धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 311

  1. [भी] स लब्ध्वा परमं देवाद वरं सत्यवती सुतः अरणीं तव अथ संगृह्य ममन्थाग्निचिकीर्षया ॥ 1 ॥

  2. अथ रूपं परं राजन बिभ्रतीं सवेन तेजसा घृताचीं नामाप्सरसम अपश्यद भगवान ऋषिः ॥ 2 ॥

  3. ऋषिर अप्सरसं दृष्ट्वा सहसा काममॊहितः अभवद भगवान वयासॊ वने तस्मिन युधिष्ठिर ॥ 3 ॥

  4. सा च कृत्वा तदा वयासं कामसंविग्नमानसम शुकी भूत्वा महाराज घृताची समुपागमत ॥ 4 ॥

  5. स ताम अप्सरसं दृष्ट्वा रूपेणान्येन संवृताम शरीरजेनानुगतः सर्वगात्रातिगेन ह ॥ 5 ॥

  6. स तु धैर्येण महता निगृह्णन हृच्छयं मुनिः न शशाक नियन्तुं तद वयासः परविसृतं मनः भावित्वाच चैव भावस्य घृताच्या वपुषा हृतः ॥ 6 ॥

  7. यत्नान नियच्छतॊ यस्य मुनेर अगि चिकीर्षया अरण्याम एव सहसा तस्य शुक्रम अवापतत ॥ 7 ॥

  8. सॊ ऽविशङ्केन मनसा तथैव दविजसत्तमः अरणीं ममन्थ बरह्मर्षिस तस्यां जज्ञे शुकॊ नृप ॥ 8 ॥

  9. शुक्रे निर्मथ्यमाने तु शुकॊ जज्ञे महातपः परमर्षिर महायॊगिय अरणी गर्भसंभवः ॥ 9 ॥

  10. यथाध्वरे समिद्धॊ ऽगनिर बाति हव्यम उपात्तवान तथारूपः शुकॊ जज्ञे परज्वलन्न इव तेजसा ॥ 10 ॥

  11. बिभ्रत पितुश च कौरव्य रूपवर्णम अनुत्तमम बभौ तदा भावितात्मा विधूमॊ ऽगनिर इव जवलन ॥ 11 ॥

  12. तं गङ्गा सरितां शरेष्ठा मेरुपृष्ठे जनेश्वर सवरूपिणी तदाभ्येत्य सनापयाम आस वारिणा ॥ 12 ॥

  13. अन्तरिक्षाच च कौरव्य दन्दः कृष्णाजिनं च ह पपात भुवि राजेन्द्र शुकस्यार्थे महात्मनः ॥ 13 ॥

  14. जेहीयन्ते सम गन्धर्वा ननृतुश चाप्सरॊगणाः देवदुन्दुभयश चैव परावाद्यन्त महास्वनाः ॥ 14 ॥

  15. विश्वावसुश च गन्धर्वस तथा तुम्बुरु नारदौ हाहा हूहू च गन्धर्वौ तुष्टुवुः शुकसंभवम ॥ 15 ॥

  16. तत्र शक्र पुरॊगाश च लॊकपालाः समागताः देवा देवर्षयश चैव तथा बरह्मर्षयॊ ऽपि च ॥ 16 ॥

  17. दिव्यानि सर्वपुष्पानि परववर्षात्र मारुतः जङ्गमं सथावरं चैव परहृष्टम अभवज जगत ॥ 17 ॥

  18. तं महात्मा सवयं परीत्या देव्या सह महाद्युतिः जातमात्रं मुनेः पुत्रं विधिनॊपानयत तदा ॥ 18 ॥

  19. तस्य देवेश्वरः शक्रॊ दिव्यम अद्भुतदर्शनम ददौ कमन्दलुं परीत्या देव वासांसि चाभिभॊ ॥ 19 ॥

  20. हंसाश च शतपत्राश च सारसाश च सहस्रशः परदक्षिणम अवर्तन्त शुकाश चासश च भारत ॥ 20 ॥

  21. आरणेयस तथा दिव्यं पराप्य जन्म महाद्युतिः तत्रैवॊवास मेधावी वरतचारी समाहितः ॥ 21 ॥

  22. उत्पन्न मात्रं तं वेदाः सरहस्याः ससंग्रहाः उपतस्थुर महाराज यथास्य पितरं तथा ॥ 22 ॥

  23. बृहस्पतिं तु वव्रे स वेदवेदाङ्गभाष्यवित उपाध्यायं महाराज धर्मम एवानुचिन्तयन ॥ 23 ॥

  24. सॊ ऽधीत्य वेदान अखिलान सरहस्यान ससंग्रहान इतिहासं च कार्त्स्न्येन राजशास्त्राणि चाभिभॊ ॥ 24 ॥

  25. गुरवे दक्षिणां दत्त्वा समावृत्तॊ महामुनिः उग्रं तपः समारेभे बरह्मचारी समाहितः ॥ 25 ॥

  26. देवतानाम ऋषीणां च बाल्ये ऽपि स महातपः संमन्त्रणीयॊ मान्यश च जञानेन तपसा तथा ॥ 26 ॥

  27. न तव अस्य रमते बुद्धिर आश्रमेषु नराधिप तरिषु गार्हस्त्य मूलेषु मॊक्षधर्मानुदर्शिनः ॥ 27 ॥

Reach this point to mark the section finished.

Continue to अध्याय 312

Previous: अध्याय 310