[य] कथं निर्वेदम आपन्नः शुकॊ वैयासकिः पुरा एतद इच्छामि कौरव्य शरॊतुं कौतूहलं हि मे ॥ 1 ॥
[भी] पराकृतेन सुवृत्तेन चरन्तम अकुतॊभयम अध्याप्य कृत्स्नं सवाध्यायम अन्वशाद वै पिता सुतम ॥ 2 ॥
धर्मं पुत्र निषेवस्व सुतीक्ष्णौ हि हिमातपौ कषुत्पिपासे च वायुं च जय नित्यं जितेन्द्रियः ॥ 3 ॥
सत्यम आर्जवम अक्रॊधम अनसूयां दमं तपः अहिंसां चानृशंस्यं च विधिवत परिपालय ॥ 4 ॥
सत्ये तिष्ठ रतॊ धर्मे हित्वा सर्वम अनार्जवम देवतातिथिशेषेण यात्रां पराणस्य संश्रय ॥ 5 ॥
फेनपात्रॊपमे देहे जीवे शकुनिवत सथिते अनित्ये परिय संवासे कथं सवपिषि पुत्रक ॥ 6 ॥
अप्रमत्तेषु जाग्रत्सु नित्ययुक्तेषु शत्रुषु अन्तरं लिप्समानेषु बालस तवं नावबुध्यसे ॥ 7 ॥
गण्यमानेषु वर्षेषु कषीयमाणे तथायुषि जीविते शिष्यमाणे च किम उत्थाय न धावसि ॥ 8 ॥
ऐहालौकिकम ईहन्ते मांसशॊनितवर्धनम पारलौकिककार्येषु परसुप्ता भृशनास्तिकाः ॥ 9 ॥
धर्माय ये ऽभयसूयन्ति बुद्धिमॊहान्विता नराः अपथा गच्छतां तेषाम अनुयातापि पीड्यते ॥ 10 ॥
ये तु तुष्टाः सुनियताः सत्यागम परायनाः धर्म्यं पन्थानम आरूढास तान उपास्स्व च पृच्छ च ॥ 11 ॥
उपधार्य मतं तेषां वृद्धानां धर्मदर्शिनाम नियच्छ परया बुद्ध्या चित्तम उत्पथगामि वै ॥ 12 ॥
अद्य कालिकया बुद्ध्या दूरे शव इति निर्भयाः सर्वभक्षा न पश्यन्ति कर्मभूमिं विचेतसः ॥ 13 ॥
धर्मनिःश्रेणिम आस्थाय किं चित किं चित समारुह कॊशकारवद आत्मानं वेष्टयन नावबुध्यसे ॥ 14 ॥
नास्तिकं भिन्नमर्यादं कूलपातम इवास्थिरम वामतः कुरु विस्रब्धॊ नरं वेनुम इवॊद्धतम ॥ 15 ॥
कामं करॊधं च मृत्युं च पञ्चेन्द्रिय जलां नदीम नावं धृतिमयीं कृत्वा जन्म दुर्गानि संतर ॥ 16 ॥
मृत्युनाभ्याहते लॊके जरया परिपीदिते अमॊघासु पतन्तीषु धर्मयानेन संतर ॥ 17 ॥
तिष्ठन्तं च शयानं च मृत्युर अन्वेषते यदा निर्वृतिं लभसे कस्माद अकस्मान मृत्युनाशितः ॥ 18 ॥
संचिन्वानकम एवैनं कामानाम अवितृप्तकम वृकीवॊरणम आसाद्य मृत्युर आदाय गच्छति ॥ 19 ॥
करमशः संचितशिखॊ धर्मबुद्धिमयॊ महान अन्धकारे परवेष्टव्ये दिपॊ यत्नेन धार्यते ॥ 20 ॥
संपतन देहजालानि कदा चिद इह मानुषे बराह्मण्यं लभते जन्तुस तत पुत्र परिपालय ॥ 21 ॥
बराह्मणस्य हि देहॊ ऽयं न कामार्थाय जायते इह कलेशाय तपसे परेत्य तव अनुपमं सुखम ॥ 22 ॥
बराह्मण्यं बहुभिर अवाप्यते तपॊभिस; तल लब्ध्वा न परिपनेन हेदितव्यम सवाध्याये तपसि दमे च नित्ययुक्तः; कषेमार्थी कुशलपरः सदा यतस्व ॥ 23 ॥
अव्यक्तप्रकृतिर अयं कला शरीरः; सूक्ष्मात्मा कषणत्रुतिशॊ निमेष रॊमा ऋत्वास्यः समबलशुक्लकृष्णनेत्रॊ; मानाङ्गॊ दरवति वयॊ हयॊ नराणाम ॥ 24 ॥
तं दृष्ट्वा परसृतम अजस्रम उग्रवेगं; गच्छन्तं सततम इहाव्यपेक्षमाणम चक्षुस ते यदिन परप्रणेतृनेयं; धर्मे ते भवतु मनः परं निशम्य ॥ 25 ॥
ये ऽमी तु परचलित धर्मकामवृत्ताः; करॊशन्तः सततम अनिष्ट संप्रयॊगाः कलिश्यन्ते परिगत वेदनाशरीरा; बह्वीभिः सुभृशम अधर्मवासनाभिः ॥ 26 ॥
राजा धर्मपरः सदा शुभगॊप्ता; समीक्ष्य सुकृतिनां दधाति लॊकान बहुविधम अपि चरतः परदिशति; सुखम अनुपगतं निरवद्यम ॥ 27 ॥
शवानॊ भीसनायॊ मुखानि वयांसि; वद गृध्रकुलपक्षिणां च संघाः नरां कदने रुधिरपा गुरुवचन;नुदम उपरतं विशसन्ति ॥ 28 ॥
मर्यादा नियताः सवयम्भुवा य इहेमाः; परभिनत्ति दशगुणा मनॊऽनुगत्वात निवसति भृशम असुखं पितृविषय;विपिनम अवगाह्य स पापः ॥ 29 ॥
यॊ लुब्धः सुभृशं परियानृतश च मनुष्यः; सततनिकृतिवञ्चनारतिः सयात उपनिधिभिर असुखकृत स परमनिरयगॊ; भृशम असुखम अनुभवति दुष्कृत कर्मा ॥ 30 ॥
उष्मां वैतरणीं महानदीम; अवगाधॊ ऽसि पत्रवनभिन्न गात्रः परशु वनशयॊ निपतितॊ; वसति च महानिरये भृशार्तः ॥ 31 ॥
महापदानि कत्थसे न चाप्य अवेक्षसे परम चिरस्य मृत्युकारिकाम अनागतां न बुध्यसे ॥ 32 ॥
परयास्यतां किम आस्यते समुत्थितं महद भयम अतिप्रमाथि दारुणं सुखस्य संविधीयताम ॥ 33 ॥
पुरा मृतः परनीयसे यमस्य मृत्युशासनात तद अन्तिकाय दारुणैः परयत्नम आर्जवे कुरु ॥ 34 ॥
पुरा समूल बान्धवं परभुर हरत्य अदुःखवित तवेह जीवितं यमॊ न चास्ति तस्य वारकः ॥ 35 ॥
पुरा विवाति मारुतॊ यमस्य यः पुरःसरः पुरैक एव नीयसे कुरुष्व साम्परायिकम ॥ 36 ॥
पुरा सहिक्क एव ते परवाति मारुतॊ ऽनतकः पुरा च विभ्रमन्ति ते दिशॊ महाभयागमे ॥ 37 ॥
समृतिश च संनिरुध्यते पुरा तवेह पुत्रक समाकुलस्य गच्छतः समाधिम उत्तमं कुरु ॥ 38 ॥
कृताकृते शुभाशुभे परमादकर्म विप्लुते समरन पुरा न तप्यसे निधत्स्व केवलं निधिम ॥ 39 ॥
पुरा जरा कलेवरं विजर्जरी करॊति ते बलाङ्गरूपहारिणी निधत्स्व केवलं निधिम ॥ 40 ॥
पुरा शरीरम अन्तकॊ भिनत्ति रॊगसायकैः परसह्य जीवितक्षये तपॊ महत समाचर ॥ 41 ॥
पुरा वृका भयंकरा मनुष्यदेहगॊचराः अभिद्रवन्ति सर्वतॊ यतस्व पुण्यशीलने ॥ 42 ॥
पुरान्धकारम एककॊ ऽनुपश्यसि तवरस्व वै पुरा हिरन मयान नगान निरीक्षसे ऽदरिमूर्धनि ॥ 43 ॥
पुरा कुसंगतानि ते सुहृन मुखाश च शत्रवः विचालयन्ति दर्शनाद घतस्व पुत्र यत परम ॥ 44 ॥
धनस्य यस्य राजतॊ भयं न चास्ति चौरतः मृतं च यन न मुञ्चति समर्जयस्व तद धनम ॥ 45 ॥
न तत्र संविभज्यते सवकर्मभिः परस्परम यद एव यस्य यौतकं तद एव तत्र सॊ ऽशनुते ॥ 46 ॥
परत्र येन जीव्यते तद एव पुत्र दीयताम धनं यद अक्षयं धरुवं समर्जयस्व तत सवयम ॥ 47 ॥
न यावद एव पच्यते महाजनस्य यावकम अपक्व एव यावके पुरा परनीयसे तवर ॥ 48 ॥
न मातृपितृबान्धवा न संस्तुतः परियॊ जनः अनुव्रजन्ति संकते वरजन्तम एकपातिनाम ॥ 49 ॥
यद एव कर्म केवलं सवयं कृतं शुभाशुभम तद एव तस्य यौतकं भवत्य अमुत्र गच्छतः ॥ 50 ॥
हिरण्यरत्नसंचयाः शुभाशुभेन संचिताः न तस्य देहसंक्षये भवन्ति कार्यसाधकाः ॥ 51 ॥
परत्र गामिकस्य ते कृताकृतस्य कर्मणः न साक्षिर आत्मना समॊ नृणाम इहास्ति कश चन ॥ 52 ॥
मनुष्यदेहशून्यकं भवत्य अमुत्र गच्छतः परपश्य बुद्धिचक्षुषा परदृश्यते हि सर्वतः ॥ 53 ॥
इहाग्निसूर्यवायवः शरीरम आश्रितास तरयः त एव तस्य साक्षिणॊ भवन्ति धर्मदर्शिनः ॥ 54 ॥
यथानिशेषु सर्वतः सपृशत्सु सर्वदारिषु परकाशगूढ वृत्तिषु सवधर्मम एव पालय ॥ 55 ॥
अनेकपारिपन्थिके विरूपरौद्ररक्षिते सवम एव कर्म रक्ष्यतां सवकर्म तत्र गच्छति ॥ 56 ॥
न तत्र संविभज्यते सवकर्मणा परस्परम यथा कृतं सवकर्मजं तद एव भुज्यते फलम ॥ 57 ॥
यथाप्सरॊ गणाः फलं सुखं महर्षिभिः सह तथाप्नुवन्ति कर्मतॊ विमानकामगानिमः ॥ 58 ॥
यथेह यत्कृतं शुभं विपाप्मभिः कृतात्मभिः तद आप्नुवन्ति मानवास तथा विशुद्धयॊनयः ॥ 59 ॥
परजापतेः सलॊकतां बृहस्पतेः शतक्रतॊः वरजन्ति ते परां गतिं गृहस्थ धर्मसेतुभिः ॥ 60 ॥
सहस्रशॊ ऽपय अनेकशः परवक्तुम उत्सहामहे अबुद्धि मॊहनं पुनः परभुर विना न यावकम ॥ 61 ॥
गता दविर अस्तवर्षता धरुवॊ ऽसि पञ्चविंशकः कुरुष्व धर्मसंचयं वयॊ हि ते ऽतिवर्तते ॥ 62 ॥
पुरा करॊति सॊ ऽनतकः परमादगॊमुखं दमम यथागृहीतम उत्थितं तवरस्व धर्मपालने ॥ 63 ॥
यदा तवम एव पृष्ठतस तवम अग्रतॊ गमिष्यसि तथागतिं गमिष्यतः किम आत्मना परेण वा ॥ 64 ॥
यद एकपातिनां सतां भवत्य अमुत्र गच्छताम भयेषु साम्परायिकं निधत्स्व तं महानिधिम ॥ 65 ॥
सकूल मूलबान्धवं परभुर हरत्य असङ्गवान न सन्ति यस्य वारकाः कुरुष्व धर्मसंनिधिम ॥ 66 ॥
इदं निदर्शनं मया तवेह पुत्र संमतम सवधर्शनानुमानतः परवर्नितं कुरुष्व तत ॥ 67 ॥
दधाति यः सवकर्मणा धनानि यस्य कस्य चित अबुद्धि मॊहजैर गुणैः शतैक एव युज्यते ॥ 68 ॥
शरुतं समर्थम अस्तु ते परकुर्वतः शुभाः करियाः तद एव तत्र दर्शनं कृतज्ञम अर्थसंहितम ॥ 69 ॥
निबन्धनी रज्जुर एषा या गरामे वसतॊ रतिः छित्त्वैनां सुकृतॊ यान्ति नैनां छिन्दन्ति दुष्कृतः ॥ 70 ॥
किं ते धनेन किं बन्धुभिस ते; किं ते पुत्रैः पुत्रक यॊ मरिष्यसि आत्मानम अन्विच्छ गुहां परविष्टं; पितामहास ते कव गताश च सर्वे ॥ 71 ॥
शवः कार्यम अद्य कुर्वीत पूर्वाह्ने चापराह्निकम कॊ हि तद वेद कस्याद्य मृत्युसेना निवेक्ष्यते ॥ 72 ॥
अनुगम्य शमशानान्तं निवर्तन्तीह बान्धवाः अग्नौ परक्षिप्य पुरुषं जञातयः सुहृदस तथा ॥ 73 ॥
नास्तिकान निरनुक्रॊशान नरान पापमतौ सथितान वामतः कुरु विश्रब्धं परं परेप्सुर अतन्द्रितः ॥ 74 ॥
एवम अभ्याहते लॊके कालेनॊपनिपीदिते सुमहद धैर्यम आलम्ब्य धर्मं सर्वात्मना कुरु ॥ 75 ॥
अथेमं दर्शनॊपायं सम्यग यॊ वेत्ति मानवः सम्यक स धर्मं कृत्वेह परत्र सुखम एधते ॥ 76 ॥
न देहभेदे मरणं विजानतां; न च परनाशः सवनुपालिते पथि धर्मं हि यॊ वर्धयते स पण्डितॊ; य एव धर्माच चयवते स मुह्यति ॥ 77 ॥
परयुक्तयॊः कर्म पथि सवकर्मणॊः; फलं परयॊक्ता लभते यथाविधि निहीन कर्मा निरयं परपद्यते; तरिविष्टपं गच्छति धर्मपारगः ॥ 78 ॥
सॊपानभूतं सवर्गस्य मानुष्यं पराप्य दुर्लभम तथात्मानं समादध्याद भरश्येत न पुनर यथा ॥ 79 ॥
यस्य नॊत्क्रामति मतिः सवर्गमार्गानुसारिणी तम आहुः पुण्यकर्माणम अशॊच्यं मित्र बान्धवैः ॥ 80 ॥
यस्य नॊपहता बुद्धिर निश्चयेष्व अवलम्बते सवर्गे कृतावकाशस्य तस्य नास्ति महद भयम ॥ 81 ॥
तपॊवनेषु ये जातास तत्रैव निधनं गताः तेषाम अल्पतरॊ धर्मः कामभॊगम अजानताम ॥ 82 ॥
यस तु भॊगान परित्यज्य शरीरेण तपश चरेत न तेन किं चिन न पराप्तं तन मे बहुमतं फलम ॥ 83 ॥
माता पितृसहस्राणि पुत्रदारशतानि च अनागतान्य अतीतानि कस्य ते कस्य वा वयम ॥ 84 ॥
न तेषां भवता कार्यं न कार्यं तव तैर अपि सवकृतैस तानि यातानि भवांश चैव गमिष्यति ॥ 85 ॥
इह लॊके हि धनिनः परॊ ऽपि सवजनायते सवजनस तु दरिद्राणां जीवताम एव नश्यति ॥ 86 ॥
संचिनॊत्य अशुभं कर्म कलत्रापेक्षया नरः ततः कलेशम अवाप्नॊति परत्रेह तथैव च ॥ 87 ॥
पश्य तवं छिद्रभूतं हि जीवलॊकं सवकर्मणा तत कुरुष्व तथा पुत्रकृत्स्नं यत समुदाहृतम ॥ 88 ॥
तद एतत संप्रदृश्यैव कर्मभूमिं परविश्य ताम शुभान्य आचरितव्यानि परलॊकम अभीप्सता ॥ 89 ॥
मासर्तु संज्ञा परिवर्तकेन; सूर्याङ्गिना रात्रिदिवेन्धनेन सवकर्म निष्ठा फलसाक्षिकेण; भूतानि कालः पचति परसह्य ॥ 90 ॥
धनेन किं यन न ददाति नाश्नुते; बलेन किं येन रिपून न बाधते शरुतेन किं येन न धर्मम आचरेत; किम आत्मना यॊ न जितेन्द्रियॊ वशी ॥ 91 ॥
इदं दवैपायन वचॊ हितम उक्तं निशम्य तु शुकॊ गतः परित्यज्य पितरं मॊक्षदेशिकम ॥ 92 ॥
शान्तिपर्व · Shanti Parva
अध्याय 309
Reach this point to mark the section finished.
Continue to अध्याय 310