[भी] मृगयां विचरन कश चिद विजने जनकात्मजः वने ददर्श विप्रेन्द्रम ऋषिं वंशधरं भृगॊः ॥ 1 ॥
तम आसीनम उपासीनः परनम्य शिरसा मुनिम पश्चाद अनुमतस तेन पप्रच्छ वसुमान इदम ॥ 2 ॥
भगवन किम इदं शरेयः परेत्य वापीह वा भवेत पुरुषस्याध्रुवे देहे कामस्य वशवर्तिनः ॥ 3 ॥
सत्कृत्य परिपृष्टः सन सुमहात्मा महातपः निजगाद ततस तस्मै शरेयस्करम इदं वचः ॥ 4 ॥
मनसॊ ऽपरतिकूलानि परेत्य चेह च वाञ्छसि भूतानां परतिकूलेभ्यॊ निर्वर्तस्व यतेन्द्रियः ॥ 5 ॥
धर्मः सतां हितः पुंसां धर्मश चैवाश्रयः सताम धर्माल लॊकास तरयस तात परवृत्ताः सचराचराः ॥ 6 ॥
सवादु कामुक कामानां वैतृष्ण्यं किं न गच्छसि मधु पश्यसि दुर्बुद्धे परपातं नानुपश्यसि ॥ 7 ॥
यथा जञाने परिचयः कर्तव्यस तत फलार्थिना तथा धर्मे परिचयः कर्तव्यस तत फलार्थिना ॥ 8 ॥
असता धर्मकामेन विशुद्धं कर्म दुष्करम सता तु धर्मकामेन सुकरं कर्म दुष्करम ॥ 9 ॥
वने गराम्यसुखाचारॊ यथा गराम्यस तथैव सः गरामे वनसुखाचारॊ यथा वनचरस तथा ॥ 10 ॥
मनॊ वाक कर्मके धर्मे कुरु शरद्धां समाहितः निवृत्तौ वा परवृत्तौ वा संप्रधार्य गुणागुणान ॥ 11 ॥
नित्यं च बहु दातव्यं साधुभ्यश चानसूयता परार्थितं वरतशौचाभ्यां सत्कृतं देशकालयॊः ॥ 12 ॥
शुभेन विधिना लब्धम अर्हाय परतिपादयेत करॊधम उत्सृज्य दत्त्वा च नानुतप्येन न कीर्तयेत ॥ 13 ॥
अनृशंसः शुचिर दान्तः सत्यवाग आर्जवे सथितः यॊनिकर्म विशुद्धश च पात्रं सयाद वेदविद दविजः ॥ 14 ॥
सत्कृता चैकपत्नी च जात्या यॊनिर इहेश्यते ऋद यजुः सामगॊ विद्वान सः कर्मा पात्रम उच्यते ॥ 15 ॥
स एव धर्मः सॊ ऽधर्मस तं तं परतिनरं भवेत पात्रकर्म विशेषेण देशकालाव अवेक्ष्य च ॥ 16 ॥
लीलयालं यथा गात्रात परमृज्याद रजसः पुमान बहु यत्नेन महता पापनिर्हरनं तथा ॥ 17 ॥
विरक्तस्य यथा सम्यग घृतं भवति भेषजम तथा निर्हृत दॊषस्य परेत्य धर्मः सुखावहः ॥ 18 ॥
मानसं सर्वभूतेषु वर्तते वै शुभाशुभे अशुभेभ्यः समाक्षिप्य शुभेष्व एवावतारयेत ॥ 19 ॥
सर्वं सर्वेण सर्वत्र करियमाणं च पूजय सवधर्मे यत्र रागस ते कामं धर्मॊ विधीयताम ॥ 20 ॥
अधृतात्मन धृतौ तिष्ठ दुर्बुद्धे बुद्धिमान भव अप्रशान्त परशाम्य तवम अप्राज्ञ पराज्ञवच चर ॥ 21 ॥
तेजसा शक्यते पराप्तुम उपायसह चारिणा इह च परेत्य च शरेयस तस्य मूलं धृतिः परा ॥ 22 ॥
राजर्षिर अधृतिः सवर्गात पतितॊ हि महाभिषः ययाति कषीणपुण्यश च धृत्या लॊकान अवाप्तवान ॥ 23 ॥
तपस्विनां धर्मवतां विदुषां चॊपसेवनात पराप्स्यसे विपुलां बुद्धिं तथा शरेयॊ ऽभिपत्स्यसे ॥ 24 ॥
स तु सवभावसंपन्नस तच छरुत्वा मुनिभासितम विनिवर्त्य मनः कामाद धर्मे बुद्धिं चकार ह ॥ 25 ॥
शान्तिपर्व · Shanti Parva
अध्याय 297
Reach this point to mark the section finished.
Continue to अध्याय 298