[या] सांख्यज्ञानं मया परॊक्तं यॊगज्ञानं निबॊध मे यथा शरुतं यथादृष्टं तत्त्वेन नृपसत्तम ॥ 1 ॥
नास्ति सांक्य समं जञानं नास्ति यॊगसमं बलम ताव उभाव एकचर्यौ तु उभाव अनिधनौ समृतौ ॥ 2 ॥
पृथक पृथक तु पश्यन्ति ये ऽलपबुद्धिरता नराः वयं तु राजन पश्याम एकम एव तु निश्चयात ॥ 3 ॥
यद एव यॊगाः पश्यन्ति तत सांख्यैर अपि दृश्यते एकं सांक्यं च यॊगं च यः पश्यति स तत्त्ववित ॥ 4 ॥
रुद्र परधानान अपरान विद्धि यॊगान परंतप तेनैव चाथ देहेन विचरन्ति दिशॊ दश ॥ 5 ॥
यावद धि परलयस तात सूक्ष्मेणास्त गुणेन वै यॊगेन लॊकान विचरन सुखं संन्यस्य चानघ ॥ 6 ॥
वेदेषु चास्त गुणितं यॊगम आहुर मनीषिणः सूक्ष्मम अस्तगुणं पराहुर नेतरं नृपसत्तम ॥ 7 ॥
दविगुणं यॊगकृत्यं तु यॊगानां पराहुर उत्तमम सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम ॥ 8 ॥
धारणा चैव मनसः पराणायामश च पार्थिव पराणायामॊ हि सगुणॊ निर्गुणं धारणं मनः ॥ 9 ॥
यत्र दृश्येत मुञ्चन वै पराणान मैथिल सत्तम वाताधिक्यं भवत्य एव तस्माद धि न समाचरेत ॥ 10 ॥
निशायाः परथमे यामे चॊदना दवादश समृताः मध्ये सुप्त्वा परे यामे दवादशैव तु चॊदनाः ॥ 11 ॥
तद एवम उपशान्तेन दान्तेनैकान्त शीलना आत्मारामेण बुद्धेन यॊक्तव्यॊ ऽऽतमा न संशयः ॥ 12 ॥
पञ्चानाम इन्द्रियाणां तु दॊषान आक्षिप्य पञ्चधा शब्दं सपर्शं तथारूपं रसं गन्धं तथैव च ॥ 13 ॥
परतिभाम अपवर्गं च परतिसंहृत्य मैथिल इन्द्रियग्रामम अखिलं मनस्य अभिनिवेश्य ह ॥ 14 ॥
मनस तथैवाहंकारे परतिष्ठाप्य नराधिप अहंकारं तथा बुद्धौ बुद्धिं च परकृताव अपि ॥ 15 ॥
एवं हि परिसंख्याय ततॊ धयायेत केवलम विरजस्क मलं नित्यम अनन्तं शुद्धम अव्रणम ॥ 16 ॥
तस्थुषं पुरुषं सत्त्वम अभेद्यम अजरामरम शाश्वतं चाव्ययं चैव ईशानं बरह्म चाव्ययम ॥ 17 ॥
युक्तस्य तु महाराज लक्षणान्य उपधारयेत लक्षणं तु परसादस्य यथा तृप्तः सुखं सवपेत ॥ 18 ॥
निवाते तु यथा दीपॊ जवलेत सनेहसमन्वितः निश्चलॊर्ध्व शिखस तद्वद युक्तम आहुर मनीषिणः ॥ 19 ॥
पाषाण इव मेघॊत्थैर यथा बिन्दुभिर आहतः नालं चालयितुं शक्यस तथायुक्तस्य लक्षणम ॥ 20 ॥
शङ्खदुन्दुभिनिर्घॊषैर विविधैर गीतवादितैः करियमाणैर न कम्पेत युक्तस्यैतन निदर्शनम ॥ 21 ॥
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः सॊपानम आरुहेद भीतस तर्ज्यमानॊ ऽसि पानिभिः ॥ 22 ॥
संयतात्मा भयात तेषां न पात्राद बिन्दुम उत्सृजेत तथैवॊत्तरमाणस्य एकाग्रमनसस तथा ॥ 23 ॥
सथिरत्वाद इन्द्रियाणां तु निश्चलत्वात तथैव च एवं युक्तस्य तु मुनेर लक्षणान्य उपधारयेत ॥ 24 ॥
स युक्तः पश्यति बरह्म यत तत्परमम अव्ययम महतस तमसॊ मध्ये सथितं जवलनसंनिभम ॥ 25 ॥
एतेन केवलं याति तयक्त्वा देहम असाक्षिकम कालेन महता राजञ शरुतिर एषा सनातनी ॥ 26 ॥
एतद धि यॊगं यॊगानां किम अन्यद यॊगलक्षणम विज्ञाय तद धि मन्यन्ते कृतकृत्या मनीषिणः ॥ 27 ॥
शान्तिपर्व · Shanti Parva
अध्याय 304
Reach this point to mark the section finished.
Continue to अध्याय 305