धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 318

  1. [नारद] सुखदुःखविपर्यासॊ यदा समुपपद्यते नैनं परज्ञा सुनीतं वा तरायते नापि पौरुषम ॥ 1 ॥

  2. सवभावाद यत्नम आतिष्ठेद यत्नवान नावसीदति जरामरणरॊगेभ्यः परियम आत्मानम उद्धरेत ॥ 2 ॥

  3. रुजन्ति हि शरीराणि रॊगाः शारीर मानसाः सायका इव तीक्ष्णाग्राः परयुक्ता दृध धन्विभिः ॥ 3 ॥

  4. वयाधितस्य विवित्साभिस तरस्यतॊ जीवितैषिणः अवशस्य विनाशाय शरीरम अपकृष्यते ॥ 4 ॥

  5. सरवन्ति न निवर्तन्ते सरॊतांसि सरिताम इव आयुर आदाय मर्त्यानां रात्र्यहानि पुनः पुनः ॥ 5 ॥

  6. वयत्ययॊ हय अयम अत्यन्तं पक्षयॊः शुक्लकृष्णयॊः जातं मर्त्यं जरयति निमेषं नावतिष्ठते ॥ 6 ॥

  7. सुखदुःखानि भूतानाम अजरॊ जरयन्न असौ आदित्यॊ हय अस्तम अभ्येति पुनः पुनर उदेति च ॥ 7 ॥

  8. अदृष्टपूर्वान आदाय भावान अपरिशङ्कितान इष्टानिष्टान मनुष्याणाम अस्तं गच्छन्ति रात्रयः ॥ 8 ॥

  9. यॊ यम इच्छेद यथाकामं कामानां तत तद आप्नुयात यदि सयान न पराधीनं पुरुषस्य करियाफलम ॥ 9 ॥

  10. संयताश च हि दक्षाश च मतिमन्तश च मानवाः दृश्यते निष्फलाः सन्तः परहीनाश च सवकर्मभिः ॥ 10 ॥

  11. अपरे बालिशाः सन्तॊ निर्गुणाः पुरुषाधमाः आशीर्भिर अप्य असंयुक्ता दृश्यन्ते सर्वकामिनः ॥ 11 ॥

  12. भूतानाम अपरः कश चिद धिंसायां सततॊत्थितः वञ्चनायां च लॊकस्य स सुखेष्व एव जीर्यते ॥ 12 ॥

  13. अचेष्टमानम आसीनं शरीः कं चिद उपतिष्ठति कश चित कर्मानुसृत्यान्यॊ न पराप्यम अधिगच्छति ॥ 13 ॥

  14. अपराधं समाचक्ष्व पुरुषस्य सवभावतः शुक्रम अन्यत्र संभूतं पुनर अन्यत्र गच्छति ॥ 14 ॥

  15. तस्य यॊनौ परसक्तस्य गर्भॊ भवति वा न वा आम्रपुष्पॊपमा यस्य निवृत्तिर उपलभ्यते ॥ 15 ॥

  16. केषां चित पुत्र कामानाम अनुसंतानम इच्छताम सिद्धौ परयतमानानां नैवान्दम उपजायते ॥ 16 ॥

  17. गर्भाच चॊद्विजमानानां करुद्धाद आशीविषाद इव आयुष्माञ जायते पुत्रः कथं परेतः पितैव सः ॥ 17 ॥

  18. देवान इष्ट्वा तपस तप्त्वा कृपणैः पुत्रगृद्धिभिः दश मासान परिधृता जायन्ते कुलपांसनाः ॥ 18 ॥

  19. अपरे धनधान्यानि भॊगांश च पितृसंचितान विपुलान अभिजायन्ते लब्धास तैर एव मङ्गलैः ॥ 19 ॥

  20. अन्यॊन्यं समभिप्रेत्य मैथुनस्य समागमे उपद्रव इवाविष्टॊ यॊनिं गर्भः परपद्यते ॥ 20 ॥

  21. शीर्णं परशरीरेण निच्छवीकं शरीरिणम परानिनां पराण संरॊधे मांसश्लेष्म विचेष्टितम ॥ 21 ॥

  22. निर्दग्धं परदेहेन परदेहं चलाचलम विनश्यन्तं विनाशान्ते नावि नावम इवाहितम ॥ 22 ॥

  23. संगत्या जथरे नयस्तं रेतॊ बिन्दुम अचेतनम केन यत्नेन जीवन्तं गर्भं तवम इह पश्यसि ॥ 23 ॥

  24. अन्नपानानि जीर्यन्ते यत्र भक्षाश च भक्षिताः तस्मिन्न एवॊदरे गर्भः किं नान्नम इव जीर्यते ॥ 24 ॥

  25. गर्भमूत्र पुरीसानां सवभावनियता गतिः धारणे वा विसर्गे वा न कर्तुर विद्यते वशः ॥ 25 ॥

  26. सरवन्ति हय उदराद गर्भा जायमानास तथापरे आगमेन सहान्येषां विनाश उपपद्यते ॥ 26 ॥

  27. एतस्माद यॊनिसंबन्धाद यॊ जीवन परिमुच्यते परजां च लभते कां चित पुनर दवन्द्वेषु मज्जति ॥ 27 ॥

  28. शतस्य सह जातस्य सप्तमीं दशमीं दशाम पराप्नुवन्ति ततः पञ्च न भवन्ति शतायुषः ॥ 28 ॥

  29. नाभ्युत्थाने मनुष्याणां यॊगाः सयुर नात्र संशयः वयाधिभिश च विमथ्यन्ते वयालैः कषुद्रमृगा इव ॥ 29 ॥

  30. वयाधिभिर भक्ष्यमाणानां तयजतां विपुलं धनम वेदनां नापकर्षन्ति यतमानाश चिकित्सकाः ॥ 30 ॥

  31. ते चापि निपुना वैद्याः कुशलाः संभृतौषधाः वयाधिभिः परिकृष्यन्ते मृगा वयाधैर इवार्दिताः ॥ 31 ॥

  32. ते पिबन्तः कसायांश च सर्पींसि विविधानि च दृश्यन्ते जरया भग्ना नागा नागैर इवॊत्तमैः ॥ 32 ॥

  33. के वा भुवि चिकित्सन्ते रॊगार्तान मृगपक्षिणः शवापदानि दरिद्रांश च परायॊ नार्ता भवन्ति ते ॥ 33 ॥

  34. घॊरान अपि दुराधर्षान नृपतीन उग्रतेजसः आक्रम्य रॊग आदत्ते पशून पशुपचॊ यथा ॥ 34 ॥

  35. इति लॊकम अनाक्रन्दं मॊहशॊकपरिप्लुतम सरॊतसा सहसा कषिप्तं करियमाणं बलीयसा ॥ 35 ॥

  36. न धनेन न राज्येन नॊग्रेण तपसा तथा सवभावा वयतिवर्तन्ते ये नियुक्ताः शरीरिषु ॥ 36 ॥

  37. न मरियेरन न जीर्येरन सर्वे सयुः सर्वकामिकाः नाप्रियं परतिपश्येयुर उत्थानस्य फलं परति ॥ 37 ॥

  38. उपर्य उपरि लॊकस्य सर्वॊ भवितुम इच्छति यतते च यथाशक्ति न च तद वर्तते तथा ॥ 38 ॥

  39. ऐश्वर्यमदमत्तांश च मत्तान मद्य मदेन च अप्रमत्ताः शठाः करूरा विक्रान्ताः पर्युपासते ॥ 39 ॥

  40. कलेशाः परतिनिवर्तन्ते केषां चिद असमीक्षिताः सवं सवं च पुनर अन्येषां न किं चिद अभिगम्यते ॥ 40 ॥

  41. महच च फलवैषम्यं दृश्यते कर्म संधिषु वहन्ति शिबिकाम अन्ये यान्त्य अन्ये शिबिका गताः ॥ 41 ॥

  42. सर्वेषाम ऋद्धिकामानाम अन्ये रथपुरःसराः मनुजाश च शतस्त्रीकाः शतशॊ विधवाः सत्रियः ॥ 42 ॥

  43. दवन्द्वारामेषु भूतेषु गच्छन्त्य एकैकशॊ नराः इदम अन्यत परं पश्य मात्रमॊहं करिष्यसि ॥ 43 ॥

  44. तयज धर्मम अधर्मं च उभे सत्यानृते तयज उभे सत्यानृते तयक्त्वा येन तयजसि तं तयज ॥ 44 ॥

  45. एतत ते परमं गुह्यम आख्यातम ऋषिसत्तम येन देवाः परित्यज्य मर्त्यलॊकं दिवं गताः ॥ 45 ॥

  46. [भी] नारदस्य वचः शरुत्वा शुकः परमबुद्धिमान संचिन्त्य मनसा धीरॊ निश्चयं नाध्यगच्छत ॥ 46 ॥

  47. पुत्रदारैर महान कलेशॊ विद्याम्नाये महाञ शरमः किं नु सयाच छाश्वतं सथानम अल्पक्लेशं महॊदरम ॥ 47 ॥

  48. ततॊ मुहूर्तं संचिन्त्य निश्चितां गतिम आत्मनः परावपज्ञॊ धर्मस्य परां नैःश्रेयसीं गतिम ॥ 48 ॥

  49. कथं तव अहम असंक्लिष्टॊ गच्छेयं परमां गतिम नावर्तेयं यथा भूयॊ यॊनिसंसारसागरे ॥ 49 ॥

  50. परं भावं हि काङ्क्षामि यत्र नावर्तते पुनः सर्वसङ्गान परित्यज्य निश्चितां मनसॊ गतिम ॥ 50 ॥

  51. तत्र यास्यामि यत्रात्मा शमं मे ऽधिगमिष्यति अक्षयश चाव्ययश चैव यत्र सथास्यामि शाश्वतः ॥ 51 ॥

  52. न तु यॊगम ऋते शक्या पराप्तुं सा परमा गतिः अवबन्धॊ हि मुक्तस्य कर्मभिर नॊपपद्यते ॥ 52 ॥

  53. तस्माद यॊगं समास्थाय तयक्त्वा गृहकलेवरम वायुभूतः परवेक्ष्यामि तेजॊराशिं दिवाकरम ॥ 53 ॥

  54. न हय एष कषयम आप्नॊति सॊमः सुरगणैर यथा कम्पितः पतते भूमिं पुनश चैवाधिरॊहति कषीयते हि सदा सॊमः पुनश चैवाभिपूर्यते ॥ 54 ॥

  55. रविस तु संतापयति लॊकान रश्मिभिर उल्बनैः सर्वतस तेज आदत्ते नित्यम अक्षय मन्दलः ॥ 55 ॥

  56. अतॊ मे रॊचते गन्तुम आदित्यं दीप्ततेजसम अत्र वत्स्यामि दुर्धर्षॊ निःसङ्गेनान्तरात्मना ॥ 56 ॥

  57. सूर्यस्य सदने चाहं निक्षिप्येदं कलेवरम ऋषिभिः सह यास्यामि सौरं तेजॊ ऽतिदुःसहम ॥ 57 ॥

  58. आपृच्छामि नगान नागान गिरीन उर्वीं दिशॊ दिवम देवदानवगन्धर्वान पिशाचॊरगराक्षसान ॥ 58 ॥

  59. लॊकेषु सर्वभूतानि परवेक्ष्यामि न संशयः पश्यन्तु यॊगवीर्यं मे सर्वे देवाः सहर्षिभिः ॥ 59 ॥

  60. अथानुज्ञाप्य तम ऋषिं नारदं लॊकविश्रुतम तस्माद अनुज्ञां संप्राप्य जगाम पितरं परति ॥ 60 ॥

  61. सॊ ऽभिवाद्य महात्मानम ऋषिं दवैपायनं मुनिम शुकः परदक्षिणीकृत्य कृष्णम आपृष्टवान मुनिः ॥ 61 ॥

  62. शरुत्वा ऋषिस तद वचनं शुकस्य; परीतॊ महात्मा पुनर आह चैनम भॊ भॊः पुत्र सथीयतां तावद अद्य; यावच चक्षुः परीणयामि तवदर्थम ॥ 62 ॥

  63. निरपेक्षः शुकॊ भूत्वा निःस्नेहॊ मुक्तबन्धनः मॊक्षम एवानुसंचिन्त्य गमनाय मनॊ दधे पितरं संपरित्यज्य जगाम दविजसत्तमः ॥ 63 ॥

Reach this point to mark the section finished.

Continue to अध्याय 319

Previous: अध्याय 317