[य] धर्माधर्मविमुक्तं यद विमुक्तं सर्वसंश्रयात जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयॊः ॥ 1 ॥
यच छिवं नित्यम अभयं नित्यं चाक्षरम अव्ययम शुचि नित्यम अनायासं तद भवान वक्तुम अर्हति ॥ 2 ॥
[भी] अत्र ते वर्तयिष्ये ऽहम इतिहासं पुरातनम याज्ञवल्क्यस्य संवादं जनकस्य च भारत ॥ 3 ॥
याज्ञवल्क्यम ऋषिश्रेष्ठं दैवरातिर मया यशः पप्रच्छ जनकॊ राजा परश्नं परश्नविदां वरः ॥ 4 ॥
कतीन्द्रियाणि विप्रर्षे कति परकृतयः समृताः किम अव्यक्तं परं बरह्म तस्माच च परतस तु किम ॥ 5 ॥
परभवं चाप्ययं चैव कालसंख्यां तथैव च वक्तुम अर्हसि विप्रेन्द्र तवद अनुग्रह काङ्क्षिणः ॥ 6 ॥
अज्ञानात परिपृच्छामि तवं हि जञानमयॊ निधिः तद अहं शरॊतुम इच्छामि सर्वम एतद असंशयम ॥ 7 ॥
[या] शरूयताम अवनी पाल यद एतद अनुपृच्छसि यॊगानां परमं जञानं सांख्यानां च विशेषतः ॥ 8 ॥
न तवाविदितं किं चिन मां तु जिज्ञासते भवान पृष्टेन चापि वक्तव्यम एष धर्मः सनातनः ॥ 9 ॥
अस्तौ परकृतयः परॊक्ता विकाराश चापि सॊदश अथ सप्त तु वयक्तानि पराहुर अध्यात्मचिन्तकाः ॥ 10 ॥
अव्यक्तं च महांश चैव तथाहंकार एव च पृथिवी वायुर आकाशम आपॊ जयॊतिश च पञ्चमम ॥ 11 ॥
एताः परकृतयस तव अस्तौ विकारान अपि मे शृणु शरॊत्रं तवक चैव चक्षुश च जिह्वा घराणं च पञ्चमम ॥ 12 ॥
शब्दस्पर्शौ च रूपं च रसॊ गन्धस तथैव च वाक च हस्तौ च पादौ च पायुर मेध्रं तथैव च ॥ 13 ॥
एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु बुद्धीन्द्रियाण्य अथैतानि सविशेषाणि मैथिल ॥ 14 ॥
मनः सॊदशकं पराहुर अध्यात्मगतिचिन्तकाः तवं चैवान्ये च विद्वांसस तत्त्वबुद्धिविशारदाः ॥ 15 ॥
अव्यक्ताच च महान आत्मा समुत्पद्यति पार्तिव परथमं सर्गम इत्य एतद आहुः पराधानिकं बुधाः ॥ 16 ॥
महतश चाप्य अहंकार उत्पद्यति नराधिप दवितीयं सर्गम इत्य आहुर एतद बुद्ध्यात्मकं समृतम ॥ 17 ॥
अहंकाराच च संभूतं मनॊ भूतगुणात्मकम तृतीयः सर्ग इत्य एष आहंकारिक उच्यते ॥ 18 ॥
मनसस तु समुद्भूता महाभूता नराधिप चतुर्थं सर्गम इत्य एतन मानसं परिचक्षते ॥ 19 ॥
शब्दः सपर्शश च रूपं च रसॊ गन्धस तथैव च पञ्चमं सर्गम इत्य आहुर भौतिकं भूतचिन्तकाः ॥ 20 ॥
शरॊत्रं तवक चैव चक्षुश च जिह्वा घराणं च पञ्चमम सर्गं तु सस्थम इत्य आहुर बहु चिन्तात्मकं समृतम ॥ 21 ॥
अधः शरॊत्रेन्द्रिय गराम उत्पद्यति नराधिप सप्तमं सर्गम इत्य आहुर एतद ऐन्द्रियकं समृतम ॥ 22 ॥
ऊर्ध्वस्रॊतस तथा तिर्यग उत्पद्यति नराधिप अस्तमं सर्गम इत्य आहुर एतद आर्जवकं बुधाः ॥ 23 ॥
तिर्यक सरॊतस तव अधः सरॊत उत्पद्यति नराधिप नवमं सर्गम इत्य आहुर एतद आर्जवकं बुधाः ॥ 24 ॥
एतानि नव सर्गाणि तत्त्वानि च नराधिप चतुर्विंशतिर उक्तानि यथा शरुतिनिदर्शनात ॥ 25 ॥
अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः महात्मभिर अनुप्रॊक्तां कालसंख्यां निबॊध मे ॥ 26 ॥
शान्तिपर्व · Shanti Parva
अध्याय 298
Reach this point to mark the section finished.
Continue to अध्याय 299