[वैषम्पायन] अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे गुडाकेशॊ हृषीकेशम अभ्यभाषत पाण्डवः ॥ 1 ॥
जञातिशॊकाभिसंतप्तॊ धर्मराजः परंतपः एष शॊकार्णवे मग्नस तम आश्वासय माधव ॥ 2 ॥
सर्वे सम ते संशयिताः पुनर एव जनार्दन अस्य शॊकं महाबाहॊ परणाशयितुम अर्हसि ॥ 3 ॥
एवम उक्तस तु गॊविन्दॊ विजयेन महात्मना पर्यवर्तत राजानं पुण्डरीकेक्षणॊ ऽचयुतः ॥ 4 ॥
अनतिक्रमणीयॊ हि धर्मराजस्य केशवः बाल्यात परभृति गॊविन्दः परीत्या चाभ्यधिकॊ ऽरजुनात ॥ 5 ॥
संप्रगृह्य महाबाहुर भुजं चन्दनभूषितम शैलस्तम्भॊपमं शौरिर उवाचाभिविनॊदयन ॥ 6 ॥
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलॊचनम वयाकॊशम इव विस्पष्टं पद्मं सूर्यविबॊधितम ॥ 7 ॥
मा कृथाः पुरुषव्याघ्र शॊकं तवं गात्रशॊषणम न हि ते सुलभा भूयॊ ये हतास्मिन रणाजिरे ॥ 8 ॥
सवप्नलब्धा यथा लाभा वि तथाः परतिबॊधने एवं ते कषत्रिया राजन ये वयतीता महारणे ॥ 9 ॥
सर्वे हय अभिमुखाः शूरा विगता रणशॊभिनः नैषां कश चित पृष्ठतॊ वा पलायन वापि पातितः ॥ 10 ॥
सर्वे तयक्त्वात्मनः पराणान युद्ध्वा वीरा महाहवे शस्त्रपूता दिवं पराप्ता न ताञ शॊचितुम अर्हसि ॥ 11 ॥
अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम सृञ्जयं पुत्रशॊकार्तं यथायं पराह नारदः ॥ 12 ॥
सुखदुःखैर अहं तवं च परजाः सर्वाश च सृञ्जय अविमुक्तं चरिष्यामस तत्र का परिदेवना ॥ 13 ॥
महाभाग्यं परं राज्ञां कीर्त्यमानं मया शृणु गच्छावधानं नृपते ततॊ दुःखं परहास्यसि ॥ 14 ॥
मृतान महानुभावांस तवं शरुत्वैव तु महीपतीन शरुत्वापनय संतापं शृणु विस्तरशश च मे ॥ 15 ॥
आविक्षितं मरुत्तं मे मृतं सृञ्जय शुश्रुहि यस्य सेन्द्राः स वरुणा बृहस्पतिपुरॊगमाः देवा विश्वसृजॊ राज्ञॊ यज्ञम ईयुर महात्मनः ॥ 16 ॥
यः सपर्धाम अनयच छक्रं देवराजं शतक्रतुम शक्र परियैषी यं विद्वान परत्याचष्ट बृहस्पतिः संवर्तॊ याजयाम आस यं पीडार्थं बृहस्पतेः ॥ 17 ॥
यस्मिन परशासति सतां नृपतौ नृपसत्तम अकृष्टपच्या पृथिवी विबभौ चैत्यमालिनी ॥ 18 ॥
आविक्षितस्य वै सत्रे विश्वे देवाः सभा सदः मरुतः परिवेष्टारः साध्याश चासन महात्मनः ॥ 19 ॥
मरुद्गणा मरुत्तस्य यत सॊमम अपिबन्त ते देवान मनुष्यान गन्धर्वान अत्यरिच्यन्त दक्षिणाः ॥ 20 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 21 ॥
सुहॊत्रं चेद वैतिथिनं मृतं सृञ्जय शुश्रुम यस्मै हिरण्यं ववृषे मगह्वान परिवत्सरम ॥ 22 ॥
सत्यनामा वसुमती यं पराप्यासीज जनाधिप हिरण्यम अवहन नद्यस तस्मिञ जनपदेश्वरे ॥ 23 ॥
कूर्मान कर्कटकान नक्रान मकराञ शिंशुकान अपि नदीष्व अपातयद राजन मघवा लॊकपूजितः ॥ 24 ॥
हैरण्यान पतितान दृष्ट्वा मत्स्यान मकरकच्छपान सहस्रशॊ ऽथ शतशस ततॊ ऽसमयत वैतिथिः ॥ 25 ॥
तद धिरण्यम अपर्यन्तम आवृत्तं कुरुजाङ्गले ईजानॊ वितते यज्ञे बराह्मणेभ्यः समाहितः ॥ 26 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः अदक्षिणम अयज्वानं शवैत्य संशाम्य मा शुचः ॥ 27 ॥
अङ्गं बृहद्रथं चैव मृतं शुश्रुम सृञ्जय यः सहस्रं सहस्राणां शवेतान अश्वान अवासृजत ॥ 28 ॥
सहस्रं च सहस्राणां कन्या हेमविभूषिताः ईजानॊ वितते यज्ञे दक्षिणाम अत्यकालयत ॥ 29 ॥
शतं शतसहस्राणां वृषाणां हेममालिनाम गवां सहस्रानुचरं दक्षिणाम अत्यकालयत ॥ 30 ॥
अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ अमाद्यद इन्द्रः सॊमेन दक्षिणाभिर दविजातयः ॥ 31 ॥
यस्य यज्ञेषु राजेन्द्र शतसंख्येषु वै पुनः देवान मनुष्यान गन्धर्वान अत्यरिच्यन्त दक्षिणाः ॥ 32 ॥
न जातॊ जनिता चान्यः पुमान यस तत परदास्यति यद अङ्गः परददौ वित्तं सॊमसंस्थासु सप्तसु ॥ 33 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 34 ॥
शिबिम औशीनरं चैव मृतं शुश्रुम सृञ्जय य इमां पृथिवीं कृत्स्नां चर्मवत समवेष्टयत ॥ 35 ॥
महता रथघॊषेण पृथिवीम अनुनादयन एकछत्रां महीं चक्रे जैत्रेणैक रथेन यः ॥ 36 ॥
यावद अद्य गवाश्वं सयाद आरण्यैः पशुभिः सह तावतीः परददौ गाः स शिबिर औशीनरॊ ऽधवरे ॥ 37 ॥
नॊद्यन्तारं धुरं तस्य कं चिन मेने परजापतिः न भूतं न भविष्यन्तं सर्वराजसु भारत अन्यत्रौशीनराच छैब्याद राजर्षेर इन्द्र विक्रमात ॥ 38 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः अदक्षिणम अयज्वानं तं वै संशाम्य मा शुचः ॥ 39 ॥
भरतं चैव दौःषन्तिं मृतं सृञ्जय शुश्रुम शाकुन्तलिं महेष्वासं भूरि दरविण तेजसम ॥ 40 ॥
यॊ बद्ध्वा तरिंशतॊ हय अश्वान देवैभ्यॊ यमुनाम अनु सरस्वतीं विंशतिं च गङ्गाम अनु चतुर्दश ॥ 41 ॥
अश्वमेध सहस्रेण राजसूय शतेन च इष्टवान स महातेजा दौःषन्तिर भरतः पुरा ॥ 42 ॥
भरतस्य महत कर्म सर्वराजसु पार्थिवाः खं मर्त्या इव बाहुभ्यां नानुगन्तुम अशक्नुवन ॥ 43 ॥
परं सहस्राद यॊ बद्ध्वा हयान वेदीं विचित्य च सहस्रं यत्र पद्मानां कण्वाय भरतॊ ददौ ॥ 44 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 45 ॥
रामं दाशरथिं चैव मृतं शुश्रुम सृञ्जय यॊ ऽनवकम्पत वै नित्यं परजाः पुत्रान इवौरसान ॥ 46 ॥
विधवा यस्य विषये नानाथाः काश चनाभवन सर्वस्यासीत पितृसमॊ रामॊ राज्यं यदान्वशात ॥ 47 ॥
कालवर्षाश च पर्जन्याः सस्यानि रसवन्ति च नित्यं सुभिक्षम एवासीद रामे राज्यं परशासति ॥ 48 ॥
पराणिनॊ नाप्सु मज्जन्ति नानर्थे पावकॊ ऽदहत न वयालजं भयं चासीद रामे राज्यं परशासति ॥ 49 ॥
आसन वर्षसहस्राणि तथा पुत्रसहस्रिकाः अरॊगाः सर्वसिद्धार्थाः परजा रामे परशासति ॥ 50 ॥
नान्यॊन्येन विवादॊ ऽभूत सत्रीणाम अपि कुतॊ नृणाम धर्मनित्याः परजाश चासन रामे राज्यं परशासति ॥ 51 ॥
नित्यपुष्पफलाश चैव पादपा निरुपद्रवाः सर्वा दरॊण दुघा गावॊ रामे राज्यं परशासति ॥ 52 ॥
स चतुर्दश वर्षाणि वने परॊष्य महातपाः दशाश्वमेधाञ जारूथ्यान आजहार निरर्गलान ॥ 53 ॥
शयामॊ युवा लॊहिताक्षॊ मत्तवारणविक्रमः दशवर्षसहस्राणि रामॊ राज्यम अकारयत ॥ 54 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 55 ॥
भगीरथं च राजानं मृतं शुश्रुम सृञ्जय यस्येद्न्रॊ वितते यज्ञे सॊमं पीत्वा मदॊत्कटः ॥ 56 ॥
असुराणां सहस्राणि बहूनि सुरसत्तमः अजयद बाहुवीर्येण भगवान पाकशासनः ॥ 57 ॥
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ईजानॊ वितते यज्ञे दक्षिणाम अत्यकालयत ॥ 58 ॥
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः रथे रथे शतं नागाः पद्मिनॊ हेममालिनः ॥ 59 ॥
सहस्रम अश्वा एकैकं हस्तिनं पृष्ठतॊ ऽनवयुः गवां सहस्रम अश्वे ऽशवे सहस्रं गव्य अजाविकम ॥ 60 ॥
उपह्वरे निवसतॊ यस्याङ्के निषसाद ह गङ्गा भागीरथी तस्माद उर्वशी हय अभवत पुरा ॥ 61 ॥
भूरिदक्षिणम इक्ष्वाकुं यजमानं भगीरथम तरिलॊकपथ गा गङ्गा दुहितृत्वम उपेयिषी ॥ 62 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 63 ॥
दिलीपं चैवैलविलं मृतं शुश्रुम सृञ्जय यस्य कर्माणि भूरीणि कथयन्ति दविजातयः ॥ 64 ॥
इमां वै वसु संपन्नां वसुधां वसुधाधिपः ददौ तस्मिन महायज्ञे बराह्मणैभ्यः समाहितः ॥ 65 ॥
तस्येह यजमानस्य यज्ञे यज्ञे पुरॊहितः सहस्रं वारणान हैमान दक्षिणाम अत्यकालयत ॥ 66 ॥
यस्य यज्ञे महान आसीद यूपः शरीमान हिरण्मयः तं देवाः कर्म कुर्वाणाः शक्र जयेष्ठा उपाश्रयन ॥ 67 ॥
चषालॊ यस्य सौवर्णस तस्मिन यूपे हिरण्मये ननृतुर देवगन्धर्वाः षट सहस्राणि सप्तधा ॥ 68 ॥
अवादयत तत्र वीणां मध्ये विश्वावसुः सवयम सर्वभूतान्य अमन्यन्त मम वादयतीत्य अयम ॥ 69 ॥
एतद राज्ञॊ दिलीपस्य राजानॊ नानुचक्रिरे यत सत्रियॊ हेमसंपन्नाः पथि मत्ताः सम शेरते ॥ 70 ॥
राजानम उग्रधन्वानं दिलीपं सत्यवादिनम ये ऽपश्यन सुमहात्मानं ते ऽपि सवर्गजितॊ नराः ॥ 71 ॥
तरयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने सवाध्यायघॊषॊ जयाघॊषॊ दीयताम इति चैव हि ॥ 72 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 73 ॥
मांधातारं यौवनाश्वं मृतं शुश्रुम सृञ्जय यं देवा मरुतॊ गर्भं पितुः पार्श्वाद अपाहरन ॥ 74 ॥
संवृद्धॊ युवनाश्वस्य जठरे यॊ महात्मनः पृषद आज्यॊद्भवः शरीमांस तरिलॊकविजयी नृपः ॥ 75 ॥
यं दृष्ट्वा पितुर उत्सङ्गे शयानं देवरूपिणम अन्यॊन्यम अब्रुवन देवाः कम अयं धास्यतीति वै ॥ 76 ॥
माम एव धास्यतीत्य एवम इन्द्रॊ अभ्यवपद्यत मांधातेति ततस तस्य नाम चक्रे शतक्रतुः ॥ 77 ॥
ततस तु पयसॊ धारां पुष्टि हेतॊर महात्मनः तस्यास्ये यौवनाश्वस्य पाणिर इन्द्रस्य चास्रवत ॥ 78 ॥
तं पिबन पाणिम इन्द्रस्य समाम अह्ना वयवर्धत स आसीद दवादश समॊ दवादशाहेन पार्थिव ॥ 79 ॥
तम इयं पृथिवी सर्वा एकाह्ना समपद्यत धर्मात्मानं महात्मानं शूरम इन्द्रसमं युधि ॥ 80 ॥
य आङ्गारं हि नृपतिं मरुत्तम असितं गयम अङ्गं बृहद्रथं चैव मांधाता समरे ऽजयत ॥ 81 ॥
यौवनाश्वॊ यदाङ्गारं समरे समयॊधयत विस्फारैर धनुषॊ देवा दयौर अभेदीति मेनिरे ॥ 82 ॥
यतः सूर्य उदेति सम यत्र च परतितिष्ठति सर्वं तद यौवनाश्वस्य मांधातुः कषेत्रम उच्यते ॥ 83 ॥
अश्वमेध शतेनेष्ट्वा राजसूय शतेन च अददाद रॊहितान मत्स्यान बराह्मणैभ्यॊ महीपतिः ॥ 84 ॥
हैरण्यान यॊजनॊत्सेधान आयतान दशयॊजनम अतिरिक्तान दविजातिभ्यॊ वयभजन्न इतरे जनाः ॥ 85 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 86 ॥
ययातिं नाहुषं चैव मृतं शुश्रुम सृञ्जय य इमां पृथिवीं सर्वां विजित्य सह सागराम ॥ 87 ॥
शम्या पातेनाभ्यतीयाद वेदीभिश चित्रयन नृप ईजानः करतुभिः पुण्यैः पर्यगच्छद वसुंधराम ॥ 88 ॥
इष्ट्वा करतुसहस्रेण वाजिमेधशतेन च तर्पयाम आस देवेन्द्रं तरिभिः काञ्चनपर्वतैः ॥ 89 ॥
वयूढे देवासुरे युद्धे हत्वा दैतेय दानवान वयभजत पृथिवीं कृत्स्नां ययातिर नहुषात्मजः ॥ 90 ॥
अन्तेषु पुत्रान निक्षिप्य यदुद्रुह्यु पुरॊगमान पूरुं राज्ये ऽभिषिच्य सवे सदारः परस्थितॊ वनम ॥ 91 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 92 ॥
अम्बरीषं च नाभागं मृतं शुश्रुम सृञ्जय यं परजा वव्रिरे पुण्यं गॊप्तारं नृपसत्तम ॥ 93 ॥
यः सहस्रं सहस्राणां राज्ञाम अयुत याजिनाम ईजानॊ वितते यज्ञे बराह्मणैभ्यः समाहितः ॥ 94 ॥
नैतत पूर्वे जनाश चक्रुर न करिष्यन्ति चापरे इत्य अम्बरीषं नाभागम अन्वमॊदन्त दक्षिणाः ॥ 95 ॥
शतं राजसहस्राणि शतं राजशतानि च सर्वे ऽशवमेधैर ईजानास ते ऽभययुर दक्षिणायनम ॥ 96 ॥
स चेन ममार सृञ्जय चतुर्भद्र तरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 97 ॥
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय यस्य भार्या सहस्राणां शतम आसीन महात्मनः ॥ 98 ॥
सहस्रं तु सहस्राणां यस्यासञ शाश बिन्दवः हिरण्यकवचाः सर्वे सर्वे चॊत्तमधन्विनः ॥ 99 ॥
शतं कन्या राजपुत्रम एकैकं पृष्ठतॊ ऽनवयुः कन्यां कन्यां शतं नागा नागं नागं शतं रथाः ॥ 100 ॥
रथं रथं शतं चाश्वा देशजा हेममालिनः अश्वम अश्वं शतं गावॊ गां गां तद्वद अजाविकम ॥ 101 ॥
एतद धनम अपर्यन्तम अश्वमेधे महामखे शशबिन्दुर महाराज बराह्मणैभ्यः समादिशत ॥ 102 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 103 ॥
गयम आमूर्तरयसं मृतं शुश्रुम सृञ्जय यः स वर्षशतं राजा हुतशिष्टाशनॊ ऽभवत ॥ 104 ॥
यस्मै वह्निर वरान परादात ततॊ वव्रे वरान गयः ददतॊ मे ऽकषया चास्तु धर्मे शरद्धा च वर्धताम ॥ 105 ॥
मनॊ मे रमतां सत्ये तवत्प्रसादाद धुताशन लेभे च कामांस तान सर्वान पावकाद इति नः शरुतम ॥ 106 ॥
दर्शेन पौर्णमासेन चातुर्मास्यैः पुनः पुनः अयजत स महातेजाः सहस्रं परिवत्सरान ॥ 107 ॥
शतं गवां सहस्राणि शतम अश्वशतानि च उत्थायॊत्थाय वै परादात सहस्रं परिवत्सरान ॥ 108 ॥
तर्पयाम आस सॊमेन देवान वित्तैर दविजान अपि पितॄन सवधाभिः कामैश च सत्रियः सवाः पुरुषर्षभ ॥ 109 ॥
सौवर्णां पृथिवीं कृत्वा दशव्यामां दविर आयताम दक्षिमाम अददद राजा वाजिमेधमहामखे ॥ 110 ॥
यावत्यः सिकता राजन गङ्गायाः पुरुषर्षभ तावतीर एव गाः परादाद आमूर्तरयसॊ गयः ॥ 111 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 112 ॥
रन्ति देवं च साङ्कृत्यं मृतं शुश्रुम सृञ्जय सम्यग आराध्य यः शक्रं वरं लेभे महायशाः ॥ 113 ॥
अन्नं च नॊ बहु भवेद अतिथींश च लभेमहि शरद्धा च नॊ मा वयगमन मा च याचिष्म कं चन ॥ 114 ॥
उपातिष्ठन्त पशवः सवयं तं संशितव्रतम गराम्यारण्या महात्मानं रन्ति देवं यशस्विनम ॥ 115 ॥
महानदी चर्म राशेर उत्क्लेदात सुस्रुवे यतः ततश चर्मण्वतीत्य एवं विख्याता सा महानदी ॥ 116 ॥
बराह्मणैभ्यॊ ददौ निष्कान सदसि परतते नृपः तुभ्यं तुभ्यं निष्कम इति यत्राक्रॊशन्ति वै दविजाः सहस्रं तुभ्यम इत्य उक्त्वा बराह्मणान सम परपद्यते ॥ 117 ॥
अन्वाहार्यॊपकरणं दरव्यॊपकरणं च यत घटाः सथाल्यः कटाहाश च पात्र्यश च पिठरा अपि न तत किं चिद असौवर्णं रन्ति देवस्य धीमतः ॥ 118 ॥
साङ्कृते रन्ति देवस्य यां रात्रिम अवसद गृहे आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥ 119 ॥
तत्र सम सूदाः करॊशन्ति सुमृष्टमणिकुण्डलाः सूपभूयिष्ठम अश्नीध्वं नाद्य मांसं यथा पुरा ॥ 120 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 121 ॥
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय ऐक्ष्वाकं पुरुषव्याघ्रम अति मानुषविक्रमम ॥ 122 ॥
षष्टिः पुत्रसहस्राणि यं यान्तं पृष्ठतॊ ऽनवयुः नक्षत्रराजं वर्षान्ते वयभ्रे जयॊतिर गणा इव ॥ 123 ॥
एकछत्रा मही यस्य परणता हय अभवत पुरा यॊ ऽशवमेध सहस्रेण तर्पयाम आस देवताः ॥ 124 ॥
यः परादात काञ्चनस्तम्भं परासादं सर्वकाञ्चनम पूर्णं पद्मदलाक्षीणां सत्रीणां शयनसंकुलम ॥ 125 ॥
दविजातिभ्यॊ ऽनुरूपैभ्यः कामान उच्चावचांस तथा यस्यादेशेन तद वित्तं वयभजन्त दविजातयः ॥ 126 ॥
खानयाम आस यः कॊपात पृथिवीं सागराङ्किताम यस्य नाम्ना समुद्रश च सागरत्वम उपागतः ॥ 127 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 128 ॥
राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय यम अभ्यषिञ्चन संभूय महारण्ये महर्षयः ॥ 129 ॥
परथयिष्यति वै लॊकान पृथुर इत्य एव शब्दितः कषताच च नस तरायतीति स तस्मात कषत्रियः समृतः ॥ 130 ॥
पृथुं वैन्यं परजा दृष्ट्वा रक्ताः समेति यद अब्रुवन ततॊ राजेति नामास्य अनुरागाद अजायत ॥ 131 ॥
अकृष्टपच्या पृथिवी पुटके पुटके मधु सर्वा दरॊण दुघा गावॊ वैन्यस्यासन परशासतः ॥ 132 ॥
अरॊगाः सर्वसिद्धार्था मनुष्या अकुतॊभयाः यथाभिकामम अवसन कषेत्रेषु च गृहेषु च ॥ 133 ॥
आपः संस्तम्भिरे यस्य समुद्रस्य यियासतः सरितश चानुदीर्यन्त धवजसङ्गश च नाभवत ॥ 134 ॥
हैरण्यांस तरिनलॊत्सेधान पर्वतान एकविंशतिम बराह्मणैभ्यॊ ददौ राजा यॊ ऽशवमेधे महामखे ॥ 135 ॥
स चेन ममार सृञ्जय चतुर्भद्रतरस तवया पुत्रात पुण्यतरश चैव मा पुत्रम अनुतप्यथाः ॥ 136 ॥
किं वै तूष्णीं धयायसि सृञ्जय तवं; न मे राजन वाचम इमां शृणॊषि न चेन मॊघं विप्रलप्तं मयेदं; पथ्यं मुमूर्षॊर इव सम्यग उक्तम ॥ 137 ॥
[सृन्जय] शृणॊमि ते नारद वाचम एतां; विचित्रार्थां सरजम इव पुण्यगन्धाम राजर्षीणां पुण्यकृतां महात्मनां; कीर्त्या युक्तां शॊकनिर्णाशनार्थम ॥ 138 ॥
न ते मॊघं विप्रलप्तं महर्षे; दृष्ट्वैव तवां नारदाहं वि शॊकः शुश्रूषे ते वचनं बरह्मवादिन; न ते तृप्याम्य अमृतस्येव पानात ॥ 139 ॥
अमॊघदर्शिन मम चेत परसादं; सुताघ दग्धस्य विभॊ परकुर्याः मृतस्य संजीवनम अद्य मे सयात; तव परसादात सुत संगमश च ॥ 140 ॥
[नारद] यस ते पुत्रॊ दयितॊ ऽयं वियातः; सवर्णष्ठीवी यम अदात पर्वतस ते पुनस ते तं पुत्रम अहं ददामि; हिरण्यनाभं वर्षसहस्रिणं च ॥ 141 ॥
शान्तिपर्व · Shanti Parva
अध्याय 29
Reach this point to mark the section finished.
Continue to अध्याय 30