धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 307

  1. [य] ऐश्वर्यं वा महत पराप्य धनं वा भरतर्षभ दीर्घम आयुर अवाप्याथ कथं मृत्युम अतिक्रमेत ॥ 1 ॥

  2. तपसा वा सुमहता कर्मणा वा शरुतेन वा रसायन परयॊगैर वा कैर नॊपैति जरान्तकौ ॥ 2 ॥

  3. [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम भिक्षॊः पञ्चशिखस्येह संवादं जनकस्य च ॥ 3 ॥

  4. वैदेहॊ जनकॊ राजा महर्षिं वेद वित्तमम पर्यपृच्छत पञ्चशिखं छिन्नधर्मार्थसंशयम ॥ 4 ॥

  5. केन वृत्तेन भगवन्न अतिक्रामेज जरान्तकौ तपसा वाथ बुद्ध्या वा कर्मणा वा शरुतेन वा ॥ 5 ॥

  6. एवम उक्तः स वैदेहं परत्युवाच परॊक्षवित निवृत्तिर नैतयॊर अस्ति नानिवृत्तिः कथं चन ॥ 6 ॥

  7. न हय अहानि निवर्तन्ते न मासा न पुनः कषपाः सॊ ऽयं परपद्यते ऽधवानं चिराय धरुवम अध्रुवः ॥ 7 ॥

  8. सर्वभूतसमुच्छेदः सरॊतसेवॊह्यते सदा उह्यमानं निमज्जन्तम अप्लवे कालसागरे जरामृत्युमहाग्राहे न कश चिद अभिपद्यते ॥ 8 ॥

  9. नैवास्य भविता कश चिन नासौ भवति कस्य चित पथि संगतम एवेदं दारैर अन्यैश च बन्धुभिः नायम अत्यन्तसंवासॊ लब्धपूर्वॊ हि केन चित ॥ 9 ॥

  10. कषिप्यन्ते तेन तेनैव निष्टनन्तः पुनः पुनः कालेन जाता जाता हि वायुनेवाभ्र संचयाः ॥ 10 ॥

  11. जरा मृयू हि भूतानां खादितारौ वृकाव इव बलिनां दुर्बलानां च हरस्वानां महताम अपि ॥ 11 ॥

  12. एवं भूतेषु भूतेषु नित्यभूताध्रुवेषु च कथं हृष्येत जातेषु मृतेषु च कथं जवरेत ॥ 12 ॥

  13. कुतॊ ऽहम आगतः कॊ ऽसमि कव गमिष्यामि कस्य वा कस्मिन सथितः कव भविता कस्मात किम अनुशॊचसि ॥ 13 ॥

  14. दरष्टा सवर्गस्य न हय अस्ति तथैव नरकस्य च आगमांस तव अनतिक्रम्य दद्याच चैव यजेत च ॥ 14 ॥

Reach this point to mark the section finished.

Continue to अध्याय 308

Previous: अध्याय 306