[य] कथं वयासस्य धर्मात्मा शुकॊ जज्ञे महातपः सिधिं च परमां पराप्तस तन मे बरूहि पितामह ॥ 1 ॥
कस्यां चॊत्पादयाम आस शुकं वयासस तपॊधनः न हय अस्य जननीं विद्म जन्म चाग्र्यं महात्मनः ॥ 2 ॥
कथं च बालस्य सतः सूक्ष्मज्ञाने गता मतिः यथा नान्यस्य लॊकास्मिन दवितीयस्येह कस्य चित ॥ 3 ॥
एतद इच्छाम्य अहं शरॊतुं विस्तरेण महाद्युते न हि मे तृप्तिर अस्तीह शृण्वतॊ ऽमृतम उत्तमम ॥ 4 ॥
माहात्म्यम आत्मयॊगं च विज्ञानं च शुकस्य ह यथावद आनुपूर्व्येण तन मे बरूहि पितामह ॥ 5 ॥
[भी] न हायनैर न पलितैर न वित्तेन न बन्धुभिः ऋषयश चक्रिरे धर्मं यॊ ऽनूचानः स नॊ महान ॥ 6 ॥
तपॊ मूलम इदं सर्वं यन मां पृच्छसि पाण्डव तद इन्द्रियाणि संयम्य तपॊ भवति नान्यथा ॥ 7 ॥
इन्द्रियाणां परसङ्गेन दॊषम ऋच्छत्य असंशयम संनियम्य तु तान्य एव सिद्धिं पराप्नॊति मानवः ॥ 8 ॥
अश्वमेध सहस्रस्य वाजपेयशतस्य च यॊगस्य कलया तात न तुल्यं विद्यते फलम ॥ 9 ॥
अत्र ते वर्तयिष्यामि जन्म यॊगफलं यथा शुकस्याग्र्यां गतिं चैव दुर्विदाम अकृतात्मभिः ॥ 10 ॥
मेरुशृङ्गे किल पुरा कर्णिकारवनायुते विजहार महादेवॊ भिमैर भूतगणैर वृतः ॥ 11 ॥
शैलराजसुता चैव देवी तत्राभवत पुरा तत्र दिव्यं तपस तेपे कृष्णद्वैपायनः परभुः ॥ 12 ॥
यॊगेनात्मानम आविश्य यॊगधर्मपरायनः धारयन स तपस तेपे पुत्रार्थं कुरुसत्तम ॥ 13 ॥
अग्नेर भूमेर अपां वायॊर अन्तरिक्षस्य चाभिभॊ वीर्येण संमितः पुत्रॊ मम भूयाद इति सम ह ॥ 14 ॥
संकल्पेनाथ सॊ ऽनेन दुष्प्रापेनाकृतात्मभिः वरयाम आस देवेशम आस्थितस तप उत्तमम ॥ 15 ॥
अतिष्ठन मारुताहारः शतं किल सभाः परभुः आराधयन महादेवं बहुरूपम उमापतिम ॥ 16 ॥
तत्र बरह्मर्षयश चैव सर्वे देवर्षयस तथा लॊकपालाश च लॊकेशं साध्याश च वसुभिः सह ॥ 17 ॥
आदित्याश चैव रुद्राश च दिवाकरनिशाकरौ मरुतॊ मारुतश चैव सागराः सरितस तथा ॥ 18 ॥
अश्विनौ देवगन्धर्वास तथा नारद पर्वतौ विश्वावसुश च गन्धर्वः सिद्धाश चाप्सरसां गणाः ॥ 19 ॥
तत्र रुद्रॊ महादेवः कर्णिकारमयीं शुभाम धारयाणः सरजं भाति जयॊत्स्नाम इव निशाकरः ॥ 20 ॥
तस्मिन दिव्ये वने रम्ये देवदेवर्षिसंकुले आस्थितः परमं यॊगम ऋषिः पुत्रार्थम उद्यतः ॥ 21 ॥
न चास्य हीयते वर्णॊ न गलानिर उपजायते तरयाणाम अपि लॊकानां तद अद्भुतम इवाभवत ॥ 22 ॥
जताश च तेजसा तस्य वैश्वानर शिखॊपमाः परज्वलन्त्यः सम दृश्यन्ते युक्तस्यामित तेजसः ॥ 23 ॥
मार्कन्देयॊ हि भगवान एतद आख्यातवान मम स देव चरितानीह कथयाम आस मे सदा ॥ 24 ॥
ता एताद्यापि कृष्णस्य तपसा तेन दीपिताः अग्निवर्णा जतास तात परकाशन्ते महात्मनः ॥ 25 ॥
एवंविधेन तपसा तस्य भक्त्या च भारत महेश्वरः परसन्नात्मा चकार मनसा मतिम ॥ 26 ॥
उवाच चैनं भगवांस तर्यम्बकः परहसन्न इव एवंविधस ते तनयॊ दवैपायन भविष्यति ॥ 27 ॥
यथा हय अग्निर यथा वायुर यथा भूमिर यथा जलम यथा च खं तथा शुद्धॊ भविष्यति सुतॊ महान ॥ 28 ॥
तद्भावभावी तद बुद्धिस तद आत्मा तद अपाश्रयः तेजसावृत्य लॊकांस तरीन यशः पराप्स्यति केवलम ॥ 29 ॥
शान्तिपर्व · Shanti Parva
अध्याय 310
Reach this point to mark the section finished.
Continue to अध्याय 311