धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 30

  1. [युधिस्ठिर] स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतॊ ऽभवत पर्वतेन किमर्थं च दत्तः केन ममार च ॥ 1 ॥

  2. यदा वर्षसहस्रायुस तदा भवति मानवः कथम अप्राप्तकौमारः सृञ्जयस्य सुतॊ मृतः ॥ 2 ॥

  3. उताहॊ नाममात्रं वै सुवर्णष्ठीविनॊ ऽभवत तथ्यं वा काञ्चनष्ठीवीत्य एतद इच्छामि वेदितुम ॥ 3 ॥

  4. [वासुदेव] अत्र ते कथयिष्यामि यथावृत्तं जनेश्वर नारदः पर्वतश चैव पराग ऋषी लॊकपूजितौ ॥ 4 ॥

  5. मातुलॊ भागिनेयश च देवलॊकाद इहागतौ विहर्तु कामौ संप्रीत्या मानुष्येषु पुरा परभू ॥ 5 ॥

  6. हविः पवित्रभॊज्येन देव भॊज्येन चैव ह नारदॊ मातुलश चैव भागिनेयश च पर्वतः ॥ 6 ॥

  7. ताव उभौ तपसॊपेताव अवनी तलचारिणौ भुञ्जानौ मानुषान भॊगान यथावत पर्यधावताम ॥ 7 ॥

  8. परीतिमन्तौ मुदा युक्तौ समयं तत्र चक्रतुः यॊ भवेद धृदि संकल्पः शुभॊ वा यदि वाशुभः अन्यॊन्यस्य स आख्येयॊ मृषा शापॊ ऽनयथा भवेत ॥ 8 ॥

  9. तौ तथेति परतिज्ञाय महर्षी लॊकपूजितौ सृञ्जयं शवैत्यम अभ्येत्य राजानम इदम ऊचतुः ॥ 9 ॥

  10. आवां भवति वत्स्यावः कं चित कालं हिताय ते यथावत पृथिवीपालावयॊः परगुणी भव तथेति कृत्वा तौ राजा सत्कृत्यॊपचचार ह ॥ 10 ॥

  11. ततः कदा चित तौ राजा महात्मानौ तथागतौ अब्रवीत परमप्रीतः सुतेयं वरवर्णिनी ॥ 11 ॥

  12. एकैव मम कन्यैषा युवां परिचरिष्यति दर्शनीयानवद्याङ्गी शीलवृत्तसमन्विता सुकुमारी कुमारी च पद्मकिञ्जल्क संनिभा ॥ 12 ॥

  13. परमं सौम्य इत्य उक्तस ताभ्यां राजा शशास ताम कन्ये विप्राव उपचर देववत पितृवच च ह ॥ 13 ॥

  14. सा तु कन्या तथेत्य उक्त्वा पितरं धर्मचारिणी यथानिदेशं राज्ञस तौ सत्कृत्यॊपचचार ह ॥ 14 ॥

  15. तस्यास तथॊपचारेण रूपेणाप्रतिमेन च नारदं हृच्छयस तूर्णं सहसैवान्वपद्यत ॥ 15 ॥

  16. ववृधे च ततस तस्य हृदि कामॊ महात्मनः यथा शुक्लस्य पक्षस्य परवृत्ताव उडुराट शनैः ॥ 16 ॥

  17. न च तं भागिनेयाय पर्वताय महात्मने शशंस मन्मथं तीव्रं वरीडमानः स धर्मवित ॥ 17 ॥

  18. तपसा चेङ्गितेनाथ पर्वतॊ ऽथ बुबॊध तत कामार्तं नारदं करुद्धः शशापैनं ततॊ भृशम ॥ 18 ॥

  19. कृत्वा समयम अव्यग्रॊ भवान वै सहितॊ मया यॊ भवेद धृदि संकल्पः शुभॊ वा यदि वाशुभः ॥ 19 ॥

  20. अन्यॊन्यस्य स आख्येय इति तद वै मृषा कृतम भवता वचनं बरह्मंस तस्माद एतद वदाम्य अहम ॥ 20 ॥

  21. न हि कामं परवर्तन्तं भवान आचष्ट मे पुरा सुकुमार्यां कुमार्यां ते तस्माद एष शपाम्य अहम ॥ 21 ॥

  22. बरह्मवादी गुरुर यस्मात तपस्वी बरह्मणश च सन अकार्षीः समयभ्रंशम आवाभ्यां यः कृतॊ मिथः ॥ 22 ॥

  23. शप्स्ये तस्मात सुसंक्रुद्धॊ भवन्तं तं निबॊध मे सुकुमारी च ते भार्या भविष्यति न संशयः ॥ 23 ॥

  24. वानरं चैव कन्या तवां विवाहात परभृति परभॊ संद्रक्ष्यन्ति नराश चान्ये सवरूपेण विनाकृतम ॥ 24 ॥

  25. स तद वाक्यं तु विज्ञाय नारदः पर्वतात तदा अशपत तम अपि करॊधाद भागिनेयं स मातुलः ॥ 25 ॥

  26. तपसा बरह्मचर्येण सत्येन च दमेन च युक्तॊ ऽपि धर्मनित्यश च न सवर्गवासम आप्स्यसि ॥ 26 ॥

  27. तौ तु शप्त्वा भृशं करुद्धौ परस्परम अमर्षणौ परतिजग्मतुर अन्यॊन्यं करुद्धा इव गजॊत्तमौ ॥ 27 ॥

  28. पर्वतः पृथिवीं कृत्स्नां विचचार महामुनिः पूज्यमानॊ यथान्यायं तेजसा सवेन भारत ॥ 28 ॥

  29. अथ ताम अलभत कन्यां नारदः सृञ्जयात्म जाम धर्मेण धर्मप्रवरः सुकुमारीम अनिन्दिताम ॥ 29 ॥

  30. सा तु कन्या यथा शापं नारदं तं ददर्श ह पाणिग्रहण मन्त्राणां परयॊगाद एव वानरम ॥ 30 ॥

  31. सुकुमारी च देवर्षिं वानरप्रतिमाननम नैवावमन्यत तदा परीतिमत्य एव चाभवत ॥ 31 ॥

  32. उपतस्थे च भर्तारं न चान्यं मनसाप्य अगात देवं मुनिं वा यक्षं वा पतित्वे पतिवत्सला ॥ 32 ॥

  33. ततः कदा चिद भगवान पर्वतॊ ऽनुससार ह वनं विरहितं किं चित तत्रापश्यत स नारदम ॥ 33 ॥

  34. ततॊ ऽभिवाद्य परॊवाच नारदं पर्वतस तदा भवान परसादं कुरुतां सवर्गा देशाय मे परभॊ ॥ 34 ॥

  35. तम उवाच ततॊ दृष्ट्वा पर्वतं नारदस तदा कृताञ्जलिम उपासीनं दीनं दीनतरः सवयम ॥ 35 ॥

  36. तवयाहं परथमं शप्तॊ वानरॊ तवं भविष्यसि इत्य उक्तेन मया पश्चाच छप्तस तवम अपि मत्सरात अद्य परभृति वै वासं सवर्गे नावाप्स्यसीति ह ॥ 36 ॥

  37. तव नैतद धि सदृशं पुत्र सथाने हि मे भवान निवर्तयेतां तौ शापम अन्यॊ ऽनयेन तदा मुनी ॥ 37 ॥

  38. शरीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम सुकुमारी परदुद्राव परपत्य अभिशङ्कया ॥ 38 ॥

  39. तां पर्वतस ततॊ दृष्ट्वा परद्रवन्तीम अनिन्दिताम अब्रवीत तव भर्तैष नात्र कार्या विचारणा ॥ 39 ॥

  40. ऋषिः परमधर्मात्मा नारदॊ भगवान परभुः तवैवाभेद्य हृदयॊ मा ते भूद अत्र संशयः ॥ 40 ॥

  41. सानुनीता बहुविधं पर्वतेन महात्मना शापदॊषं च तं भर्तुः शरुत्वा सवां परकृतिं गता पर्वतॊ ऽथ ययौ सवर्गं नारदॊ ऽथ ययौ गृहान ॥ 41 ॥

  42. परत्यक्षकर्मा सर्वस्य नारदॊ ऽयं महान ऋषिः एष वक्ष्यति वै पृष्टॊ यथावृत्तं नरॊत्तम ॥ 42 ॥

Reach this point to mark the section finished.

Continue to अध्याय 31

Previous: अध्याय 29