[नारद] अशॊकं शॊकनाशार्थं शास्त्रं शान्ति करं शिवम निशम्य्य लभते बुद्धिं तां लब्ध्वा सुखम एधते ॥ 1 ॥
शॊकस्थान सहस्राणि भयस्थान शतानि च दिवसे दिवसे मूढम आविशन्ति न पण्डितम ॥ 2 ॥
तस्माद अनिष्ट नाशार्थम इतिहासं निबॊध मे तिष्ठते चेद वशे बुद्धिर लभते शॊकनाशनम ॥ 3 ॥
अनिष्ट संप्रयॊगाच च विप्रयॊगात परियस्य च मनुष्या मानसैर दुःखैर युज्यन्ते अल्पबुद्धयः ॥ 4 ॥
दरव्येषु समतीतेषु ये गुणास तान न चिन्तयेत तान अनाद्रियमाणस्य सनेहबन्धः परमुच्यते ॥ 5 ॥
दॊषदर्शी भवेत तत्र यत्र रागः परवर्तते अनिष्टवद धितं पश्येत तथा कषिप्रं विरज्यते ॥ 6 ॥
नार्थॊ न धर्मॊ न यशॊ यॊ ऽतीतम अनुशॊचति अप्य अभावेन युज्येत तच चास्य न निवर्तते ॥ 7 ॥
गुणैर भूतानि युज्यन्ते वियुज्यन्ते तथैव च सर्वाणि नैतद एकस्य शॊकस्थानं हि विद्यते ॥ 8 ॥
मृतं वा यदि वा नष्टं यॊ ऽतीतम अनुशॊचति दुःखेन लभते दुःखं दवाव अनर्थौ परपद्यते ॥ 9 ॥
नाश्रु कुर्वन्ति ये बुद्ध्या दृष्ट्वा लॊकेषु संततिम सम्यक परपश्यतः सर्वं नाश्रु कर्मॊपपद्यते ॥ 10 ॥
दुःखॊपघाते शारीरे मानसे वाप्य उपस्थिते यस्मिन न शक्यते कर्तुं यत्नस तन नानुचिन्तयेत ॥ 11 ॥
भैषज्यम एतद दुःखस्य यद एतन नानुचिन्तयेत चिन्त्यमानं हि न वयेति भूयश चापि परवर्धते ॥ 12 ॥
परज्ञया मानसं दुःखं हन्याच छारीरम औषधैः एतद विजान सामर्थ्यं न बालैः समताम इयात ॥ 13 ॥
अनित्यं यौवनं रूपं जीवितं दरव्यसंचयः आरॊग्यं परिय संवासगृध्येत तत्र न पण्डितः ॥ 14 ॥
न जानपदिकं दुःखम एकः शॊचितुम अर्हति अशॊचन परतिकुर्वीत यदि पश्येद उपक्रमम ॥ 15 ॥
सुखाद बहुतरं दुःखं जीविते नात्र संशयः सनिग्धत्वं चेन्द्रियार्थेषु मॊहान मरणम अप्रियम ॥ 16 ॥
परित्यजति यॊ दुःखं सुखं वाप्य उभयं नरः अभ्येति बरह्म सॊ ऽतयन्तं न तं शॊचन्ति पण्डिताः ॥ 17 ॥
दुःखम अर्था हि तयज्यन्ते पालने न च ते सुखाः दुःखेन चाधिगम्यन्ते नाशम एषां न चिन्तयेत ॥ 18 ॥
अन्याम अन्यां धनावस्थां पराप्य वैशेषिकीं नराः अतृप्ता यान्ति विध्वंसं संतॊषं यान्ति पण्डिताः ॥ 19 ॥
सर्वे कषरान्ता निचयाः पतनान्ताः समुच्छ्रयाः संयॊगा विप्रयॊगान्ता मरणान्तं हि जीवितम ॥ 20 ॥
अन्तॊ नास्ति पिपासायास तुष्टिस तु परमं सुखम तस्मात संतॊषम एवेह धनं पश्यन्ति पण्डिताः ॥ 21 ॥
निमेष मात्रम अपि हि वयॊ गच्छन्न न तिष्ठति सवशरीरेष्व अनित्येषु नित्यं किम अनुचिन्तयेत ॥ 22 ॥
भूतेष्व अभावं संचिन्त्य ये बुद्ध्वा तमसः परम न शॊचन्ति गताध्वानः पश्यन्तः परमां गतिम ॥ 23 ॥
संचिन्वानकम एवैनं कामानाम अवितृप्तकम वयाघ्रः पशुम इवासाद्य मृत्युर आदाय गच्छति ॥ 24 ॥
अथाप्य उपायं संपश्येद दुःखस्य परिमॊक्षणे अशॊचन्न आरभेतैव युक्तश चाव्यसनी भवेत ॥ 25 ॥
शब्दे सपर्शे च रूपे च गन्धेषु च रसेषु च नॊपभॊगात परं किं चिद धनिनॊ वाधनस्य वा ॥ 26 ॥
पराक संप्रयॊगाद भूतानां नास्ति दुःखम अनामयम विप्रयॊगात तु सर्वस्य न शॊचेत परकृतिस्थितः ॥ 27 ॥
धृत्या शिश्नॊदरं रक्षेत पाणि पादं च चक्षुषा चक्षुः शरॊत्रे च मनसा मनॊ वाचं च विद्यया ॥ 28 ॥
परनयं परतिसंहृत्य संस्तुतेष्व इतरेषु च विचरेद असमुन्नद्धः स सुखी स च पण्डितः ॥ 29 ॥
अध्यात्मरतिर आसीनॊ निरपेक्षॊ निरामिषः आत्मनैव सहायेन यश चरेत स सुखी भवेत ॥ 30 ॥
शान्तिपर्व · Shanti Parva
अध्याय 317
Reach this point to mark the section finished.
Continue to अध्याय 318