धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 308

  1. [य] अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम कः पराप्तॊ विनयं बुद्ध्या मॊक्षतत्त्वं वदस्व मे ॥ 1 ॥

  2. संन्यस्यते यथात्मायं संन्यस्तात्मा यथा च यः परं मॊक्षस्य यच चापि तन मे बरूहि पितामह ॥ 2 ॥

  3. [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम जनकस्य च संवादं सुलभायाश च भारत ॥ 3 ॥

  4. संन्यासफलिकः कश चिद बभूव नृपतिः पुरा मैथिलॊ जनकॊ नाम धर्मध्वज इति शरुतः ॥ 4 ॥

  5. स वेदे मॊक्षशास्त्रे च सवे च शास्त्रे कृतागमः इन्द्रियाणि समाधाय शशास वसुधाम इमाम ॥ 5 ॥

  6. तस्य वेदविदः पराज्ञाः शरुत्वा तां सादु वृत्तताम लॊकेषु सपृहयन्त्य अन्ये पुरुषाः पुरुषेश्वर ॥ 6 ॥

  7. अथ धर्मयुगे तस्मिन यॊगधर्मम अनुष्ठिता महीम अनुचचारैका सुलभा नाम भिक्षुकी ॥ 7 ॥

  8. तया जगद इदं संवम अतन्त्या मिथिलेश्वरः तत्र तत्र शरुतॊ मॊक्षे कथ्यमानस तरिदन्दिभिः ॥ 8 ॥

  9. सा सुसूक्ष्मां कथां शरुत्वा तथ्यं नेति ससंशया दर्शने जातसंकल्पा जनकस्य बभूव ह ॥ 9 ॥

  10. ततः सा विप्रहायाथ पूर्वरूपं हि यॊगतः अबिभ्रद अनवद्याङ्गी रूपम अन्यद अनुत्तमम ॥ 10 ॥

  11. चक्षुर निमेष मात्रेण लघ्व अस्त्रगतिगामिनी विदेहानां पुरीं सुभ्रूर जगाम कमलेक्षणा ॥ 11 ॥

  12. सा पराप्य मिथिलां रम्यां समृद्धजनसंकुलाम भैक्षचर्यापदेशेन ददर्श मिथिलेश्वरम ॥ 12 ॥

  13. राजा तस्याः परं दृष्ट्वा सौकुमार्यं वपुस तथा केयं कस्य कुतॊ वेति बभूवागत विस्मयः ॥ 13 ॥

  14. ततॊ ऽसयाः सवागतं कृत्वा वयादिश्य च वरासनम पूजितां पादशौचेन वरान्नेनाप्य अतर्पयत ॥ 14 ॥

  15. अथ भुक्तवती परीता राजानं मन्त्रिभिर वृतम सर्वभाष्यविदां मध्ये चॊदयाम आस भिक्षुकी ॥ 15 ॥

  16. सुलभा तव अस्य धर्मेषु मुक्तॊ नेति ससंशया सत्त्वं सत्त्वेन यॊगज्ञा परविवेश महीपते ॥ 16 ॥

  17. नेत्राभ्यां नेत्रयॊर अस्य रश्मीन संयॊज्य रश्मिभिः सा सम संचॊदयिष्यन्तम्यॊग बन्धैर बबन्ध ह ॥ 17 ॥

  18. जनकॊ ऽपय उत्स्मयन राजा भावम अस्या विशेषयन परतिजग्राह भावेन भावम अस्या नृपॊत्तमः ॥ 18 ॥

  19. तद एकस्मिन्न अधिष्ठाने संवादः शरूयताम अयम छत्त्रादिषु विमुक्तस्य मुक्तायाश च तरिदण्डके ॥ 19 ॥

  20. भगवत्याः कव चर्येयं कृता कव च गमिष्यसि कस्य च तवं कुतॊ वेति पप्रच्छैनां महीपतिः ॥ 20 ॥

  21. शरुते वयसि जातौ च सद्भावॊ नाधिगम्यते एष्व अर्थेषूत्तरं तस्मात परवेद्यं तः समागमे ॥ 21 ॥

  22. छत्त्रादिषु विशेषेषु मुक्तं मां विद्धि सर्वशः स तवां संमन्तुम इच्छामि माहार्हासि मता हि मे ॥ 22 ॥

  23. यस्माच चैतन मया पराप्तं जञानं वैशेषिकं पुरा यस्य नान्यः परवक्तास्ति मॊक्षे तम अपि मे शृणु ॥ 23 ॥

  24. पाराशर्यस गॊत्रस्य वृद्धस्य सुमहात्मनः भिक्षॊः पञ्चशिखस्याहं शिष्यः परमसंमतः ॥ 24 ॥

  25. सांख्यज्ञाने तथा यॊगे महीपाल विधौ तथा तरिविधे मॊक्षधर्मे ऽसमिन गताध्वा छिन्नसंशयः ॥ 25 ॥

  26. स यथाशास्त्रदृष्टेन मार्गेणेह परिव्रजन वार्षिकांश चतुरॊ मासान पुरा मयि सुखॊषितः ॥ 26 ॥

  27. तेनाहं सांक्य मुख्येन सुदृष्टार्थेन तत्त्वतः शरावितस तरिविधं मॊक्षं न च राज्याद विचालिथ ॥ 27 ॥

  28. सॊ ऽहं ताम अखिलां वृत्तिं तरिविधां मॊक्षसंहिताम मुक्तरागश चराम्य एकः पदे परमके सथितः ॥ 28 ॥

  29. वैराग्यं पुनर एतस्य मॊक्षस्य परमॊ विधिः जञानाद एव च वैराग्यं जायते येन मुच्यते ॥ 29 ॥

  30. जञानेन कुरुते यत्नं यत्नेन पराप्यते महत महद दवन्द्वप्रमॊक्षाय सा सिद्धिर या वयॊ ऽतिगा ॥ 30 ॥

  31. सेयं परमिका बुद्धिः पराप्ता निर्द्वन्द्वता मया इहैव गतमॊहेन चरता मुक्तसङ्गिना ॥ 31 ॥

  32. यथा कषेत्रं मृदू भूतम अद्भिर आप्लावितं तथा जनयत्य अङ्कुरं कर्म नृणां तद्वत पुनर्भवम ॥ 32 ॥

  33. यथा चॊत्तापितं बीजं कपाले यत्र यत्र वा पराप्याप्य अङ्कुर हेतुत्वम अबीजत्वान न जायते ॥ 33 ॥

  34. तद्वद भगवता तेन शिखा परॊक्तेन भिक्षुणा जञानं कृतम अबीजं मे विषयेषु न जायते ॥ 34 ॥

  35. नाभिषज्जति कस्मिंश चिन नानर्थे न परिग्रहे नाभिरज्यति चैतेषु वयर्थत्वाद रागदॊषयॊः ॥ 35 ॥

  36. यश च मे दक्षिणं बाहुं चन्दनेन समुक्षयेत सव्यं वास्या च यस तक्षेत समाव एताव उभौ मम ॥ 36 ॥

  37. सुखी सॊ ऽहम अवाप्तार्थः समलॊक्षाश्म काञ्चनः मुक्तसङ्गः सथितॊ राज्ये विशिष्टॊ ऽनयैस तरिदन्दिभिः ॥ 37 ॥

  38. मॊक्षे हि तरिविधा निष्ठा दृष्टा पूर्वैर महर्षिभिः जञानं लॊकॊत्तरं यच च सर्वत्यागश च कर्मणाम ॥ 38 ॥

  39. जञाननिष्ठां वदन्त्य एके मॊक्षशास्त्रविदॊ जनाः कर्म निष्ठां तथैवान्ये यतयः सूक्ष्मदर्शिनः ॥ 39 ॥

  40. परहायॊभयम अप्य एतज जञानं कर्म च केवलम तृतीयेयं समाख्याता निष्ठा तेन महात्मना ॥ 40 ॥

  41. यमे च नियमे चैव दवेषे कामे परिग्रहे माने दम्भे तथा सनेहे सदृशास ते कुटुम्बिभिः ॥ 41 ॥

  42. तरिदण्डादिषु यद्य अस्ति मॊक्षॊ जञानेन केन चित छत्त्रादिषु कथं न सयात तुल्यहेतौ परिग्रहे ॥ 42 ॥

  43. येन येन हि यस्यार्थः कारणेनेह कस्य चित तत तद आलम्बते दरव्यं सर्वः सवे सवे परिग्रहे ॥ 43 ॥

  44. दॊषदर्शी तु गार्हस्थ्ये यॊ वरजत्य आश्रमान्तरम उत्सृजन परिगृह्नंश च सॊ ऽपि सङ्गान न मुच्यते ॥ 44 ॥

  45. आधिपत्ये तथा तुल्ये निग्रहानुग्रहात्मनि राजर्षिभिक्षुकाचार्या मुच्यन्ते केन केतुना ॥ 45 ॥

  46. अथ सत्याधिपत्ये ऽपि जञानेनैवेह केवलम मुच्यन्ते किं न मुच्यन्ते पदे परमके सथितः ॥ 46 ॥

  47. कासाय धारणं मौन्द्यं तरिविष्टब्धः कमन्दलुः लिङ्गान्य अत्यर्थम एतानि न मॊक्षायेति मे मतिः ॥ 47 ॥

  48. यदि सत्य अपि लिङ्गे ऽसमिञ जञानम एवात्र कारणम निर्मॊक्षायेह दुःखस्य लिङ्गमात्रं निरर्थकम ॥ 48 ॥

  49. अथ वा दुःखशैथिल्यं वीक्ष्य लिङ्गे कृता मतिः किं तद एवार्थसामान्य छत्त्रादिषु न लक्ष्यते ॥ 49 ॥

  50. आकिंचन्ये च मॊक्षॊ ऽसति कैंचन्ये नास्ति बन्धनम कैंचन्ये चेतरे चैव जन्तुर जञानेन मुच्यते ॥ 50 ॥

  51. तस्माद धर्मार्थकामेषु तथा राज्यपरिग्रहे बन्धनायतनेष्व एषु विद्ध्य अबन्धे पदे सथितम ॥ 51 ॥

  52. राज्यैश्वर्यमयः पाशः सनेहायतन बन्धनः मॊक्षाश्म निशितेनेह छिन्नस तयागासिना मया ॥ 52 ॥

  53. सॊ ऽहम एवंगतॊ मुक्तॊ जातास्थस तवयि भिक्षुकि अयथार्थॊ हि ते वर्णॊ वक्ष्यामि शृणु तन मम ॥ 53 ॥

  54. सौकुमार्यं तथारूपं वपुर अग्र्यं तथा वयः तवैतानि समस्तानि नियमश चेति संशयः ॥ 54 ॥

  55. यच चाप्य अननुरूपं ते लिङ्गस्यास्य विचेष्टितम मुक्तॊ ऽयं सयान न वेत्य अस्माद धर्षितॊ मत्परिग्रहः ॥ 55 ॥

  56. न च कामसमायुक्ते मुक्ते ऽपय अस्ति तरिदण्डकम न रक्ष्यते तवया चेदं न मुक्तस्यास्ति गॊपना ॥ 56 ॥

  57. मत पक्षसंश्रयाच चायं शृणु यस ते वयतिक्रमः आश्रयन्त्याः सवभावेन मम पूर्वपरिग्रहम ॥ 57 ॥

  58. परवेशस ते कृतः केन मम रास्त्रे पुरे तथा कस्य वा संनिसर्गात तवं परविष्टा हृदयं मम ॥ 58 ॥

  59. वर्णप्रवर मुख्यासि बराह्मणी कषत्रियॊ हय अहम नावयॊर एकयॊगॊ ऽसति मा कृथा वर्णसंकरम ॥ 59 ॥

  60. वर्तसे मॊक्षधर्मेषु गार्हस्थ्ये तव अहम आश्रमे अयं चापि सुकस्तस ते दवितीयॊ ऽऽशरमसंकरः ॥ 60 ॥

  61. सगॊत्रां वासगॊत्रां वा न वेद तवां न वेत्थ माम सगॊत्रम आविशन्त्यास ते तृतीयॊ गॊत्र संकरः ॥ 61 ॥

  62. अथ जीवति ते भर्ता परॊषितॊ ऽपय अथ वा कव चित अगम्या परभार्येति चतुर्थॊ धर्मसंकरः ॥ 62 ॥

  63. सा तवम एतान्य अकार्याणि कार्यापेक्षा वयवस्यसि अविज्ञानेन वा युक्ता मिथ्या जञानेन वा पुनः ॥ 63 ॥

  64. अथ वापि सवतन्त्रास्ति सवदॊषेणेह केन चित यदि किं चिच छरुतं ते ऽसि सर्वं कृतम अनर्थकम ॥ 64 ॥

  65. इदम अन्यत तृतीयं ते भावस्पर्श विघातकम दुष्टाया लक्ष्यते लिङ्गं परवक्तव्यं परकाशितम ॥ 65 ॥

  66. न मय्य एवाभिसंधिस ते जयैषिण्या जये कृतः येयं मत्परिषत कृत्स्ना जेतुम इच्छसि ताम अपि ॥ 66 ॥

  67. तथा हय एवं पुनश च तवं दृष्टिं सवां परतिमुञ्चसि मत पक्षप्रतिघाताय सवपक्षॊद्भावनाय च ॥ 67 ॥

  68. सा सवेनामर्षजेन तवम ऋद्धिमॊहेन मॊहिता भूयः सृजसि यॊगास्त्रं विषामृतम इवैकधा ॥ 68 ॥

  69. इच्छतॊर हि दवयॊर लाभः सत्रीपुंसॊर अमृतॊपमः अलाभश चाप्य अरक्तस्य सॊ ऽतर दॊषॊ विषॊपमः ॥ 69 ॥

  70. मा सप्रक्षीः सधु जानीस्व सवशास्त्रम अनुपालय कृतेयं हि विजिज्ञासा मुक्तॊ नेति तवया मम एतत सर्वं परतिच्छन्नं मयि नार्हसि गूहितुम ॥ 70 ॥

  71. सा यदि तवं सवकार्येण यद्य अन्यस्य महीपतेः तत्त्वं सत्त्र परतिच्छन्ना मयि नार्हसि गूहितुम ॥ 71 ॥

  72. न राजानं मृषा गच्छेन न दविजातिं कथंचनन न सत्रियं सत्री गुणॊपेतां हन्युर हय एते मृषा गताः ॥ 72 ॥

  73. राज्ञां हि बलम ऐश्वर्यं बरह्म बरह्मविदां बलम रूपयौवन सौभाग्यं सत्रीणां बलम अनुत्तमम ॥ 73 ॥

  74. अत एतैर बलैर एत बलिनः सवार्थम इच्छता आर्जवेनाभिगन्तव्या विनाशाय हय अनार्जवम ॥ 74 ॥

  75. सा तवं जातिं शरुतं वृत्तं भावं परकृतिम आत्मनः कृत्यम आगमने चैव वक्तुम अर्हसि तत्त्वतः ॥ 75 ॥

  76. इत्य एतैर असुखैर वाक्यैर अयुक्तैर असमञ्जसैः परत्यादिष्टा नरेन्द्रेण सुलभा न वयकम्पत ॥ 76 ॥

  77. उक्तवाक्ये तु नृपतौ सुलभा चारुदर्शना ततश चारुतरं वाक्यं परचक्रामाथ भासितुम ॥ 77 ॥

  78. नवभिर नवभिश चैव दॊषैर वाग्बुद्धिदूसनैः अपेतम उपपन्नार्थम अस्ता दशगुणान्वितम ॥ 78 ॥

  79. सौक्ष्म्यं संख्या करमौ चॊभौ निर्नयः सप्रयॊजनः पञ्चैतान्य अर्थजातानि वाक्यम इत्य उच्यते नृप ॥ 79 ॥

  80. एषाम एकैकशॊ ऽरथानां सौक्ष्म्यादीनां सुलक्षणम शृणु संसार्यमाणानां पदार्थैः पदवाक्यतः ॥ 80 ॥

  81. जञानं जञेयेषु भिन्नेषु यथा भेदेन वर्तते तत्रातिशयिनी बुद्धिस तत सौक्ष्म्यम इति वर्तते ॥ 81 ॥

  82. दॊषाणां च गुणानां च परमाणं परैविभागशः कं चिद अर्थम अभिप्रेत्य सा संख्येत्य उपधार्यताम ॥ 82 ॥

  83. इदं पूर्वम इदं पश्चाद वक्तव्यं यद विवक्षितम करमयॊगं तम अप्य आहुर वाक्यं वाक्यविदॊ जनाः ॥ 83 ॥

  84. धर्मार्थकाममॊक्षेषु परतिज्ञाय विशेषतः इदं तद इति वाक्यान्ते परॊच्यते स विनिर्नयः ॥ 84 ॥

  85. इच्छा दवेषभवैर दुःखैः परकर्षॊ यत्र जायते तत्र या नृपते वृत्तिस तत परयॊजनम इष्यते ॥ 85 ॥

  86. तान्य एतानि यथॊक्तानि सैक्ष्म्यादीनि जनाधिप एकार्थसमवेतानि वाक्यं मम निशामय ॥ 86 ॥

  87. उपेतार्थम अभिन्नार्थं नापवृत्तं न चाधिकम नाश्लक्ष्णं न च संदिग्धं वक्ष्यामि परमं तव ॥ 87 ॥

  88. न गुर्व अक्षरसंबद्धं पराङ्मुख मुखं न च नानृतं न तरिवर्गेण विरुद्धं नाप्य असंक्षृतम ॥ 88 ॥

  89. न नयूनं कस्त शब्दं वा वयुत्क्रमाभिहितं न च न शेषं नानुकल्पेन निष्कारणम अहेतुकम ॥ 89 ॥

  90. कामात करॊधाद भयाल लॊभाद दैन्याद आनार्यकात तथा हरीतॊ ऽनुक्रॊशतॊ मानान न वक्ष्यामि कथं चन ॥ 90 ॥

  91. वक्ता शरॊता च वाक्यं च यदा तवाविकलं नृप समम एति विवक्षायां तदा सॊ ऽरथः परकाशते ॥ 91 ॥

  92. वक्तव्ये तु यदा वक्ता शरॊतारम अवमन्यते सवार्थम आह परार्थं वा तदा वाक्यं न रॊहति ॥ 92 ॥

  93. अथ यः सवार्थम उत्सृज्य परार्थं पराह मानवः विशङ्का जायते तस्मिन वाक्यं तद अपि दॊषवत ॥ 93 ॥

  94. यस तु वक्ता दवयॊर अर्थम अविरुद्धं परभासते शरॊतुश चैवात्मनश चैव स वक्ता नेतरॊ नृप ॥ 94 ॥

  95. तदर्थवद इदं वाक्यम उपेतं वाक्यसंपदा अविक्षिप्त मना राजन्न एकाग्रः शरॊतुम अर्हसि ॥ 95 ॥

  96. कासि कस्य कुतॊ वेति तवयाहम अभिचॊदिता तत्रॊत्तरम इदं वाक्यं राजन्न एकमनाः शृणु ॥ 96 ॥

  97. यथा जतु च काष्ठं च पांसवश चॊद बिन्दुभिः सुश्लिष्टानि तथा राजन परानिनाम इह संभवः ॥ 97 ॥

  98. शब्दः सपर्शॊ रसॊ रूपं गन्धः पञ्चेन्द्रियाणि च पृथग आत्मा दशात्मानः संश्लिष्टा जतु काष्ठवत ॥ 98 ॥

  99. न चैषां चॊदना का चिद अस्तीत्य एष विनिश्चयः एकैकस्येह विज्ञानं नास्त्य आत्मनि तथा परे ॥ 99 ॥

  100. न वेद चक्षुश चक्षुस तवं शरॊत्रं नात्मनि वर्तते तथैव वयभिचारेण न वर्तन्ते परस्परम संश्लिष्टा नाभिजायन्ते यथाप इह पांसवः ॥ 100 ॥

  101. बाह्यान अन्यान अपेक्षन्ते गुणांस तान अपि मे शृणु रूपं चक्षुः परकाशश च दर्शने हेतवस तरयः यथैवात्र तथान्येषु जञानज्ञेयेषु हेतवः ॥ 101 ॥

  102. जञानज्ञेयान्तरे तस्मिन मनॊ नामापरॊ गुणः विचारयति येनायं निश्चये साध्वसाधुनी ॥ 102 ॥

  103. दवादशस तव अपरस तत्र बुद्धिर नाम गुणः समृतः येन संशय पूर्वेषु बॊद्धव्येषु वयवस्यति ॥ 103 ॥

  104. अथ दवादशके तस्मिन सत्त्वं नामापरॊ गुणः महासत्त्वॊ ऽलपसत्त्वॊ वा जन्तुर येनानुमीयते ॥ 104 ॥

  105. कषेत्रज्ञ इति चाप्य अन्यॊ गुणस तत्र चतुर्दशः ममायम इति येनायं मन्यते न च मन्यते ॥ 105 ॥

  106. अथ पञ्चदशॊ राजन गुणस तत्रापरः समृतः पृथक कला समूहस्य सामग्र्यं तद इहॊच्यते ॥ 106 ॥

  107. गुणस तव एवापरस तत्र संघात इति सॊदशः आकृतिर वयक्तिर इत्य एतौ गुणौ यस्मिन समाश्रितौ ॥ 107 ॥

  108. सुखदुःखे जरामृत्यू लाभालाभौ परियाप्रिये इति चैकॊनविंशॊ ऽयं दवन्द्वयॊग इति समृतः ॥ 108 ॥

  109. ऊर्ध्वम एकॊनविंशत्याः कालॊ नामापरॊ गुणः इतीमं विद्धि विंशत्या भूतानां परभवाप्ययम ॥ 109 ॥

  110. विश्मकश चैष संघातॊ महाभूतानि पञ्च च सदसद भावयॊगौ च गुणाव अन्यौ परकाशकौ ॥ 110 ॥

  111. इत्य एवं विंशतिश चैव गुणाः सप्त च ये समृताः विधिः शुक्रं बलं चेति तरय एते गुणाः परे ॥ 111 ॥

  112. एकविंशश च दश च कलाः संख्यानतः समृताः समग्रा यत्र वर्तन्ते तच छरीरम इति समृतम ॥ 112 ॥

  113. अव्यक्तं परकृतिं तव आसां कलानां कश चिद इच्छति वयक्तं चासां तथैवान्यः सथूलदर्शी परपश्यति ॥ 113 ॥

  114. अव्यक्तं यदि वा वयक्तं दवयीम अथ चतुष्टयीम परकृतिं सर्वभूतानां पश्यन्त्य अध्यात्मचिन्तकाः ॥ 114 ॥

  115. सेयं परकृतिर अव्यक्ता कलाभिर वयक्ततां गता अहं च तवं च राजेन्द्र ये चाप्य अन्ये शरीरिणः ॥ 115 ॥

  116. बिन्दुन्यासादयॊ ऽवस्थाः शुक्रशॊनित संभवाः यासाम एव निपातेन कललं नाम जायते ॥ 116 ॥

  117. कललाद अर्बुदॊत्पत्तिः पेशी चाप्य अर्बुदॊद्भवा पेश्यास तव अङ्गाभिनिर्वृत्तिर नखरॊमाणि चाङ्गतः ॥ 117 ॥

  118. संपूर्णे नवमे मासे जन्तॊर जातस्य मैथिल जायते नाम रूपत्वं सत्री पुमान वेति लिङ्गतः ॥ 118 ॥

  119. जातमात्रं तु तद रूपं दृष्ट्वा ताम्रनखाङ्गुलि कौमार रूपम आपन्नं रूपतॊ न पलभ्यते ॥ 119 ॥

  120. कौमाराद यौवनं चापि सथाविर्यं चापि यौवनात अनेन करमयॊगेन पूर्वं पूर्वं न लभ्यते ॥ 120 ॥

  121. कलानां पृथग अर्थानां परतिभेदः कषणे कषणे वर्तते सर्वभूतेषु सौक्ष्म्यात तु न विभाव्यते ॥ 121 ॥

  122. न चैषाम अप्ययॊ राजँल लक्ष्यते परभवॊ न च अवस्थायाम अवस्थायां दीपस्येवार्चिषॊ गतिः ॥ 122 ॥

  123. तस्याप्य एवं परभावस्य सदश्वस्येव धावतः अजस्रं सर्वलॊकस्य कः कुतॊ वा न वा कुतः ॥ 123 ॥

  124. कस्येदं कस्य वा नेदं कुतॊ वेदं न वा कुतः संबन्धः कॊ ऽसति भूतानां सवैर अप्य अवयवैर इह ॥ 124 ॥

  125. यथादित्यान मणेश चैव वीरुद्भ्यश चैव पावकः भवेत्य एवं समुदयात कलानाम अपि जन्तवः ॥ 125 ॥

  126. आत्मन्य एवात्मनात्मानं यथा तवम अनुपश्यसि एवम एवात्मनात्मानम अन्यस्मिन किं न पश्यसि यद्य आत्मनि परस्मिंश च समताम अध्यवस्यसि ॥ 126 ॥

  127. अथ मां कासि कस्येति किमर्थम अनुपृच्छसि इदं मे सयाद इदं नेति दवन्द्वैर मुक्तस्य मैथिल कासि कस्य कुतॊ वेति वचने किं परयॊजनम ॥ 127 ॥

  128. रिपौ मित्रे ऽथ मध्यस्थे विजये संधिविग्रहे कृतवान यॊ महीपाल किं तस्मिन मुक्तलक्षणम ॥ 128 ॥

  129. तरिवर्गे सप्तधा वयक्तं यॊ न वेदेह कर्मसु सङ्गवान यस तरिवर्गे च किं तस्मिन मुक्तलक्षणम ॥ 129 ॥

  130. परिये चैवाप्रिये चैव दुर्बले बलवत्य अपि यस्य नास्ति समं चक्षुः किं तस्मिन मुक्तलक्षणम ॥ 130 ॥

  131. तद अमुक्तस्य ते मॊक्षे यॊ ऽभिमानॊ भवेन नृप सुहृद्भिः स निवार्यस ते विचित्तस्येव भेषजैः ॥ 131 ॥

  132. तानि तान्य अनुसंदृश्य सङ्गस्थानान्य अरिंदम आत्मनात्मनि संपश्येत किं तस्मिन मुक्तलक्षणम ॥ 132 ॥

  133. इमान्य अन्यानि सूक्ष्माणि मॊक्षम आश्रित्य कानि चित चतुरङ्ग परवृत्तानि सङ्गस्थानानि मे शृणु ॥ 133 ॥

  134. य इमां पृथिवीं कृत्स्नाम एकछत्त्रां परशास्ति ह एकम एव स वै राजा पुरम अध्यावसत्य उत ॥ 134 ॥

  135. तत पुरे चैकम एवास्य गृहं यद अधितिष्ठति गृहे शयनम अप्य एकं निशायां यत्र लीयते ॥ 135 ॥

  136. शय्यार्धं तस्य चाप्य अत्र सत्रीपूर्वम अधितिष्ठति तद अनेन परसङ्गेन फलेनैवेह युज्यते ॥ 136 ॥

  137. एवम एवॊपभॊगेषु भॊजनाच छादनेषु च गुणेषु परिमेयेषु निग्रहानुग्रहौ परति ॥ 137 ॥

  138. परतन्त्रः सदा राजा सवल्पे सॊ ऽपि परसज्यते संधिविग्रहयॊगे च कुतॊ राज्ञः सवतन्त्रता ॥ 138 ॥

  139. सत्रीषु करीदा विहारेषु नित्यम अस्यास्वतन्त्रता मन्त्रे चामात्य समितौ कुत एव सवतन्त्रता ॥ 139 ॥

  140. यदा तव आज्ञापयत्य अन्यांस तदास्यॊक्ता सवतन्त्रता अवशः कार्यते तत्र तस्मिंस तस्मिन गुणे सथितः ॥ 140 ॥

  141. सवप्तु कामॊ न लभते सवप्तुं कार्यार्थिभिर जनैः शयने चाप्य अनुज्ञातः सुप्त उत्थाप्यते ऽवशः ॥ 141 ॥

  142. सनाह्य आलभ पिब पराश जुहुध्य अग्नीन यजेति च वदस्य शृणु चापीति विवशः कार्यते परैः ॥ 142 ॥

  143. अभिगम्याभिगम्यैनं याचन्ते सततं नराः न चाप्य उत्सहते दातुं वित्तरक्षी महाजनात ॥ 143 ॥

  144. दाने कॊशक्षयॊ हय अस्य वैरं चाप्य अरयच्छतः कषणेनास्यॊपवर्तन्ते दॊषा वैराग्य कारकाः ॥ 144 ॥

  145. पराज्ञाञ शूरांस तथैवाध्यान एकस्थाने ऽपि शङ्कते भयम अप्य अभये राज्ञॊ यैश च नित्यम उपास्यते ॥ 145 ॥

  146. यदा चैते परदुष्यन्ति राजन ये कीर्तिता मया तदैवास्य भयं तेभ्यॊ जायते पश्य यादृशम ॥ 146 ॥

  147. सर्वः सवे सवे गृहे राजा सर्वः सवे सवे गृहे गृही निग्रहानुग्रहौ कुर्वंस तुल्यॊ जनकराजभिः ॥ 147 ॥

  148. पुत्रा दारास तथैवात्मा कॊशॊ मित्राणि संचयः परैः साधारणा हय एते तैस तैर एवास्य हेतुभिः ॥ 148 ॥

  149. हतॊ देशः पुरं दग्धं परधानः कुञ्जरॊ मृतः लॊकसाधारणेष्व एषु मिथ्या जञानेन तप्यते ॥ 149 ॥

  150. अमुक्तॊ मानसैर दुःखैर इछा दवेषप्रियॊद्भवैः शिरॊ रॊगादिभी रॊगैस तथैव विनिपातिभिः ॥ 150 ॥

  151. दवन्द्वैस तैस तैर उपहतः सर्वतः परिशङ्कितः बहु परत्यर्थिकं राज्यम उपास्ते गणयन निशाः ॥ 151 ॥

  152. तद अल्पसुखम अत्यर्थं बहुदुःखम असारवत कॊ राज्यम अभिपद्येत पराप्य चॊपशमं लभेत ॥ 152 ॥

  153. ममेदम इति यच चेदं पुरं रास्त्रं च मन्यसे बलं कॊशम अमात्यांश च कस्यैतानि न वा नृप ॥ 153 ॥

  154. मित्रामात्यं पुरं रास्त्रं दन्दः कॊशॊ महीपतिः सप्ताङ्गश चक्रसंघातॊ राज्यम इत्य उच्यते नृप ॥ 154 ॥

  155. सप्ताङ्गस्यास्य राज्यस्य तरिदण्डस्येव तिष्ठतः अन्यॊन्यगुणयुक्तस्य कः केन गुणतॊ ऽधिकः ॥ 155 ॥

  156. तेषु तेषु हि कालेषु तत तद अङ्गं विशिष्यते येन यत सिध्यते कार्यं तत पराधान्याय कल्पते ॥ 156 ॥

  157. सप्ताङ्गश चापि संघातस तरयश चान्ये नृपॊत्तम संभूय दशवर्गॊ ऽयं भुङ्क्ते राज्यं हि राजवत ॥ 157 ॥

  158. यश च राजा महॊत्साहः कषत्रधर्मरतॊ भवेत स तुष्येद दश भागेन ततस तव अन्यॊ दशावरैः ॥ 158 ॥

  159. नास्त्य असाधारणॊ राजा नास्ति राज्यम अराजकम राज्ये ऽसति कुतॊ धर्मॊ धर्मे ऽसति कुतः परम ॥ 159 ॥

  160. यॊ ऽपय अत्र परमॊ धर्मः पवित्रं राजराज्ययॊः पृथिवी दक्षिणा यस्य सॊ ऽशवमेधॊ न विद्यते ॥ 160 ॥

  161. साहम एतानि कर्माणि राज्यदुःखानि मैथिल समर्था शतशॊ वक्तुम अथ वापि सहस्रशः ॥ 161 ॥

  162. सवदेहे नाभिषङ्गॊ मे कुतः परपरिग्रहे न माम एवंविधां मुक्ताम ईदृशं वक्तुम अर्हसि ॥ 162 ॥

  163. ननु नाम तवया मॊक्षः कृत्स्नः पञ्च शिखाच छरुतः सॊपायः सॊपनिषदः सॊपासङ्गः सनिश्चयः ॥ 163 ॥

  164. तस्य ते मुक्तसङ्गस्य पाशान आक्रम्य तिष्ठतः छत्त्रादिषु विशेषेषु कथं सङ्गः पुनर नृप ॥ 164 ॥

  165. शरुतं ते न शरुतं मन्ये मिथ्या वापि शरुतं शरुतम अथ वा शरुतसंकाशं शरुतम अन्यच छरुतं तवया ॥ 165 ॥

  166. अथापीमासु संज्ञासु लौकिकीषु परतिष्ठसि अभिषङ्गावरॊधाभ्यां बद्धस तवं पराकृतॊ मया ॥ 166 ॥

  167. सत्त्वेनानुप्रवेशॊ हि यॊ ऽयं तवयि कृतॊ मया किं तवापकृतं तत्र यदि मुक्तॊ ऽसि सर्वतः ॥ 167 ॥

  168. नियमॊ हय एष धर्मेषु यतीनां शून्यवासिता शून्यम आवासयन्त्या च मया किं कस्य दूसितम ॥ 168 ॥

  169. न पानिभ्यां न बाहुभ्यां पादॊरुभ्यां न चानघ न गात्रावयवैर अन्यैः सपृशामि तवा नराधिप ॥ 169 ॥

  170. कुले महति जातेन हरीमता दीर्घदर्शिना नैतत सदसि वक्तव्यं सद वासद वा मिथः कृतम ॥ 170 ॥

  171. बराह्मणा गुरवश चेमे तथामात्या गुरूत्तमाः तवं चाथ गुरुर अप्य एषाम एवम अन्यॊन्यगौरवम ॥ 171 ॥

  172. तद एवम अनुसंदृश्य वाच्यावाच्यं परीक्षता सत्रीपुंसॊ समवायॊ ऽयं तवया वाच्यॊ न संसदि ॥ 172 ॥

  173. यथा पुष्कर पर्णस्थं जलं तत्पर्णसंस्थितम तिष्ठत्य अस्पृशती तद्वत्त्वयि वत्स्यामि मैथिल ॥ 173 ॥

  174. यदि वाप्य अस्पृशन्त्या मे सपर्शं जानासि कं चन जञानं कृतम अबीजं ते कथं तेनेह भिक्षुणा ॥ 174 ॥

  175. स गार्हस्थ्याच चयुतश च तवं मॊक्षं नावाप्य दुर्विदम उभयॊर अन्तराले च वर्तसे मॊक्षवातिकः ॥ 175 ॥

  176. न हि मुक्तस्य मुक्तेन जञस्यैकत्व पृथक्त्वयॊः भावाभाव समायॊगे जायते वर्णसंकरः ॥ 176 ॥

  177. वर्णाश्रमपृथक्त्वे च दृष्टार्थस्यापृथक्त्विनः नान्यद अन्यद इति जञात्वा नान्यद अन्यत परवर्तते ॥ 177 ॥

  178. पानौ कुन्दं तथा कुन्दे पयः पयसि मक्षिकाः आश्रिताश्रय यॊगेन पृथक्त्वेनाश्रया वयम ॥ 178 ॥

  179. न तु कुन्दे पयॊ भावः पयश चापि न मक्षिकाः सवयम एवाश्रयन्त्य एते भावा न तु पराश्रयम ॥ 179 ॥

  180. पृथक्त्वाद आश्रमाणां च वर्णान्यत्वे तथैव च परस्परपृथक्त्वाच च कथं ते वर्णसंकरः ॥ 180 ॥

  181. नास्मि वर्णॊत्तमा जात्या न वैश्या नावरा तथा तव राजन सवर्णास्मि शुद्धयॊनिर अविप्लुता ॥ 181 ॥

  182. परधानॊ नाम राजर्षिर वयक्तं ते शरॊत्रम आगतः कुले तस्य समुत्पन्नां सुलभां नाम विद्धि माम ॥ 182 ॥

  183. दरॊणश च शतशृङ्गश च वक्रद्वारश च पर्वतः मम सत्त्रेषु पूर्वेषां चिता मघवता सह ॥ 183 ॥

  184. साहं तस्मिन कुले जाता भर्तर्य असति मद्विधे विनीता मॊक्षधर्मेषु चराम्य एका मुनिव्रतम ॥ 184 ॥

  185. नास्मि सत्त्र परतिच्छन्ना न परस्वाभिमानिनी न धर्मसंकरकरी सवधर्मे ऽसमि धृतव्रता ॥ 185 ॥

  186. नास्थिरा सवप्रतिज्ञायां नासमीक्ष्य परवादिनी नासमीक्ष्यागता चाहं तवत्सकाशं जनाधिप ॥ 186 ॥

  187. मॊक्षे ते भवितां बुद्धिं शरुत्वाहं कुशलैषिणी तव मॊक्षस्य चाप्य अस्य जिज्ञासार्थम इहागता ॥ 187 ॥

  188. न वर्गस्था बरवीम्य एतत सवपक्ष परपक्षयॊः मुक्तॊ न मुच्यते यश च शान्तॊ यश च न शाम्यति ॥ 188 ॥

  189. यथा शून्ये पुरागारे भिक्षुर एकां निशां वसेत तथा हि तवच छरीरे ऽसमिन्न इमां वत्स्यामि शर्वतीम ॥ 189 ॥

  190. साहम आसनदानेन वाग आतिथ्येन चार्चिता सुप्ता सुशरणा परीता शवॊ गमिष्यामिमैथिल ॥ 190 ॥

  191. इत्य एतानि स वाक्यानि हेतुमन्त्य अर्थवन्ति च शरुत्वा नाधिजगौ राजा किं चिद अन्यद अतः परम ॥ 191 ॥

Reach this point to mark the section finished.

Continue to अध्याय 309

Previous: अध्याय 307