धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 299

  1. [याज्नवल्क्य] अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबॊध मे पञ्च कल्पसहस्राणि दविगुणान्य अहर उच्यते ॥ 1 ॥

  2. रात्रिर एतावती चास्य परतिबुद्धॊ नराधिप सृजत्य ओषधिम एवाग्रे जीवनं सर्वदेहिनाम ॥ 2 ॥

  3. ततॊ बरह्माणम असृजद धैरण्यान्द समुद्भवम सा मूर्तिः सर्वभूतानाम इत्य एवम अनुशुश्रुम ॥ 3 ॥

  4. संवत्सरम उषित्वान्दे निष्क्रम्य च महामुनिः संदधे ऽरधं महीं कृत्स्नां दिवम अर्धं परजापतिः ॥ 4 ॥

  5. दयावापृथिव्यॊर इत्य एष राजन वेदेषु पथ्यते तयॊः शकलयॊर मध्यमाकाशम अकरॊत परभुः ॥ 5 ॥

  6. एतस्यापि च संख्यानं वेदवेदाङ्गपारगैः दश कल्पसहस्राणि पादॊनान्य अहर उच्यते रात्रिम एतावतीं चास्य पराहुर अध्यात्मचिन्तकाः ॥ 6 ॥

  7. सृजत्य अहंकारम ऋषिर भूतं दिव्यात्मकं तथा चतुरश चापरान पुत्रान देहात पूर्वं महान ऋषिः ते वै पितृभ्यः पितरः शरूयन्ते राजसत्तम ॥ 7 ॥

  8. देवाः पितॄणां च सुता देवैर लॊकाः समावृताः चराचरा नरश्रेष्ठ इत्य एवम अनुशुश्रुम ॥ 8 ॥

  9. परमेष्ठी तव अहंकारॊ ऽसृजद भूतानि पञ्चधा पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम ॥ 9 ॥

  10. एतस्यापि निशाम आहुस तृतीयम इह कुर्वतः पञ्च कल्पसहस्राणि तावद एवाहर उच्यते ॥ 10 ॥

  11. शब्दः सपर्शश च रूपं च रसॊ गन्धश च पञ्चमः एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु यैर आविष्टानि भूतानि अहन्य अहनि पार्थिव ॥ 11 ॥

  12. अन्यॊन्यं सपृहयन्त्य एते अन्यॊन्यस्य हिते रताः अन्यॊन्यम अभिमन्यन्ते अन्यॊन्यस्पर्धिनस तथा ॥ 12 ॥

  13. ते वध्यमाना अन्यॊन्यं गुणैर हारिभिर अव्ययाः इहैव परिवर्तन्ते तिर्यग्यॊनिप्रवेशिनः ॥ 13 ॥

  14. तरीणि कल्पसहस्राणि एतेषाम अहर उच्यते रत्रिर एतावती चैव मनसश च नराधिप ॥ 14 ॥

  15. मनश चरति राजेन्द्र चरितं सर्वम इन्द्रियैः न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ॥ 15 ॥

  16. चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा मनसि वयाकुले चक्षुः पश्यन्न अपि न पश्यति तथेन्द्रियाणि सर्वाणि पश्यन्तीत्य अभिचक्षते ॥ 16 ॥

  17. मनस्य उपरते राजन्न इन्द्रियॊपरमॊ भवेत न चेन्द्रियव्युपरमे मनस्य उपरमॊ भवेत एवं मनः परधानानि इन्द्रियाणि विभावयेत ॥ 17 ॥

  18. इन्द्रियाणां हि सर्वेषाम ईश्वरं मन उच्यते एतद विशन्ति भूतानि सर्वाणीह महायशः ॥ 18 ॥

Reach this point to mark the section finished.

Continue to अध्याय 300

Previous: अध्याय 298