धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 316

  1. [भी] एतस्मिन्न अन्तरे शून्ये नारदः समुपागमत शुकं सवाध्यायनिरतं वेदार्थान वक्तुम ईप्सितान ॥ 1 ॥

  2. देवर्षिं तु शुकॊ दृष्ट्वा नारदं समुपस्थितम अर्घ्य पूर्वेण विधिना वेदॊक्तेनाभ्यपूजयत ॥ 2 ॥

  3. नारदॊ ऽथाब्रवीत परीतॊ बरूहि बरह्मविदां वरन केन तवां शरेयसा तात यॊजयामीति हृष्टवत ॥ 3 ॥

  4. नारदस्य वचः शरुत्वा शुकः परॊवाच भारत अस्मिँल लॊके हितं यत सयात तेन मां यॊक्तुम अर्हसि ॥ 4 ॥

  5. [नारद] तत्त्वं जिज्ञासतां पूर्वम ऋषीणां भावितात्मनाम सनत्कुमारॊ भगवान इदं वचनम अब्रवीत ॥ 5 ॥

  6. नास्ति विद्या समं चक्षुर नास्ति विद्या समं तपः नास्ति रागसमं दुःखं नास्ति तयागसमं सुखम ॥ 6 ॥

  7. निवृत्तिः कर्मणः पापात सततं पुण्यशीलता सद्वृत्तिः समुदाचारः शरेय एतद अनुत्तमम ॥ 7 ॥

  8. मानुष्यम असुखं पराप्य यः सज्जति स मुह्यति नालं स दुःखमॊक्षाय सङ्गॊ वै दुःखलक्षणम ॥ 8 ॥

  9. सक्तस्य बुद्धिश चलति मॊहजालविवर्धिनी मॊहजालावृतॊ दुःखम इह चामुत्र चाश्नुते ॥ 9 ॥

  10. सर्वॊपायेन कामस्य करॊधस्य च विनिग्रहः कार्यः शरेयॊ ऽरतिना तौ हि शरेयॊ घातार्थम उद्यतौ ॥ 10 ॥

  11. नित्यं करॊधात तपॊ रक्षेच छरियं रक्षेत मत्सरात विद्यां मानावमानाभ्याम आत्मानं तु परमादतः ॥ 11 ॥

  12. आनृशंस्यं परॊ धर्मः कषमा च परमं बलम आत्मज्ञानं परं जञानं न सत्याद विद्यते परम ॥ 12 ॥

  13. सत्यस्य वचनं शरेयः सत्याद अपि हितं भवेत यद भूतहितम अत्यन्तम एतत सत्यं मतं मम ॥ 13 ॥

  14. सर्वारम्भफलत्यागी निराशीर निष्परिग्रहः येन सर्वं परित्यक्तं स विद्वान स च पण्डितः ॥ 14 ॥

  15. इन्द्रियैर इन्द्रियार्थेभ्यश चरत्य आत्मवशैर इह असज्जमानः शान्तात्मा निर्विकारः समाहितः ॥ 15 ॥

  16. आत्मभूतैर अतद्भूतः सह चैव विनैव च स विमुक्तः परं शरेयॊ नचिरेणाधिगच्छति ॥ 16 ॥

  17. अदर्शनम असंस्पर्शस तथासंभासनं सदा यस्य भूतैः सह मुने स शरेयॊ विन्दते परम ॥ 17 ॥

  18. न हिंस्यात सर्वभूतानि मैत्रायण गतश चरेत नेदं जन्म समासाद्य वैरं कुर्वीत केन चित ॥ 18 ॥

  19. आकिंचन्यं सुसंतॊषॊ निराशीस्त्वम अचापलम एतद आहुः परं शरेय आत्मज्ञस्य जितात्मनः ॥ 19 ॥

  20. परिग्रहं परित्यज्य भव तात जितेन्द्रियः अशॊकं सथानम आतिष्ठ इह चामुत्र चाभयम ॥ 20 ॥

  21. निरामिषा न शॊचन्ति तयजेहामिषम आत्मनः परित्यज्यामिषं सौम्य दुःखतापाद विमॊक्ष्यसे ॥ 21 ॥

  22. तपॊनित्येन दान्तेन मुनिना संयतात्मना अजितं जेतुकामेन भाव्यं सङ्गेष्व असङ्गिना ॥ 22 ॥

  23. गुणसङ्गेष्व अनासक्त एकचर्या रतः सदा बराह्मणे नचिराद एव सुखम आयात्य अनुत्तमम ॥ 23 ॥

  24. दवन्द्वारामेषु भूतेषु य एकॊ रमते मुनिः विद्धि परज्ञान तृप्तं तं जञानतृप्तॊ न शॊचति ॥ 24 ॥

  25. शुभैर लभतिदेवत्वं वयामिश्रैर जन्म मानुषम अशुभैश चाप्य अधॊ जन्म कर्मभिर लभते ऽवशः ॥ 25 ॥

  26. तत्र मृत्युजरादुःखैः सततं समभिद्रुतः संसारे पच्यते जन्तुस तत कथं नावबुध्यसे ॥ 26 ॥

  27. अहिते हितसंज्ञस तवम अध्रुवे धरुवसंज्ञकः अनर्थे चार्थसंज्ञस तवं किमर्थं नावबुध्यसे ॥ 27 ॥

  28. संवेष्ट्यमानं बहुभिर मॊहतन्तुभिर आत्मजैः कॊशकारवद आत्मानं वेष्टयन नावबुध्यसे ॥ 28 ॥

  29. अलं परिग्रहेनेह दॊषवान हि परिग्रहः कृमिर हि कॊशकारस तु बध्यते सवपरिग्रहात ॥ 29 ॥

  30. पुत्रदारकुटुम्बेषु सक्ताः सीदन्ति जन्तवः सरः पङ्कार्णवे मग्ना जीर्णा वनगजा इव ॥ 30 ॥

  31. महाजालसमाकृष्टान सथले मत्स्यान इवॊद्धृतान सनेहजालसमाकृष्टान पश्य जन्तून सुदुःखितान ॥ 31 ॥

  32. कुतुम्बं पुत्रदारं च शरीरं दरव्यसंचयाः पारख्यम अध्रुवं सर्वं किं सवं सुकृतदुष्कृतम ॥ 32 ॥

  33. यदा सर्वं परित्यज्य गन्तव्यम अवशेन ते अनर्थे किं परसक्तस तवं सवम अर्थं नानुतिष्ठसि ॥ 33 ॥

  34. अविश्रान्तम अनालम्बम अपाथेयम अदैशिकम तमः कान्तारम अध्वानं कथम एकॊ गमिष्यसि ॥ 34 ॥

  35. न हि तवा परस्थितं कश चित पृष्ठतॊ ऽनुगमिष्यति सुकृतं दुष्कृतं च तवा यास्यन्तम अनुयास्यति ॥ 35 ॥

  36. विद्या कर्म च शौर्यं च जञानं च बहुविस्तरम अर्थार्थम अनुसार्यन्ते सिद्धार्थस तु विमुच्यते ॥ 36 ॥

  37. निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ 37 ॥

  38. रूपकूलां मनः सरॊतां सपर्शद्वीपां रसावहाम गन्धपङ्कां शब्दजलां सवर्गमार्गदुरावहाम ॥ 38 ॥

  39. कषमारित्रां सत्यमयीं धर्मस्थैर यवताकराम तयागवाताध्वगां शीघ्रां बुद्धिनावा नदीं तरेत ॥ 39 ॥

  40. तयज धर्मम अधर्मं च जुभे सत्यानृते तयज उभे सत्यानृते तयक्त्वा येन तयजसि तं तयज ॥ 40 ॥

  41. तयज धर्मम असंकल्पाद अधर्मं चाप्य अहिंसया उभे सत्यानृते बुद्ध्या बुद्धिं परमनिश्चयात ॥ 41 ॥

  42. अस्थि सथूनं सनायु युतं मांसशॊनित लेपनम चर्मावनद्धं दुर्गन्धि पूर्णं मूत्र पुरीसयॊः ॥ 42 ॥

  43. जरा शॊकसमाविष्टं रॊगायतनम आतुरम रजस्वलम अनित्यं च भूतावासं समुत्सृज ॥ 43 ॥

  44. इदं विश्वं जगत सर्वम अजगच चापि यद भवेत महाभूतात्मकं सर्वं महद यत परमानु यत ॥ 44 ॥

  45. इन्द्रियाणि च पञ्चैव तमः सत्त्वं रजस तथा इत्य एष सप्त दशकॊ राशिर अव्यक्तसंज्ञकः ॥ 45 ॥

  46. सर्वैर इहेन्द्रियार्थैश च वयक्ताव्यक्तैर हि संहितः पञ्चविंशक इत्य एष वयक्ताव्यक्तमयॊ गुणः ॥ 46 ॥

  47. एतैः सर्वैः समायुक्तः पुमान इत्य अभिधीयते तरिवर्गॊ ऽतर सुखं दुःखं जीवितं मरणं तथा ॥ 47 ॥

  48. य इदं वेद तत्त्वेन स वेद परभवाप्ययौ पाराशर्येह बॊद्धव्यं जञानानां यच च किं चन ॥ 48 ॥

  49. इन्द्रियैर गृह्यते यद यत तत तद वयक्तम इति सथितिः अव्यक्तम इति विज्ञेयं लिङ्गग्राह्यम अतीन्द्रियम ॥ 49 ॥

  50. इन्द्रियैर नियतैर देही धाराभिर इव तर्प्यते लॊके विततम आत्मानं लॊकं चात्मनि पश्यति ॥ 50 ॥

  51. परावरदृशः शक्तिर जञानवेलां न पश्यति पश्यतः सर्वभूतानि सर्वावस्थासु सर्वदा ॥ 51 ॥

  52. बरह्मभूतस्य संयॊगॊ नाशुभेनॊपपद्यते जञानेन विविधान कलेशान अतिवृत्तस्य मॊहजान लॊके बुद्धिप्रकाशेन लॊकमार्गॊ न रिष्यते ॥ 52 ॥

  53. अनादि निधनं जन्तुम आत्मनि सथितम अव्ययम अकर्तारम अमूर्तं च भगवान आह तीर्थवित ॥ 53 ॥

  54. यॊ जन्तुः सवकृतैस तैस तैः कर्मभिर नित्यदुःखितः स दुःखप्रतिघातार्थं हन्ति जन्तून अनेकधा ॥ 54 ॥

  55. ततः कर्म समादत्ते पुनर अन्यन नवं बहु तप्यते ऽथ पुनस तेन भुक्त्वापथ्यम इवातुरः ॥ 55 ॥

  56. अजस्रम एव मॊहार्तॊ दुःखेषु सुखसंज्ञितः बध्यते मथ्यते चैव कर्मभिर मन्थवत सदा ॥ 56 ॥

  57. ततॊ निवृत्तॊ बन्धात सवात कर्मणाम उदयाद इह परिभ्रमति संसारं चक्रवद बहु वेदनः ॥ 57 ॥

  58. स तवं निवृत्तबन्धुस तु निवृत्तश चापि कर्मतः सर्ववित सर्वजित सिद्धॊ भव भावविवर्जितः ॥ 58 ॥

  59. संयमेन नवं बन्धं निवर्त्य तपसॊ बलात संप्राप्ता बहवः सिद्धिम अप्य अबाधां सुखॊदयाम ॥ 59 ॥

Reach this point to mark the section finished.

Continue to अध्याय 317

Previous: अध्याय 315