धर्मDharmic Data

शान्तिपर्व · Shanti Parva

अध्याय 296

  1. [वसिस्ठ] अप्रबुद्धम अथाव्यक्तम इमं गुणविधिं शृणु गुणान धारयते हय एषा सृजत्य आक्षिपते तथा ॥ 1 ॥

  2. अजस्रं तव इह करीदार्थं विकुर्वन्ती नराधिप आत्मानं बहुधा कृत्वा तान्य एव च विचक्षते ॥ 2 ॥

  3. एतद एवं विकुर्वाणां बुध्यमानॊ न बुध्यते अव्यक्तबॊधनाच चैव बुध्यमानं वदन्त्य अपि ॥ 3 ॥

  4. न तव एव बुध्यते ऽवयक्तं सगुणं वाथ निर्गुणम कदा चित तव एव खल्व एतद आहुर अप्रति बुद्धकम ॥ 4 ॥

  5. बुध्यते यदि वाव्यक्तम एतद वै पञ्चविंशकम बुध्यमानॊ भवत्य एष सङ्गात्मक इति शरुतिः ॥ 5 ॥

  6. अनेनाप्रतिबुद्धेति वदन्त्य अव्यक्तम अच्युतम अव्यक्तबॊधनाच चैव बुध्यमानं वदन्त्य उप ॥ 6 ॥

  7. पञ्चविंशं महात्मानं न चासाव अपि बुध्यते सद्विंशं विमलं बुद्धम अप्रमेयं सनातनम ॥ 7 ॥

  8. सततं पञ्चविंसं च चतुर्विंशं च बुध्यते दृश्यादृश्ये हय अनुगतम उभाव एव महाद्युती ॥ 8 ॥

  9. अव्यक्तं न तु तद बरह्म बुध्यते तात केवलम केवलं पञ्चविंशं च चतुर्विंशं न पश्यति ॥ 9 ॥

  10. बुध्यमानॊ यदात्मानम अन्यॊ ऽहम इति मन्यते तदा परकृतिमान एष भवत्य अव्यक्तलॊचनः ॥ 10 ॥

  11. बुध्यते च परां बुद्धिं विशुद्धाम अमलां यदा सद्विंशॊ राजशार्दूल तदा बुद्धत्वम आव्रजेत ॥ 11 ॥

  12. ततस तयजति सॊ ऽवयक्तं सर्ग परलय धर्मिणम निर्गुणः परकृतिं वेद गुणयुक्ताम अचेतनाम ॥ 12 ॥

  13. ततः केवलधर्मासौ भवत्य अव्यक्तदर्शनात केवलेन समागम्य विमुक्तॊ ऽऽतमानम आप्नुयात ॥ 13 ॥

  14. एतत तत तत्त्वम इत्य आहुर निस्तत्त्वम अजरामरम तत्त्वसंश्रयणाद एतत तत्त्ववन न च मानद पञ्चविंशति तत्त्वानि परवदन्ति मनीषिणः ॥ 14 ॥

  15. न चैष तत्त्ववांस तात निस्तत्त्वस तव एष बुद्धिमान एष मुञ्चति तत्त्वं हि कषिप्रं बुद्धस्य लक्षणम ॥ 15 ॥

  16. सद्विंशॊ ऽहम इति पराज्ञॊ गृह्यमाणॊ ऽजरामरः केवलेन बलेनैव समतां यात्य असंशयम ॥ 16 ॥

  17. सद्विंशेन परबुद्धेन बुध्यमानॊ ऽपय अबुद्धिमान एतन नानात्वम इत्य उक्तं सांख्यश्रुतिनिदर्शनात ॥ 17 ॥

  18. चेतनेन समेतस्य पञ्चविंशतिकस्य च एकत्वं वै भवत्य अस्य यदा बुद्ध्या न बुध्यते ॥ 18 ॥

  19. बुध्यमानॊ ऽपरबुद्धेन समतां याति मैथिल सङ्गधर्मा भवत्य एष निःसङ्गात्मा नराधिप ॥ 19 ॥

  20. निःसङ्गात्मानम आसाद्य सद्विंशकम अजं विदुः विभुस तयजति चाव्यक्तं यदा तव एतद विबुध्यते चतुर्विंशम अगाधं च सद्विंशस्य परबॊधनात ॥ 20 ॥

  21. एष हय अप्रतिबुद्धश च बुध्यमानश च ते ऽनघ परॊक्तॊ बुद्धश च तत्त्वेन यथा शरुतिनिदर्शनात नानात्वैकत्वम एतावद दरष्टव्यं शास्त्रदृष्टिभिः ॥ 21 ॥

  22. मशकॊदुम्बरे यद्वद अन्यत्वं तद्वद एतयॊः मत्स्यॊ ऽमभसि यथा तद्वद अन्यत्वम उपलभ्यते ॥ 22 ॥

  23. एवम एवावगन्तव्यं नानात्वैकत्वम एतयॊः एतद विमॊक्ष इत्य उक्तम अव्यक्तज्ञानसंहितम ॥ 23 ॥

  24. पञ्चविंशतिकस्यास्य यॊ ऽयं देहेषु वर्तते एष मॊक्षयितव्येति पराहुर अव्यक्तगॊचरात ॥ 24 ॥

  25. सॊ ऽयम एवं विमुच्येत नान्यथेति विनिश्चयः परेण परधर्मा च भवत्य एष समेत्य वै ॥ 25 ॥

  26. विशुद्धधर्मा शुद्धेन बुद्धेन च स बुद्धिमान विमुक्तधर्मा मुक्तेन समेत्य पुरुषर्षभ ॥ 26 ॥

  27. नियॊग धर्मिणा चैव नियॊगात्मा भवत्य अपि विमॊक्षिणा विमॊक्षश च समेत्येह तथा भवेत ॥ 27 ॥

  28. शुचि कर्मा शुचिश चैव भवत्य अमितदीप्तिमान विमलात्मा च भवति समेत्य विमलात्मना ॥ 28 ॥

  29. केवलात्मा तथा चैव केवलेन समेत्य वै सवतन्त्रश च सवतन्त्रेण सवतन्त्रत्वम अवाप्नुते ॥ 29 ॥

  30. एतावद एतत कथितं मया ते; तथ्यं महाराज यथार्थतत्त्वम अमत्सरत्वं परतिगृह्य चार्थं; सनातनं बरह्म विशुद्धम आद्यम ॥ 30 ॥

  31. न वेद निष्ठस्य जनस्य राजन; परदेयम एतत परमं तवया भवेत विवित्समानाय विबॊध कारकं; परबॊध हेतॊः परनतस्य शासनम ॥ 31 ॥

  32. न देयम एतच च तथानृतात्मने; शठाय कलीबाय न जिह्मबुद्धये न पण्डित जञानपर उपतापिने; देयं तवयेदं विनिबॊध यादृशे ॥ 32 ॥

  33. शरद्धान्वितायाथ गुणान्विताय; परापवादाद विरताय नित्यम विशुद्धयॊगाय बुध्याय चैव; करियावते ऽथ कषमिणे हिताय ॥ 33 ॥

  34. विविक्तशीलाय विधिप्रियाय; विवादहीनाय बहुश्रुताय विजानते चैव न चाहितक्षमे; दमे च शक्ताय शमे च देहिनाम ॥ 34 ॥

  35. एतैर गुणैर हीनतमे न देयम; एत परं बरह्म विशुद्धम आहुः न शरेयसा यॊक्ष्यते तादृशे कृतं; धर्मप्रवक्तारम अपात्र दानात ॥ 35 ॥

  36. पृथिवीम इमां यद्य अपि रत्र पूर्णां; दद्यान न देयं तव इदम अव्रताय जितेन्द्रियायैतद असंशयं ते; भवेत परदेयं परमं नरेन्द्र ॥ 36 ॥

  37. कराल मा ते भयम अस्तु किं चिद; एतच छरुतं बरह्म परं तवयाद्य यथावद उक्तं परमं पवित्रं; निःशॊकम अत्यन्तम अनादिमध्यम ॥ 37 ॥

  38. अगाध जन्मामरणं च राजन; निरामयं वीतभयं शिवं च समीक्ष्य मॊहं तयज चाद्य सर्वं; जञानस्य तत्त्वार्थम इदं विदित्वा ॥ 38 ॥

  39. अवाप्तम एतद धि पुरा सनातनाद; धिरण्यगर्भाद गदतॊ नराधिप परसाद्य यत्नेन तमूग्रतेजसं; सनातनं बरह्म यथा दय वै तवया ॥ 39 ॥

  40. पृष्ठस तवया चास्मि यथा नरेन्द्र; तथा मयेदं तवयि चॊक्तम अद्य तथावाप्तं बरह्मणॊ मे नरेन्द्र; महज जञानं मॊक्षविदां पुराणम ॥ 40 ॥

  41. [भी] एतद उक्तं परं बरह्म यस्मान नावर्तते पुनः पञ्चविंशॊ महाराज परमर्षिनिदर्शनात ॥ 41 ॥

  42. पुनर आवृत्तिम आप्नॊति परं जञानम अवाप्य च नावबुध्यति तत्त्वेन बुध्यमानॊ ऽजरामरः ॥ 42 ॥

  43. एतन निःश्रेयसकरं जञानानां ते परं मया कथितं तत्त्वतस तात शरुत्वा देवर्षितॊ नृप ॥ 43 ॥

  44. हिरण्यगर्भाद ऋषिणा वसिष्ठेन महात्मना वसिष्ठाद ऋषिशार्दूलान नारदॊ ऽवाप्तवान इदम ॥ 44 ॥

  45. नारदाद विदितं मह्यम एतद बरह्म सनातनम मा शुचः कौरवेन्द्र तवं शरुत्वैतत परमं पदम ॥ 45 ॥

  46. येन कषराक्षरे वित्ते न भयं तस्य विद्यते विद्यते तु भयं तस्य यॊ नैतद वेत्ति पार्थिव ॥ 46 ॥

  47. अविज्ञानाच च मूढात्मा पुनः पुनर उपद्रवन परेत्य जातिसहस्राणि मरणान्तान्य उपाश्नुते ॥ 47 ॥

  48. देवलॊकं तथा तिर्यङ मानुष्यम अपि चाश्नुते यदि शुध्यति कालेन तस्माद अज्ञानसागरात ॥ 48 ॥

  49. अज्ञानसागरॊ घॊरॊ हय अव्यक्तॊ ऽगाध उच्यते अहन्य अहनि मज्जन्ति यत्र भूतानि भारत ॥ 49 ॥

  50. यस्माद अगाधाद अव्यक्ताद उत्तीर्णस तवं सनातनात तस्मात तवं विरजाश चैव वितमस्कश च पार्थिव ॥ 50 ॥

Reach this point to mark the section finished.

Continue to अध्याय 297

Previous: अध्याय 295