[वसिस्ठ] एवम अप्रतिबुद्धत्वाद अबुद्धम अनुवर्तते देहाद देहसहस्राणि तथा समभिपद्यते ॥ 1 ॥
तिर्यग्यॊनिसहस्रेषु कदा चिद देवतास्व अपि उपपद्यति संयॊगाद गुणैः सह गुणक्षयात ॥ 2 ॥
मानुषत्वाद दिवं याति दिवॊ मानुष्यम एव च मानुष्यान निरयस्थानम आनन्त्यं परतिपद्यते ॥ 3 ॥
कॊशकारॊ यथात्मानं कीतः समनुरुन्धति सूत्रतन्तु गुणैर नित्यं तथायम अगुणॊ गुणैः ॥ 4 ॥
दवन्द्वम एति च निर्द्वन्द्वस तासु तास्व इह यॊनिषु शीर्ष रॊगे ऽकषिरॊगे च दन्तशूले गल गरहे ॥ 5 ॥
जलॊदरे ऽरशसां रॊगे जवर गन्द विषूचिके शवित्रे कुष्ठे ऽगनिदाहे च सिध्माप समारयॊर अपि ॥ 6 ॥
यानि चान्यानि दवन्द्वानि पराकृतानि शरीरिषु उत्पद्यन्ते विचित्राणि तान्य एषाप्य अभिमन्यते अभिमन्यत्य अभीमानात तथैव सुकृतान्य अपि ॥ 7 ॥
एकवासाश च दुर्वासाः शायी नित्यम अधस तथा मन्दूक शायी च तथा वीरासन गतस तथा ॥ 8 ॥
चीरधारणम आकाशे शयनं सथानम एव च इष्टका परस्तरे चैव कन्तक परस्तरे तथा ॥ 9 ॥
भस्म परस्तरशायी च भूमिशय्यानुलेपनः वीर सथानाम्बुपङ्के च शयनं फलकेषु च ॥ 10 ॥
विविधासु च शय्यासु फलगृद्ध्यान्वितॊ ऽफलः मुञ्ज मेखल नग्नत्वं कषौमकृष्णाजिनानि च ॥ 11 ॥
शानी वालपरीधानॊ वयाघ्रचर्म परिच्छदः सिंहचर्म परीधानः पत्त वासास तथैव च ॥ 12 ॥
कीतका वसनश चैव चीरवासास तथैव च वस्त्राणि चान्यानि बहून्य अभिमन्यत्य अबुद्धिमान ॥ 13 ॥
भॊजनानि विचित्राणि रत्नानि विविधानि च एकवस्त्रान्तर आशित्वम एककालिक भॊजनम ॥ 14 ॥
चतुर्थास्तम कालश च सस्थ कालिक एव च सॊ रात्रभॊजनश चैव तथैवास्ताह भॊजनः ॥ 15 ॥
सप्तरात्रदशाहारॊ दवादशाहार एव च मासॊपवासी मूलाशी फलाहारस तथैव च ॥ 16 ॥
वायुभक्षॊ ऽमबुपिन्याक गॊमयादन एव च गॊमूत्र भॊजनश चैव शाकपुष्पाद एव च ॥ 17 ॥
शैवाल भॊजनश चैव तथाचामेन वर्तयन वर्तयञ शीर्णपर्णैश च परकीर्ण फलभॊजनः ॥ 18 ॥
विविधानि च कृच्छ्राणि सेवते सुखकाङ्क्षया चान्द्रायणानि विधिवल लिङ्गानि विविधानि च ॥ 19 ॥
चातुराश्रम्य पन्थानम आश्रयत्य आश्रमान अपि उपासीनश च पासन्दान गुहाः शैलांस तथैव च ॥ 20 ॥
विविक्ताश च शिला छायास तथा परस्रवणानि च विविधानि च जप्यानि विविधानि वरतानि च ॥ 21 ॥
नियमान सुविचित्रांश च विविधानि तपांसि च यज्ञांश च विविधाकारान विधींश च विविधांस तथा ॥ 22 ॥
वनिक पथं दविज कषत्रं वैश्यशूद्रं तथैव च दानं च विविधाकारं दीनान्ध कृपणेष्व अपि ॥ 23 ॥
अभिमन्यत्य असंबॊधात तथैव तरिविधान गुणान सत्त्वं रजस तमश चैव धर्मार्थौ काम एव च परकृत्यात्मानम एवात्मा एवं परविभजत्य उत ॥ 24 ॥
सवधाकार वसत कारौ सवाहाकारनमस्क्रियाः याजन धयापनं दानं तथैवाहुः परतिग्रहम यजनाध्ययने चैव यच चान्यद अपि किं चन ॥ 25 ॥
जन्ममृत्युविवादे च तथा विशसने ऽपि च शुभाशुभमयं सर्वम एतद आहुः करिया पथम ॥ 26 ॥
परकृतिः कुरुते देवी महाप्रलयम एव च दिवसान्ते गुणान एतान अभ्येत्यैकॊ ऽवतिष्ठति ॥ 27 ॥
रश्मिजालम इवादित्यस तत कालेन नियच्छति एवम एषॊ ऽसकृत सर्वं करीदार्थम अहिमन्यते ॥ 28 ॥
आत्मरूप गुणान एतान विविधान हृदयप्रियान एवम एव विकुर्वाणः सर्ग परलय कर्मणी ॥ 29 ॥
करियाक्रिया पथे रक्तस तरिगुणस तरिगुणातिगः करियाक्रिया पथॊपेतस तथा तद इति मन्यते ॥ 30 ॥
एवं दवन्द्वान्य अथैतानि वर्तन्ते मम नित्यशः ममैवैतानि जायन्ते बाधन्ते तानि माम इति ॥ 31 ॥
निस्तर्तव्यान्य अथैतानि सर्वाणीति नराधिप मन्यते ऽयं हय अबुद्धित्वात तथैव सुकृतान्य अपि ॥ 32 ॥
भॊक्तव्यानि मयैतानि देवलॊकगतेन वै इहैव चैनं भॊक्ष्यामि शुभाशुभफलॊदयम ॥ 33 ॥
सुखम एव च कर्तव्यं सकृत कृत्वा सुखं मम यावदन्तं च मे सौख्यं जात्यां जात्यां भविष्यति ॥ 34 ॥
भविष्यति च मे दुःखं कृतेनेहाप्य अनन्तकम महद दुःखं हि मानुष्यं निरये चापि मज्जनम ॥ 35 ॥
निरयाच चापि मानुष्यं कालेनैष्याम्य अहं पुनः मनुष्यत्वाच च देवत्वं देवत्वात पौरुषं पुनः मनुष्यत्वाच च निरयं पर्यायेनॊपगच्छति ॥ 36 ॥
य एवं वेत्ति वै नित्यं निरात्मात्म गुणैर वृतः तेन देवमनुष्येषु निरये चॊपपद्यते ॥ 37 ॥
ममत्वेनावृतॊ नित्यं तत्रैव परिवर्तते सर्ग कॊति सहस्राणि मरणान्तासु मूर्तिषु ॥ 38 ॥
य एवं कुरुते कर्म शुभाशुभफलात्मकम स एव फलम अश्नाति तरिषु लॊकेषु मूर्तिमान ॥ 39 ॥
परकृतिः कुरुते कर्म शुभाशुभफलात्मकम परकृतिश च तद अश्नाति तरिषु लॊकेषु कामगा ॥ 40 ॥
तिर्यग्यॊनौ मनुष्यत्वे देवलॊके तथैव च तरीणि सथानानि चैतानि जानीयात पराकृतानि ह ॥ 41 ॥
अलिङ्गां परकृतिं तव आहुर लिङ्गैर अनुमिमीमहे तथैव पौरुषं लिङ्गम अनुमानाद धि पश्यति ॥ 42 ॥
स लिङ्गान्तरम आसाद्य पराकृतं लिङ्गम अव्रणम वरणद्वाराण्य अधिष्ठाय कर्माण्य आत्मनि मन्यते ॥ 43 ॥
शरॊत्रादीनि तु सर्वाणि पञ्च कर्मेन्द्रियाणि च वाग आदीनि परवर्तन्ते गुणेष्व एव गुणैः सह अहम एतानि वै कुर्वन ममैतानीन्द्रियाणि च ॥ 44 ॥
निरिन्द्रियॊ ऽभिमन्येत वरणवान अस्मि निर्व्रनः अलिङ्गॊ लिङ्गम आत्मानम अकालः कालम आत्मनः ॥ 45 ॥
असत्त्वं सत्त्वम आत्मानम अतत्त्वं तत्त्वम आत्मनः अमृत्युर मृत्युम आत्मानम अचरश चरम आत्मनः ॥ 46 ॥
अक्षेत्रः कषेत्रम आत्मानम असर्गः सर्गम आत्मनः अतपास तप आत्मानम अगतिर गतिम आत्मनः ॥ 47 ॥
अभवॊ भवम आत्मानम अभयॊ भयम आत्मनः अक्षरः कषरम आत्मानम अबुद्धिस तव अभिमन्यते ॥ 48 ॥
शान्तिपर्व · Shanti Parva
अध्याय 292
Reach this point to mark the section finished.
Continue to अध्याय 293