[वैषम्पायन] ततॊ राजा पाण्डुसुतॊ नारदं परत्यभाषत भगवञ शरॊतुम इच्छामि सुवर्णष्ठीवि संभवम ॥ 1 ॥
एवम उक्तः स च मुनिर धर्मराजेन नारदः आचचक्षे यथावृत्तं सुवर्णष्ठीविनं परति ॥ 2 ॥
एवम एतन महाराज यथायं केशवॊ ऽबरवीत कार्यस्यास्य तु यच छेषं तत ते वक्ष्यामि पृच्छतः ॥ 3 ॥
अहं च पर्वतश चैव सवस्रीयॊ मे महामुनिः वस्तु कामाव अभिगतौ सृञ्जयं जयतां वरम ॥ 4 ॥
तत्र संपूजितौ तेन विधिदृष्टेन कर्मणा सर्वकामैः सुविहितौ निवसावॊ ऽसय वेश्मनि ॥ 5 ॥
वयतिक्रान्तासु वर्षासु समये गमनस्य च पर्वतॊ माम उवाचेदं काले वचनम अर्थवत ॥ 6 ॥
आवाम अस्य नरेन्द्रस्य गृहे परमपूजितौ उषितौ समये बरह्मंश चिन्त्यताम अत्र सांप्रतम ॥ 7 ॥
ततॊ ऽहम अब्रुवं राजन पर्वतं शुभदर्शनम सर्वम एतत तवयि विभॊ भागिनेयॊपपद्यते ॥ 8 ॥
वरेण छन्द्यतां राजा लभतां यद यद इच्छति आवयॊस तपसा सिद्धिं पराप्नॊतु यदि मन्यसे ॥ 9 ॥
तत आहूय राजानं सृञ्जयं शुभदर्शनम पर्वतॊ ऽनुमतं वाक्यम उवाच मुनिपुंगवः ॥ 10 ॥
परीतौ सवॊ नृप सत्कारैस तव हय आर्जवसंभृतैः आवाभ्याम अभ्यनुज्ञातॊ वरं नृवर चिन्तय ॥ 11 ॥
देवानाम अविहिंसायां यद भवेन मानुषक्षमम तद्गृहाण महाराज पूजार्हॊ नौ मतॊ भवान ॥ 12 ॥
[सृन्जय] परीतौ भवन्तौ यदि मे कृतम एतावता मम एष एव परॊ लाभॊ निर्वृत्तॊ मे महाफलः ॥ 13 ॥
[नारद] तम एवं वादिनं भूयः पर्वतः परत्यभाषत वृणीष्व राजन संकल्पॊ यस ते हृदि चिरं सथितः ॥ 14 ॥
[सृन्जय] अभीप्सामि सुतं वीरं वीर्यवन्तं दृढव्रतम आयुष्मन्तं महाभागं देवराजसमद्युतिम ॥ 15 ॥
[पर्वत] भविष्यत्य एष ते कामॊ न तव आयुष्मान भविष्यति देवराजाभिभूत्य अर्थं संकल्पॊ हय एष ते हृदि ॥ 16 ॥
सुवर्णष्ठीवनाच चैव सवर्णष्ठीवी भविष्यति रक्ष्यश च देवराजात स देवराजसमद्युतिः ॥ 17 ॥
[नारद] तच छरुत्वा सृञ्जयॊ वाक्यं पर्वतस्य महात्मनः परसादयाम आस तदा नैतद एवं भवेद इति ॥ 18 ॥
आयुष्मान मे भवेत पुत्रॊ भवतस तपसा मुने न च तं पर्वतः किं चिद उवाचेन्द्र वयपेक्षया ॥ 19 ॥
तम अहं नृपतिं दीनम अब्रुवं पुनर एव तु समर्तव्यॊ ऽहं महाराज दर्शयिष्यामि ते समृतः ॥ 20 ॥
अहं ते दयितं पुत्रं परेतराजवशं गतम पुनर दास्यामि तद रूपं मा शुचः पृथिवीपते ॥ 21 ॥
एवम उक्त्वा तु नृपतिं परयातौ सवॊ यथेप्सितम सृञ्जयश च यथाकामं परविवेश सवमन्दिरम ॥ 22 ॥
सृञ्जयस्याथ राजर्षेः कस्मिंश चित कालपर्यये जज्ञे पुत्रॊ महावीर्यस तेजसा परज्वलन्न इव ॥ 23 ॥
ववृधे स यथाकालं सरसीव महॊत्पलम बभूव काञ्चनष्ठीवी यथार्थं नाम तस्य तत ॥ 24 ॥
तद अद्भुततमं लॊके पप्रथे कुरुसत्तम बुबुधे तच च देवेन्द्रॊ वरदानं महात्मनॊः ॥ 25 ॥
ततस तव अभिभवाद भीतॊ बृहस्पतिमते सथितः कुमारस्यान्तर परेक्षी बभूव बलवृत्र हा ॥ 26 ॥
चॊदयाम आस वज्रं स दिव्यास्त्रं मूर्ति संस्थितम वयाघ्रॊ भूत्वा जहीमं तवं राजपुत्रम इति परभॊ ॥ 27 ॥
विवृद्धः किल वीर्येण माम एषॊ ऽभिभविष्यति सृञ्जयस्य सुतॊ वज्रयथैनं पर्वतॊ ददौ ॥ 28 ॥
एवम उक्तस तु शक्रेण वर्जॊ बर पुरंजयः कुमारस्यान्तर परेक्षी नित्यम एवान्वपद्यत ॥ 29 ॥
सृञ्जयॊ ऽपि सुतं पराप्य देवराजसमद्युतिम हृष्टः सान्तःपुरॊ राजा वननित्यॊ ऽभवत तदा ॥ 30 ॥
ततॊ भागीरथी तीरे कदा चिद वननिर्झरे धात्री दवितीयॊ बालः स करीडार्थं पर्यधावत ॥ 31 ॥
पञ्चवर्षक देशीयॊ बालॊ नागेन्द्र विक्रमः सहसॊत्पतितं वयाघ्रम आससाद महाबलः ॥ 32 ॥
तेन चैव विनिष्पिष्टॊ वेपमानॊ नृपात्म जः वयसुः पपात मेदिन्यां ततॊ धात्री विचुक्रुशे ॥ 33 ॥
हत्वा तु राजपुत्रं स तत्रैवान्तरधीयत शार्दूलॊ देवराजस्य माययान्तर हितस तदा ॥ 34 ॥
धात्र्यास तु निनदं शरुत्वा रुदत्याः परमार्तवत अभ्यधावत तं देशं सवयम एव महीपतिः ॥ 35 ॥
स ददर्श गतासुं तं शयानं पीतशॊणितम कुमारं विगतानन्दं निशाकरम इव चयुतम ॥ 36 ॥
स तम उत्सङ्गम आरॊप्य परिपीडित वक्षसम पुत्रं रुधिरसंसिक्तं पर्यदेवयद आतुरः ॥ 37 ॥
ततस ता मातरस तस्य रुदन्त्यः शॊककर्शिताः अभ्यधावन्त तं देशं यत्र राजा स सृञ्जयः ॥ 38 ॥
ततः स राजा सस्मार माम अन्तर्गतमानसः तच चाहं चिन्तितं जञात्वा गतवांस तस्य दर्शनम ॥ 39 ॥
स मयैतानि वाक्यानि शरावितः शॊकलालसः यानि ते यदुवीरेण कथितानि महीपते ॥ 40 ॥
संजीवितश चापि मया वासवानुमते तदा भवितव्यं तथा तच च न तच छक्यम अतॊ ऽनयथा ॥ 41 ॥
अत ऊर्ध्वं कुमारः सस्वर्ण षठीवी महायशाः चित्तं परसादयाम आस पितुर मातुश च वीर्यवान ॥ 42 ॥
कारयाम आस राज्यं स पितरि सवर्गते विभुः वर्षाणाम एकशतवत सहस्रं भीमविक्रमः ॥ 43 ॥
तत इष्ट्वा महायज्ञैर बहुभिर भूरिदक्षिणैः तर्पयाम आस देवांश च पितॄंश चैव महाद्युतिः ॥ 44 ॥
उत्पाद्य च बहून पुत्रान कुलसंतान कारिणः कालेन महता राजन कालधर्मम उपेयिवान ॥ 45 ॥
स तवं राजेन्द्र संजातं शॊकम एतन निवर्तय यथा तवां केशवः पराह वयासश च सुमहातपाः ॥ 46 ॥
पितृपैतामहं राज्यम आस्थाय दुरम उद्वह इष्ट्वा पुण्यैर महायज्ञैर इष्टाँल लॊकान अवाप्स्यसि ॥ 47 ॥
शान्तिपर्व · Shanti Parva
अध्याय 31
Reach this point to mark the section finished.
Continue to अध्याय 32