धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 303

  1. [या] न शक्यॊ निर्गुणस तात गुणी कर्तुं विशां पते गुणवांश चाप्य अगुणवान यथातत्त्वं निबॊध मे ॥ 1 ॥

  2. गुणैर हि गुणवान एव निर्गुणश चागुणस तथा पराहुर एवं महात्मानॊ मुनयस तत्त्वदर्शिनः ॥ 2 ॥

  3. गुणस्वभावस तव अव्यक्तॊ गुणान एवाभिवर्तते उपयुङ्क्ते च तान एव स चैवाज्ञः सवभावतः ॥ 3 ॥

  4. अव्यक्तस तु न जानीते पुरुषॊ जञः सवभावतः न मत्तः परम अस्तीति नित्यम एवाभिमन्यते ॥ 4 ॥

  5. अनेन कारणेनैतद अव्यक्तं सयाद अचेतनम नित्यत्वाद अक्षरत्वाच च कषराणां तत्त्वतॊ ऽनयथा ॥ 5 ॥

  6. यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः यदात्मानं न जानीते तदाव्यक्तम इहॊच्यते ॥ 6 ॥

  7. कर्तृत्वाच चापि तत्त्वानां तत्त्वधर्मी तथॊच्यते कर्तृत्वाच चैव यॊनीनां यॊनिधर्मा तथॊच्यते ॥ 7 ॥

  8. कर्तृत्वात परकृतीनां तु तथा परकृतिधर्मिता कर्तृत्वाच चापि बीजानां बीजधर्मी तथॊच्यते ॥ 8 ॥

  9. गुणानां परसवत्वाच च तथा परसव धर्मवान कर्तृत्वात परलयानां च तथा परलय धर्मिता ॥ 9 ॥

  10. बीलत्वात परकृतित्वाच च परलयत्वात तथैव च उपेक्षकत्वाद अन्यत्वाद अभिमानाच च केवलम ॥ 10 ॥

  11. मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः अनित्यं नित्यम अव्यक्तम एवम एतद धि शुश्रुम ॥ 11 ॥

  12. अव्यक्तैकत्वम इत्य आहुर नानात्वं पुरुषस तथा सर्वभूतदयावन्तः केवलं जञानम आस्थिताः ॥ 12 ॥

  13. अन्यः स पुरुषॊ ऽवयक्तस तव अध्रुवॊ धरुवसंज्ञिकः यथा मुञ्ज इषीकायास तथैवैतद धि जायते ॥ 13 ॥

  14. अन्यं च मशकं विद्याद अन्यच चॊदुम्बरं तथा न चॊदुम्बर संयॊगैर मशकस तत्र लिप्यते ॥ 14 ॥

  15. अन्य एव तथा मत्स्यस तथान्यद उदकं समृतम न चॊदकस्य सपर्शेन मत्स्यॊ लिप्यति सर्वशः ॥ 15 ॥

  16. अन्यॊ हय अग्निर उखाप्य अन्या नित्यम एवम अवैहि भॊः न चॊपलिप्यते सॊ ऽगनिर उखा संस्पर्शनेन वै ॥ 16 ॥

  17. पुष्करं तव अन्यद एवात्र तथान्यद उदकं समृतम न चॊदकस्य सपर्शेन लिप्यते तत्र पुष्करम ॥ 17 ॥

  18. एतेषां सह संवासं विवासं चैव नित्यशः यथातथैनं पश्यन्ति न नित्यं पराकृता जनाः ॥ 18 ॥

  19. ये तव अन्यथैव पश्यन्ति न सम्यक तेषु दर्शनम ते वयक्तं निरयं घॊरं परविशन्ति पुनः पुनः ॥ 19 ॥

  20. सांख्यदर्शनम एतत ते परिसंख्यातम उत्तमम एवं हि परिसंख्याय सांख्याः केवलतां गताः ॥ 20 ॥

  21. ये तव अन्ये तत्त्वकुशलास तेषाम एतन निदर्शनम अतः परं परवक्ष्यामि यॊगानाम अपि दर्शनम ॥ 21 ॥

Reach this point to mark the section finished.

Continue to अध्याय 304

Previous: अध्याय 302