[वैषम्पायन] स एवम उक्तस तु मुनिर नारदॊ वदतां वरः कथयाम आस तत सर्वं यथा शप्तः ससूतजः ॥ 1 ॥
एवम एतन महाबाहॊ यथा वदसि भारत न कर्णार्जुनयॊः किं चिद अविषह्यं भवेद रणे ॥ 2 ॥
गुह्यम एतत तु देवानां कथयिष्यामि ते नृप तन निबॊध महाराज यथावृत्तम इदं पुरा ॥ 3 ॥
कषत्रं सवर्गं कथं गच्छेच छस्त्र पूतम इति परभॊ संघर्षजननस तस्मात कन्या गर्भॊ विनिर्मितः ॥ 4 ॥
स बालस तेजसा युक्तः सूतपुत्रत्वम आगतः चकाराङ्गिरसां शरेष्ठे धनुर्वेदं गुरौ तव ॥ 5 ॥
सबलं भीमसेनस्य फल्गुनस्य च लाघवम बुद्धिं च तव राजेन्द्र यमयॊर विनयं तथा ॥ 6 ॥
सख्यं च वासुदेवेन बाल्ये गाण्डिवधन्वनः परजानाम अनुरागं च चिन्तयानॊ वयदह्यत ॥ 7 ॥
स सख्यम अगमद बाल्ये राज्ञा दुर्यॊधनेन वै युष्माभिर नित्यसंद्विष्टॊ दैवाच चापि सवभावतः ॥ 8 ॥
विद्याधिकम अथालक्ष्य धनुर्वेदे धनंजयम दरॊणं रहस्य उपागम्य कर्णॊ वचनम अब्रवीत ॥ 9 ॥
बरह्मास्तं वेत्तुम इच्छामि स रहस्यनिवर्तनम अर्जुनेन समॊ युद्धे भवेयम इति मे मतिः ॥ 10 ॥
समः पुत्रेषु च सनेहः शिष्येषु च तव धरुवम तवत्प्रसादान न मां बरूयुर अकृतास्त्रं विचक्षणाः ॥ 11 ॥
दरॊणस तथॊक्तः कर्णेन सापेक्षः फल्गुनं परति दौरात्म्यं चापि कर्णस्य विदित्वा तम उवाच ह ॥ 12 ॥
बरह्मास्तं बराह्मणॊ विद्याद यथावच चरितव्रतः कषत्रियॊ वा तपस्वी यॊ नान्यॊ विद्यात कथं चन ॥ 13 ॥
इत्य उक्तॊ ऽङगिरसां शरेष्ठम आमन्त्र्य परतिपूज्य च जगाम सहसा रामं महेन्द्रं पर्वतं परति ॥ 14 ॥
स तु रामम उपागम्य शिरसाभिप्रणम्य च बराह्मणॊ भार्गवॊ ऽसमीति गौरवेणाभ्यगच्छत ॥ 15 ॥
रामस तं परतिजग्राह पृष्ट्वा गॊत्रादि सर्वशः उष्यतां सवागतं चेति परीतिमांश चाभवद भृशम ॥ 16 ॥
तत्र कर्णस्य वसतॊ महेन्द्रे पर्वतॊत्तमे गन्धर्वै राक्षसैर यक्षैर देवैश चासीत समागमः ॥ 17 ॥
स तत्रेष्व अस्त्रम अकरॊद भृगुश्रेष्ठाद यथाविधि परियश चाभवद अत्यर्थं देवगन्धर्वरक्षसाम ॥ 18 ॥
स कदा चित समुद्रान्ते विचरन्न आश्रमान्तिके एकः खड्गधनुः पाणिः परिचक्राम सूत जः ॥ 19 ॥
सॊ ऽगनिहॊत्रप्रसक्तस्य कस्य चिद बरह्मवादिनः जघानाज्ञानतः पार्थ हॊमधेनुं यदृच्छया ॥ 20 ॥
तद अज्ञानकृतं मत्वा बराह्मणाय नयवेदयत कर्णः परसादयंश चैनम इदम इत्य अब्रवीद वचः ॥ 21 ॥
अबुद्धि पूर्वं भगवन धेनुर एषा हता तव मया तत्र परसादं मे कुरुष्वेति पुनः पुनः ॥ 22 ॥
तं स विप्रॊ ऽबरवीत करुद्धॊ वाचा निर्भर्त्सयन्न इव दुराचार वधार्हस तवं फलं पराप्नुहि दुर्मते ॥ 23 ॥
येन विस्पर्धसे नित्यं यदर्थं घटसे ऽनिशम युध्यतस तेन ते पापभूमिश चक्रं गरसिष्यति ॥ 24 ॥
ततश चक्रे मही गरस्ते मूर्धानं ते विचेतसः पातयिष्यति विक्रम्य शत्रुर गच्छ नराधम ॥ 25 ॥
यथेयं गौर हता मूढ परमत्तेन तवया मम परमत्तस्यैवम एवान्यः शिरस ते पातयिष्यति ॥ 26 ॥
ततः परसादयाम आस पुनस तं दविजसत्तमम गॊभिर धनैश च रत्नैश च स चैनं पुनर अब्रवीत ॥ 27 ॥
नेदं मद वयाहृतं कुर्यात सर्वलॊकॊ ऽपि वै मृषा गच्छ वा तिष्ठ वा यद वा कार्यं ते तत समाचर ॥ 28 ॥
इत्य उक्तॊ बराह्मणेनाथ कर्णॊ दैन्याद अधॊमुखः रामम अभ्यागमद भीतस तद एव मनसा समरन ॥ 29 ॥
शान्तिपर्व · Shanti Parva
अध्याय 2
Reach this point to mark the section finished.
Continue to अध्याय 3