[या] पादाव अध्यात्मम इत्य आहुर बराह्मणास तत्त्वदर्शिनः गन्तव्यम अधिभूतं च विष्णुस तत्राधिदैवतम ॥ 1 ॥
पायुर अध्यात्मम इत्य आहुर यथातत्त्वार्थ दर्शिनः विसर्गम अधिभूतं च मित्रस तत्राधिदैवतम ॥ 2 ॥
उपस्थॊ ऽधयात्मम इत्य आहुर यथायॊगनिदर्शनम अधिभूतं तथानन्दॊ दैवतं च परजापतिः ॥ 3 ॥
हस्ताव अध्यात्मम इत्य आहुर यथा सांख्यनिदर्शनम कर्तव्यम अधिभूतं तु इन्द्रस तत्राधिदैवतम ॥ 4 ॥
वाग अध्यात्मम इति पराहुर यथा शरुतिनिदर्शनम वक्तव्यम अधिभूतं तु वह्निस तत्राधिदैवतम ॥ 5 ॥
चक्षुर अध्यात्मम इत्य आहुर यथा शरुतिनिदर्शनम रूपम अत्राधिभूतं तु सूर्यस तत्राधिदैवतम ॥ 6 ॥
शरॊत्रम अध्यात्मम इत्य आहुर यथा शरुतिनिदर्शनम शब्दस तत्राधिभूतं तु दिशस तत्राधिदैवतम ॥ 7 ॥
जिह्वाम अध्यात्मम इत्य आहुर यथातत्त्वनिदर्शनम रस एवाधिभूतं तु आपस तत्राधिदैवतम ॥ 8 ॥
घराणम अध्यात्मम इत्य आहुर यथा शरुतिनिदर्शनम गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम ॥ 9 ॥
तवग अध्यात्मम इति पराहुस तत्त्वबुद्धिविशारदाः सपर्श एवाधिभूतं तु पवनश चाधिदैवतम ॥ 10 ॥
मनॊ ऽधयात्मम इति पराहुर यथा शरुतिनिदर्शनम मन्तव्यम अधिभूतं तु चन्द्रमाश चाधिदैवतम ॥ 11 ॥
अहंकारिकम अध्यात्मम आहुस तत्त्वनिदर्शनम अभिमानॊ ऽधिबूतं तु भवस तत्राधिदैवतम ॥ 12 ॥
बुद्धिर अध्यात्मम इत्य आहुर यथा वेद निदर्शनम बॊद्धव्यम अधिभूतं तु कषेत्रज्ञॊ ऽतराधिदैवतम ॥ 13 ॥
एषा ते वयक्ततॊ राजन विभूतिर अनुवर्णिता आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित ॥ 14 ॥
परकृतिर गुणान विकुरुते सवच्छन्देनात्म काम्यया करीदार्थं तु महाराज शतशॊ ऽथ सहस्रशः ॥ 15 ॥
यथा दीपसहस्राणि दीपान मर्थाय परकुर्वते परकृतिस तथा विकुरुते पुरुषस्य गुणान बहून ॥ 16 ॥
सत्त्वम आनन्द उद्रेकः परीतिः पराकाश्यम एव च सुखं शुद्धित्वम आरॊग्यं संतॊषः शरद्दधानता ॥ 17 ॥
अकार्पण्यम असंरम्भः कषमा धृतिर अहिंसता समता सत्यम आनृण्यं मार्दवं हरीर अचापलम ॥ 18 ॥
शौचम आर्जवम आचारम अलौल्यं हृद्य संभ्रमः इष्टानिष्ट वियॊगानां कृतानाम अविकत्थनम ॥ 19 ॥
दानेन चानुग्रहणम अस्पृहार्थे परार्थता सर्वभूतदया चैव सत्त्वस्यैते गुणाः समृताः ॥ 20 ॥
रजॊगुणानां संघातॊ रूपम ऐश्वर्यविग्रहे अत्याशित्वम अकारुण्यं सुखदुःखॊपसेवनम ॥ 21 ॥
परापवादेषु रतिर विवादानां च सेवनम अहंकारस तव असत्कारश चैन्ता वैरॊपसेवनम ॥ 22 ॥
परितापॊ ऽपहरणं हरीनाशॊ ऽनार्जवं तथा भेदः परुषता चैव कामक्रॊधौ मदस तथा दर्पॊ दवेषॊ ऽतिवादश च एते परॊक्ता रजॊगुणाः ॥ 23 ॥
तामसानां तु संघातं परवक्ष्याम्य उपधार्यताम मॊहॊ ऽपरकाशस तामिस्रम अन्धतामिस्र संज्ञितम ॥ 24 ॥
मरणं चान्धतामिस्रं तामिस्रं करॊध उच्यते तमसॊ लक्षणानीह भक्षाणाम अभिरॊचनम ॥ 25 ॥
भॊजनानान अपर्याप्तिस तथा पेयेष्व अतृप्तता गन्धवासॊ विहारेषु शयनेष्व आसनेषु च ॥ 26 ॥
दिवा सवप्ने विवादे च परमादेषु च वै रतिः नृत्यवादित्रगीतानाम अज्ञानाच छरद्दधानता दवेषॊ धर्मविशेषाणाम एते वै तामसा गुणाः ॥ 27 ॥
शान्तिपर्व · Shanti Parva
अध्याय 301
Reach this point to mark the section finished.
Continue to अध्याय 302