्र पक्षिसंघातॊ न शब्दॊ नापि दर्शनम यत्र वैयासकिर धीमान यॊक्तुं समुपचक्रमे ॥ 4 ॥
स ददर्श तदात्मानं सव सङ्गविनिःसृतम परजहास ततॊ हासं शुकः संप्रेक्ष्य भास्करम ॥ 5 ॥
स पुनर यॊगम आस्थाय मॊक्षमार्गॊपलब्धये महायॊगीश्वरॊ भूत्वा सॊ ऽतयक्रामद विहायसम ॥ 6 ॥
ततः परदक्षिणं कृत्वा देवर्षिं नारदं तदा निवेदयाम आस तदा सवं यॊगं परमर्षये ॥ 7 ॥
दृष्टॊ मार्गः परवृत्तॊ ऽसमि सवस्ति ते ऽसतु तपॊधन तवत्प्रसादाद गमिष्यामि गतिम इष्टां महाद्युते ॥ 8 ॥
नारदेनाभ्यनुज्ञातस ततॊ दवैपायनात्मजः अभिवाद्य पुनर यॊगम आस्थायाकाशम आविशत ॥ 9 ॥
कैलासपृष्ठाद उत्पत्य स पपात दिवं तदा अन्तरिक्षचरः शरीमान वयास पुत्रः सुनिश्चितः ॥ 10 ॥
तम उद्यन्तं दविजश्रेष्ठं वैनतेय समद्युतिम ददृशुः सव भूतानि मनॊमारुत रन्हसम ॥ 11 ॥
वयवसायेन लॊकांस तरीन सर्वान सॊ ऽथ विचिन्तयन आस्थितॊ दिव्यम अध्वानं पावकार्क समप्रभः ॥ 12 ॥
तम एकमनसं यान्तम अव्यग्रम अकुतॊभयम ददृशुः सर्वभूतानि जङ्गमानीतराणि च ॥ 13 ॥
यथाशक्ति यथान्यायं पूजयामं चक्रिरे तदा पुष्पवर्षैश च दिव्यैस तम अवचक्रुर दिवौकसः ॥ 14 ॥
तं दृष्ट्वा विस्मिताः सर्वे गन्धर्वाप्सरसां गणाः ऋषयश चैव संसिद्धाः परं विस्मयम आगताः ॥ 15 ॥
अन्तरिक्षचरः कॊ ऽयं तपसा सिद्धिम आगतः अधः कायॊर्ध्व वक्त्रश च नेत्रैः समभिवाह्यते ॥ 16 ॥
ततः परमधीरात्मा तरिषु लॊकेषु विश्रुतः भास्करं समुद ईक्षन स पराङ्मुखॊ वाग्यतॊ ऽगमत शब्देनाकाशम अखिलं पूरयन्न इव सर्वतः ॥ 17 ॥
तम आपतन्तं सहसा दृष्ट्वा सर्वाप्सरॊ गणाः संभ्रान्तमनसॊ राजन्न आसन परमविस्मिताः पञ्च चूदाप्रभृतयॊ भृशम उत्फुल्ललॊचनाः ॥ 18 ॥
दैवतं कतमं हय एतद उत्तमां गतिम आस्थितम सुनिश्चितम इहायाति विमुक्तम इव निःस्पृहम ॥ 19 ॥
ततः समतिचक्राम मलयं नाम पर्वतम उर्वशी पूर्वचित्तिश च यं नित्यम उपसेवते ते सम बरह्मर्षिपुत्रस्य विस्मयं ययतुः परम ॥ 20 ॥
अहॊ बुद्धिसमाधानं वेदाभ्यास रते दविजे अचिरेणैव कालेन नभश्चरति चन्द्रवत पितृशुश्रूसया सिद्धिं संप्राप्तॊ ऽयम अनुत्तमाम ॥ 21 ॥
पितृभक्तॊ दृध तपाः पितुः सुदयितः सुतः अनन्यमनसा तेन कथं पित्रा विवर्जितः ॥ 22 ॥
उर्वस्या वचनं शरुत्वा शुकः परमधर्मवित उदैक्षत दिशः सर्वा वचने गतमानसः ॥ 23 ॥
सॊ ऽनतरिक्षं महीं चैव सशैलवनकाननाम आलॊकयाम आस तदा सरांसि सरितस तथा ॥ 24 ॥
ततॊ दवैपायन सुतं बहुमान पुरःसरम कृताञ्जलिपुताः सर्वा निरीक्षन्ते सम देवताः ॥ 25 ॥
अब्रवीत तास तदा वाक्यं शुकः परमधर्मवित पिता यद्य अनुगच्छेन मां करॊशमानः शुकेति वै ॥ 26 ॥
ततः परति वचॊ देयं सर्वैर एव समाहितैः एतन मे सनेहतः सर्वे वचनं कर्तुम अर्हथ ॥ 27 ॥
शुकस्य वचनं शरुत्वा दिशः सवनकाननाः समुद्राः सरितः शैलाः परत्यूचुस तं समन्ततः ॥ 28 ॥
यथाज्ञापयसे विप्र बाधम एवं भविष्यति ऋषेर वयाहरतॊ वाक्यं परतिवक्ष्यामहे वयम ॥ 29 ॥
शान्तिपर्व · Shanti Parva
अध्याय 319
Reach this point to mark the section finished.
Continue to अध्याय 320