[करालजनक] नानात्वैकत्वम इत्य उक्तं तवयैतद ऋषिसत्तम पश्यामि चाभिसंदिग्धम एतयॊर वै निदर्शनम ॥ 1 ॥
तथाप्रबुद्ध बुद्धाभ्यां बुध्यमानस्य चानघ सथूलबुद्ध्या न पश्यामि तत्त्वम एतन न संशयः ॥ 2 ॥
अक्षरक्षरयॊर उक्तं तवया यद अपि कारणम तद अप्य अस्थिरबुद्धित्वात परनस्तम इव मे ऽनघ ॥ 3 ॥
तद एतच छरॊतुम इच्छामि नानात्वैकत्व दर्शनम बुद्धम अप्रतिबुद्धं च बुध्यमानं च तत्त्वतः ॥ 4 ॥
विद्याविद्ये च भगवन्न अक्षरं कषरम एव च सांख्यं यॊगं च कार्त्स्न्येन पृथक चैवापृथक च ह ॥ 5 ॥
[वस] हन्त ते संप्रवक्ष्यामि यद एतद अनुपृच्छसि यॊगकृत्यं महाराज पृथग एव शृणुष्व मे ॥ 6 ॥
यॊगकृत्यं तु यॊगानां धयानम एव परं बलम तच चापि दविविधं धयानम आहुर वेदविदॊ जनाः ॥ 7 ॥
एकाग्रता च मनसः पराणायामस तथैव च पराणायामस तु सगुणॊ निर्गुणॊ मनसस तथा ॥ 8 ॥
मूत्रॊत्सर्गे पुरीसे च हॊजने च नराधिप तरिकालं नाभियुज्ञीत शेषं युञ्जीत तत्परः ॥ 9 ॥
इन्द्रियाणीन्द्रियार्थेभ्यॊ निवर्त्य मनसा मुनिः दश दवादशभिर वापि चतुर्विंशात परं ततः ॥ 10 ॥
तं चॊदनाभिर मतिमान आत्मानं चॊदयेद अथ तिष्ठन्तम अजरं तं तु यत तद उक्तं मनीसिभिः ॥ 11 ॥
तैश चात्मा सततं जञेय इत्य एवम अनुशुश्रुम दरव्यं हय अहीन मनसॊ नान्यथेति विनिश्चयः ॥ 12 ॥
विमुक्तः सर्वसङ्गेभ्यॊ लघ्व आहारॊ जितेन्द्रियः पूर्वरात्रे परे चैव धारयेत मनॊ ऽऽतमनि ॥ 13 ॥
सथिरी कृत्येन्द्रिय गरामं मनसा मिथिलेश्वर मनॊ बुद्ध्या सथिरं कृत्वा पासान इव निश्चलः ॥ 14 ॥
सथानुवच चाप्य अकम्पः सयाद गिरिवच चापि निश्चलः बुधा विधिविधानज्ञास तदा युक्तं परचक्षते ॥ 15 ॥
न शृणॊति न चाघ्राति न रस्यति न पश्यति न च सपर्शं विजानाति न संकल्पयते मनः ॥ 16 ॥
न चाभिमन्यते किं चिन न च बुध्यति काष्ठवत तदा परकृतिम आपन्नं युक्तम आहुर मनीषिणः ॥ 17 ॥
निवाते च यथा दीप्यन दीपस तद्वत स दृश्यते निरिङ्गश चाचलश चॊर्ध्वं न तिर्यग्गतिम आप्नुयात ॥ 18 ॥
तदा तम अनुपश्येत यस्मिन दृष्टे तु कथ्यते हृदयस्थॊ ऽनतरात्मेति जञेयॊ जञस तात मद्विधैः ॥ 19 ॥
विधूम इव सप्तार्चिर आदित्य इव रश्मिमान वैद्युतॊ ऽगनिर इवाकाशे दृश्यते ऽऽतमा तथात्मनि ॥ 20 ॥
यं पश्यन्ति महात्मानॊ धृतिमन्तॊ मनीषिणः बराह्मणा बरह्मयॊनिष्ठा हय अयॊनिम अमृतात्मकम ॥ 21 ॥
तद एवाहुर अनुभ्यॊ ऽनु तन महद भयॊ महत्तरम तद अन्तः सर्वभूतेषु धरुवं तिष्ठन न दृश्यते ॥ 22 ॥
बुद्धिद्रव्येण दृश्येत मनॊ दीपेन लॊककृत महतस तमसस तात पारे तिष्ठन्न अतामसः ॥ 23 ॥
स तमॊनुद इत्य उक्तस तत्त्वज्ञैर वेदपारगैः विमलॊ वितमस्कश च निर्लिङ्गॊ ऽलिङ्ग संज्ञितः ॥ 24 ॥
यॊगम एतद धि यॊगानां मन्ये यॊगस्य लक्षणम एवं पश्यं परपश्यन्ति आत्मानम अजरं परम ॥ 25 ॥
यॊगदर्शनम एतावद उक्तं ते तत्त्वतॊ मया सांख्यज्ञानं परवक्ष्यामि परिसंख्या निदर्शनम ॥ 26 ॥
अव्यक्तम आहुः परकृतिं परां परकृतिवादिनः तस्मान महत समुत्पन्नं दवितीयं राजसत्तम ॥ 27 ॥
अहंकारस तु महतस तृतीयम इति नः शरुतम पञ्च भूतान्य अहंकाराद आहुः सांख्या निदर्शिनः ॥ 28 ॥
एताः परकृतयस तवास्तौ विकाराश चापि सॊदश पञ्च चैव विशेषा वै तथा पञ्चेन्द्रियाणि च ॥ 29 ॥
एतावद एव तत्त्वानां सांख्यम आहुर मनीषिणः सांख्ये विधिविधानज्ञा नित्यं सांख्यपथे रताः ॥ 30 ॥
यस्माद यद अभिजायेत तत तत्रैव परलीयते लीयन्ते परतिलॊमानि सृज्यन्ते चान्तर आत्मना ॥ 31 ॥
अनुलॊमेन जायन्ते लीयन्ते परतिलॊमतः गुणा गुणेषु सततं सागरस्यॊर्मयॊ यथा ॥ 32 ॥
सर्वप्रलय एतावान परकृतेर नृपसत्तम एकत्वं परलये चास्य बहुत्वं च यदासृजत एवम एव च राजेन्द्र विज्ञेयं जञेय चिन्तकैः ॥ 33 ॥
अधिष्ठातारम अव्यक्तम अस्याप्य एतन निदर्शनम एकत्वं च बहुत्वं च परकृतेर अनु तत्त्ववान एकत्वं परलये चास्य बहुत्वं च परवर्तनात ॥ 34 ॥
बहुधात्मा परकुर्वीत परकृतिं परसवात्मिकाम तच च कषेत्रं महान आत्मा पञ्चविंशॊ ऽधितिष्ठति ॥ 35 ॥
अधिष्ठातेति राजेन्द्र परॊच्यते यति सत्तमैः अधिष्ठानाद अधिष्ठाता कषेत्राणाम इति नः शरुतम ॥ 36 ॥
कषेत्रं जानाति चाव्यक्तं कषेत्रज्ञ इति चॊच्यते अव्यक्तिके पुरे शेते पुरुषश चेति कथ्यते ॥ 37 ॥
अन्यद एव च कषेत्रं सयाद अन्यः कषेत्रज्ञ उच्यते कषेत्रम अव्यक्तम इत्य उक्तं जञाता वै पञ्चविंशकः ॥ 38 ॥
अन्यद एव च जञानं सयाद अन्यज जञेयं तद उच्यते जञानम अव्यक्तम इत्य उक्तं जञेयॊ वै पञ्चविंशकः ॥ 39 ॥
अव्यक्तं कषेत्रम इत्य उक्तं तथा सत्त्वं तथेश्वरम अनीश्वरम अतत्त्वं च तत्त्वं तत पञ्चविंशकम ॥ 40 ॥
सांख्यदर्शनम एतावत परिसंख्यान दर्शनम सांख्यं परकुरुते चैव परकृतिं च परचक्षते ॥ 41 ॥
तत्त्वानि च चतुर्विंशत परिसंख्याय तत्त्वतः सांख्याः सह परकृत्या तु निस्तत्त्वः पञ्चविंशकः ॥ 42 ॥
पञ्चविंशॊ ऽपरबुद्धात्मा बुध्यमान इति समृतः यदा तु बुध्यते ऽऽतमानं तदा भवति केवलः ॥ 43 ॥
सम्यग दर्शनम एतावद भासितं तव तत्त्वतः एवम एतद विजानन्तः साम्यतां परतियान्त्य उत ॥ 44 ॥
सम्यङ निदर्शनं नाम परत्यक्षं परकृतेस तथा गुणतत्त्वान्य अथैतानि निर्गुणॊ ऽनयस तथा भवेत ॥ 45 ॥
न तवैवं वर्तमानानाम आवृत्तिर विद्यते पुनः विद्यते ऽकषरभावत्वाद अपरः परम अव्ययम ॥ 46 ॥
पश्येरन्न एकमतयॊ न सम्यक तेषु दर्शनम ते ऽवयक्तं परतिपद्यन्ते पुनः पुनर अरिंदम ॥ 47 ॥
सर्वम एतद विजानन्तॊ न सर्वस्य परबॊधनात वयक्ती भूता भविष्यन्ति वयक्तस्य वशवर्तिनः ॥ 48 ॥
सर्वम अव्यक्तम इत्य उक्तम असर्वः पञ्चविंशकः य एनम अभिजानन्ति न भयं तेषु विद्यते ॥ 49 ॥
शान्तिपर्व · Shanti Parva
अध्याय 294
Reach this point to mark the section finished.
Continue to अध्याय 295