धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 300

  1. [या] तत्त्वानां सर्ग संख्या च कालसंख्या तथैव च मया परॊक्तानुपूर्व्येण संहारम अपि मे शृणु ॥ 1 ॥

  2. यथा संहरते जन्तून ससर्ज च पुनः पुनः अनादिनिधनॊ बरह्मा नित्यश चाक्षर एव च ॥ 2 ॥

  3. अहः कषयम अथॊ बुद्ध्वा निशि सवप्नमनास तथा चॊदयाम आस भवगान अव्यक्तॊ ऽहं कृतं नरम ॥ 3 ॥

  4. ततः शतसहस्रांशुर अव्यक्तेनाभिचॊदितः कृत्वा दवादशधात्मानम आदित्यॊ जवलद अग्निवत ॥ 4 ॥

  5. चतुर्विधं परजा जालं निर्दहत्य आशु तेजसा जराय्व अन्द सवेदजातम उद्भिज्जं च नराधिप ॥ 5 ॥

  6. एतद उन्मेष मात्रेण विनिष्टं सथानु जङ्गमम कूर्मपृष्ठसमा भूमिर भवत्य अथ समन्ततः ॥ 6 ॥

  7. जगद दग्ध्वामित बलः केवलं जगतीं ततः अम्भसा बलिना कषिप्रम आपूर्यत समन्ततः ॥ 7 ॥

  8. ततः कालाग्निम आसाद्य तद अम्भॊ याति संक्षयम विनस्ते ऽमभसि राजेन्द्र जाज्वलीत्य अनलॊ महा ॥ 8 ॥

  9. तम अप्रमेयॊ ऽतिबलं जवलमानं विभावसुम ऊष्मानं सर्वभूतानां सप्तार्चिषम अथाञ्जसा ॥ 9 ॥

  10. भक्षयाम आस बलवान वायुर अस्तात्मकॊ बली विचरन्न अमितप्राणस तिर्यग ऊर्ध्वम अधस तथा ॥ 10 ॥

  11. तम अप्रतिबलं भीमम आकाशं गरसते ऽऽतमना आकाशम अप्य अतिनदन मनॊ गरसति चारिकम ॥ 11 ॥

  12. मनॊ गरसति सर्वात्मा सॊ ऽहंकारः परजापतिः अहंकारं महान आत्मा भूतभव्य भविष्यवित ॥ 12 ॥

  13. तम अप्य अनुपमात्मानं विश्वं शम्भः परजापतिः अनिमा लघिमा पराप्तिर ईशानॊ जयॊतिर अव्ययः ॥ 13 ॥

  14. सर्वतः पानि पादान्तः सर्वतॊ ऽकषिशिरॊमुखः सर्वतः शरुतिमाँल लॊके सर्वम आवृत्य तिष्ठति ॥ 14 ॥

  15. हृदयं सर्वभूतानां पर्वणॊ ऽङगुष्ठ मात्रकः अनुग्रसत्य अनन्तं हि महात्मा विश्वम ईश्वरः ॥ 15 ॥

  16. ततः समभवत सर्वम अक्षयाव्ययम अव्रणम भूतभव्य मनुष्याणां सरष्टारम अनघं तथा ॥ 16 ॥

  17. एषॊ ऽपययस ते राजेन्द्र यथावत परिभासितः अध्यात्मम अधिभूतं च अधिदैवं च शरूयताम ॥ 17 ॥

Reach this point to mark the section finished.

Continue to अध्याय 301

Previous: अध्याय 299